| YouTube Channel

अदत्तं (adattaM)

 
शब्दकल्पद्रुमः
Sanskrit
अदत्तं, त्रि, (न दत्तम् उत्सृष्टं नञ्समासः नञत्रअप्राशस्त्ये यथा कारिकायां ।“तत् सादृश्यमभावश्च तदन्यत्वं तदल्पता ।अप्राशस्त्यं विरोधश्च नञ्र्थाः षट् प्रकीर्त्रिताः”
इति ।) अन्यायेन दत्तं यथा यत् पुनरन्या-येन दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्त्त-व्यमेव इत्यर्थादुक्तं भवति नारदेन दत्तंसप्तविधं प्रोक्तमदत्तं षोडशात्मकमिति प्रतिपाद्यदत्तादत्तयोः स्वरूपं विवृतं ।“अदत्तन्तु भयक्रोधशोकवेगरूजान्वितैः ।तथोत्कोचपरीहासव्यत्यासच्छलयोगतः
बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितं ।कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया यत्
अपात्रे पात्रमित्युक्ते कार्य्य वा धर्म्मसंहिते ।यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतमिति
अयमर्थः भयेन वन्दिग्राहादिभ्यो दत्तं क्रोधेनपुत्त्रादिवैरनिर्यातनायान्यस्मै दत्तं पुत्त्रवियोगा-दिनिमित्तशोकाविष्टेन दत्तं उत्कोचेन कार्य्य-प्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तं परिहासे-नोपहासेन दत्तं एकः स्वद्रव्यमन्यस्भै ददात्यन्यो-ऽपि तस्मै ददातीति दानव्यत्यासः छलयोगतःशतदानमभिसन्धाय सहस्रमिति परिभाष्यददाति बालेनाप्राप्तषोडशवर्षेण मूढेन लोक-वेदानभिज्ञेन अस्वतन्त्रेण पुत्त्रदासादिना ।आर्त्तेन रोगाभिभूतेन मत्तेन मदनीयप्रमत्तेन ।उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं दत्तं ।तथायं मदीयमिदं कर्म्म करिष्यतीति प्रतिलाभे-च्छया दत्तं अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवतेदत्तं यज्ञं करिष्यामीति धनं लबध्वा द्यूतादौविनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्त-मदत्तमित्युच्यते प्रत्याहरणीयत्वात् आर्त्त-दत्तस्यादत्तत्वं धर्म्मकार्य्य व्यतिरिक्तविषयं ।“सुस्थेनार्त्तेन बा दत्तं श्रावितं धर्म्मकारणात् ।अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः
इति कात्यायनस्मरणात् यः पुनः षोडश-प्रकारमप्यदत्तं गृह्णाति यश्चादेयं प्रयच्छति ।तयोर्दण्डो नारदेनोक्तः ।“गृह्णात्यदत्तं यो लोभात् यश्चादेयं प्रयच्छति ।अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः”
इति मिताक्षरा
कन्यकानां त्वदत्तानां इतिकात्यायनः
“नह्यदत्तां महीं पित्रा भरतः शास्तु मिच्छति”इति रामायणं ।)