| YouTube Channel

अदत्तः (adattaH)

 
E Bharati Sampat
Sanskrit
(वि) दत्तः। १.दानरूपेण उत्सृष्टः। ‘नह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति’ रामा०। २.अप्राशस्त्ये नञ् अप्रशस्तं दानम् दानाभासेन अर्पितं दत्वापि प्रत्याहर्तुं योग्यं दानम् ‘दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम्’ नारदः। (स्त्री) ३.अविवाहिता, कन्या, परिणयार्थं दत्ता ‘अदत्तायां मृतायां तु त्र्यहाच्छुध्यन्ति बान्धवाः’ स्मृतिः।