| YouTube Channel

अद (ada)

 
शब्दसागरः
English
अद (औ) r. 2d cl. (अत्ति) To eat. The root is imperfect
यस being substi-
tuted for it in several inflections
as जघास, &c. Implying injury,
it is not conjugated in the middle voice, although the action be
reciprocal: as व्यत्यदन्ति they bite, or devour each other. With an
indicatory इ, अदि (अन्दति) To bind.
Spoken Sanskrit
English
अद - ada -
adj.
- eating
Wilson
English
अद (औ) r. 2d cl. (अत्ति) To eat. The root is imperfect
घस
being substituted for it in several inflections
as जघास, &c. Implying
injury, it is not conjugated in the middle voice, although the action be
reciprocal: as व्यत्यदन्ति they bite, or devour each other. With an
indicatory इ, अदि (अन्दति) To bind.
Monier Williams Cologne
English
अद or अदक,
mfn.
chiefly ifc. , eating.
Monier Williams 1872
English
अद or अदक, अस्, आ, अम्, eating.
Goldstucker
English
अद m. f. n. (-दः-दी-दम्) Eating
(occurs only as the latter
part of Tatpur. compounds). See f. i. अजाद, अतृणाद, अ-
न्नाद. E. अद्, kṛt aff. अण्.
Apte Hindi
Hindi
अद
वि* - अद्-अच्
"खाने वाला, निगलने वाला"
Bopp
Latin
अद Adj. et Nom. agentis in fine comp. (r. अद् s. अ) edens.
H. 2. 2.
Lanman
English
ada, a. eating, in cpds. [√ad.]
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अद्
मूलधातुः:
अद
धात्वर्थः:
भक्षणे
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
अत्ति
धातुप्रदीपः
Sanskrit
अदँ अद भक्षणे
- अत्ति अत्तः अदन्ति आद जघास लिट्यन्यतरस्याम् (2/4/40), आदतुः जक्षतुः इडत्त्यर्त्तिव्ययतीनाम् (7/2/66) आदिथ जघसिथ अत्ता अत्तात् अद्धि आदत् आत्ताम् आदन् अघसत् व्यत्यघत्त व्यत्यघत्साताम् अद्मरः सस्यात् क्रव्यात् क्रव्यादः (1) अदती अन्नम् जगधम् जग्धवान् प्रजग्ध्य घासः प्रघसः ।। 1 ।।
शब्दकल्पद्रुमः
Sanskrit
अद बन्धे (भ्वादि परस्मैपदी सेट् इदित्) इतिकविकल्पद्रुमः
अन्द्यते इति दुर्गादासः
अद भक्षणे (अनिट् परस्मेपदी अदादि ।)इति कविकल्पद्रुमः
अत्ति अत्ता ।गणकृतमनित्यमिति न्यायात् शपःस्थितौ अद-तीत्यपीति वररुचिः इति दुर्गादासः
अदः [स्] त्रि, (न दस्यते अङ्गु इदन्तया अङ्गलिरुत्-क्षिप्यते यत्र + दस् + बाहुल्यात् क्विप् त्रि-लिङ्गत्वञ्च ।) एतत् पुरोवर्त्ति एइ इति भाषा ।परं परोक्षभूतं इति मेदिनी सेइ इतिभाषा
वाचस्पत्यम्
Sanskrit
अद बन्धने
भ्वा०
पर०
इदित्
सक०
सेट् अन्दति आन्दीत्
अद भक्षणे अदा०
पर०
सक०
अनिट् अत्ति अघ-सत् जघास अत्ता अत्स्यति सनि जिघत्सति क्त--ओदनार्थेअन्नम् अन्यत्र जग्धम् घञ् घसः--आदः क्तिन् जग्धिः ।“योऽन्नमत्ति यतस्तत” इति स्मृतिः “अत्ता चराचर-ग्रहणादिति” शा० सू० “किमदन्ति भृङ्गा” इति
क्षीरतरङ्गिणी
Sanskrit
अदँ अद भक्षणे
- इतो द्वावनिटौ परस्मैपदिनौ अत्ति, अदिप्रभृतिभ्यः शपः (2472) लुक् अदन् अदती व्यतिहारे (द्र0 1314) व्यत्यदन्ते लुङ्सनोर्घस्लृ (2437) अघसत्, जिघत्सति लिट्यन्यतरस्याम् (2440) जघास, जक्षुः, शासिवसिघसीनां (8360) इति षत्वम् अद इडत्त्यर्तिव्ययतीनाम् (7266) अदिथ अत्स्यति अदः सर्वेषाम् (73100) इति लङ्यट्-आदत अदिखादिनीवहीनां (1452 वा0) कर्मसंज्ञा नास्ति-आदयति पिण्डीं चैत्रेण अदो जग्धिर्ल्यप्ति किति (2436) जग्धम्, जग्ध्वा, प्रजग्ध्य उणादावन्नम् (द्र0 उ0 310) सृघस्यदः क्मरच् (32160) अद्मरः, घस्मरः घस्लृभावेऽच्युपसंख्यानम् (2437 वा0) प्रात्तीति प्रघसः उपसर्गेऽदः (3359) विघसः, नेह-घासः, घञपोश्च (2438) इति घस्लादेशः नौ (3360) न्यादः, निघसः अदोऽनन्ने (3268) क्विप् आममत्तीत्यामात्, नेह-अन्नादः, अण् (द्र0 321) क्रव्ये (3269) क्रव्यात् , क्रव्यादः अदिशदि (उ0 465) इति क्रिन् -अद्रिः अदेस्त्रिन् त्रिनिश्च (द्र0 द0 उ0 137) अत्त्रिर्मुनिः, अत्त्री क्रिमिः जत्त्र्वादौ (द्र0 उ0 4102) अत्त्रुः अदेर्धश्च (द0 उ0 671) इति क्वनिप्- अध्वा मार्गः अदो नुम् धौ (द0 उ0 966) इत्यसुन्-अन्धोऽन्नम् घसेः किच्च (उ0 434) इतीरन्-क्षीरम् 1
धातुवृत्तिः
Sanskrit
अदँ अद (अर्थः) भक्षणे
(अति अत्तः अदन्ति अत्सि अत्थः अत्थ अद्मि अद्वः अद्मः) "अदिप्रभृतिभ्यः शपः'' इति शपो लुक् "खरि च'' इति चर्त्त्वं, (जघास जक्षतुः जक्षुः जघसिथ जक्षथुः जक्ष जघास जघस जक्षिव, जक्षिम) "लिट्यन्यरस्याम्" इत्यदेः पक्षे घस्लादेशः णिति वृद्धिः उत्तमे तु णिद्विकल्पः अपित्सु "असंयोगाल्लिट् कित्'' इति कित्त्वे "गमहन'' इत्युपधालोपः, तस्य "द्विर्वचनेऽचि'' इति स्थानिवत्त्वाद् द्विर्वचनं, "शासिवसिघसीनां ( 1 ) ( 1 ) इण्कोः परत्वे इति 34 पुस्तकेऽधिकम् च'' इति षत्वम्, अत्रोपधालोपस्य पूर्व्वस्मादपि विधाविति स्थानिवत्वं षत्वविधानवैयर्थ्यप्रसङ्गात् [ पूर्वत्रासिद्धे स्थानिवत् ] इति वा भवति घकारस्य "खरि च'' इति चर्त्त्वात्ककारः, अ( 2 ) ( 2 ) इहापीति 2 पु पाठः त्राप्युपधालोपस्य स्थानिवत्त्वं "न पदान्त'' इत्यादिना वा [पूर्वत्रासिद्धे स्थानिवत् ] ( 3 ) ( 3 ) इत्येवेति नास्ति 2 पु, इत्येव वा तन्निषेधात्, "अवःस्तास्वत्''इति थल् इण्निषेध स्तासौ सत इत्युक्तं तेनघस्लादेशस्य तासावसत्त्वान्नात्र ( 4 ) ( 4 ) भवतीति 4 पु नात्र प्रतिषेधः इति 2 पु नास्ति निषेधः इति 3 पु पाठः निषेधः अत एव तद्विषयो भारद्वाजनियमोऽपि भवति, यद्वा स्थानिवद्भावात् "इडत्त्यर्ति'' इति नित्यमिड् भविष्यति नन्वस्ति प्रकृत्यन्तरघसिस्तसौ नित्यानिट् तस्मात्थलि( 5 ) ( 5 ) थलीति नास्ति 2 पु जघस्थेति दुर्वारम्, मैवम् प्रकृत्यन्तरस्य घसेर्यत्र लिङ्गं वचनं वास्ति तत्रैव प्रयोजनं सर्वत्रेति तत्रैव धातावुपपादितत्त्वात्, अतो नास्ति लिटि प्रयोगः घस्लादेशाभावे, ( आद, आदतुः आदुः आदिथ आदिव ) क्रादिनियमादिट् थलि भारद्वाजनियम "इडत्त्यर्त्तिव्ययतीनाम्'' इति बाध्यते"अत आदेः''इत्यभ्यासादेर्दीर्घः ( अत्ता, अत्तासि, अत्तास्मि, अत्सति, अत्स्यसि, अत्स्यामि, अत्तु, अतात् अद्धि अदानि आदत् आदः आदम् ) "अदः सर्वेषाम्'' इत्यदोऽङ्गात्परस्य सार्वधातुकापृक्तस्याडागमः ( अद्यात् अद्याः अद्याम्) आशिषि ( 6 ) ( 6 ) आशिषि सलोपाभावो विशेष इति 4 पु पाठः ( अद्यात् ) अन्यत्र तु सलोपाभावो विशेषः अद्यास्तामित्यादि (अघसत् अघसताम् अघसन्, अघसः अघसतम्, अघसत, अघसम् अघसाव अघसाम ) "लुङ्सनोर्घस्लृ'' इति घस्लादेशे लॄदित्त्वादङ्, (जिघत्सति) घस्लादेशे "सस्यार्द्धधातुके''इति तत्वम् आदयते ऽन्नं देवदत्तेनादयतीति वा (आदिदत आदिदत्) णिलोपस्य स्थानिवत्त्वाद्दिशब्दस्य द्विर्वचनं, "निगरणचलन'' इति कर्त्रभिप्राये परस्मैपदस्य [अदेः प्रतिषेधः] इति निषेधः [आदिखाद्योःप्रतिषेधः] इति प्रयोज्यस्य कर्तुः ( 7 ) ( 7 ) कर्तृरिति 4 पु नास्ति कर्मत्त्वनिषेधः (व्यत्यत्ते व्यत्यदाते व्यत्यदते) "कर्त्तरि कर्म्मव्यतिहारे'' इति तङ्, "आत्मनेपदेष्वनत''इति झस्यादादेशो ऽनकारान्तादङ्गात्परत्वात्, व्यत्यदन्ति वृकामेषानिति हिंसायां द्रष्टव्यं, तत्र हि "न गतिहिंसा'' इतितङ् निषिध्यते (व्यतिजक्षे व्यत्यादे व्यत्यत्ता व्यत्यस्यते, व्यत्यत्ताम्, व्यत्यात्त व्यत्यदीत आशिषि व्यत्यत्सीष्ट व्यत्यघत्त व्यत्यात्त ) "सस्यार्द्धधातुके'' इति तत्त्वे "झलो झलि'' इति सिचो लोपः (कर्म्मण्यद्यते अदती) शत्रन्तात् "उगितश्च'' इति ङीप् नित्यत्वादन्तरङ्गत्वाच्च नुमः पूर्वं शपो लुगिति "शप्स्यनो'' इति नमुत्र भवति प्रत्ययलक्षणमस्तितत्रादित्यधिकाराद्वर्णाश्रये तन्निषेधात् ( जग्धः प्रजग्ध्य ) "अदो जगिधर्ल्यप्ति किति'' इति जग्ध्यादेशः पुत्रो जग्धो यया सा पुत्रजग्धी, "राजदन्तादिषु परम्'' इति निष्ठान्तस्य परनिपातः "अस्वाङ्गपूर्वपदाद्वा''इत्यस्वाङ्गवाचिपूर्वपदन्तोदात्तात् क्तान्तादन्तोदात्ताद्बहुव्रीहेर्वा ङीष्, [वा हतजग्धपर] इति पुत्रतकारस्य वा द्वित्वम्, अन्नं लब्धा आन्नः, "अन्नाण्णः'' इति द्वितीयान्ताद् ( 1 ) ( 1 ) द्वितीयासमर्थादिति 3 पु पाठः लब्धेत्यर्थे णप्रत्ययः अत एवान्नादिति निर्देशात्संज्ञायां जग्ध्यादेशः ( 2 ) ( 2 ) जग्ध्यादेशाभाब इति 3 पु पाठः सर्वप्रकारमन्नं भक्षयति सर्वान्नीनो भिक्षुः "अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु''इति द्वितीयान्तादस्माद्यथा यद् भक्षयतीत्यर्थे खः ( काकादनी, गवादनी, ) ल्युटि गौरादित्त्वान् ङीष् प्रात्तीति ( प्रघसः ) अच् [अच्युपसंख्यानम् ] इति घस्लादेशः सस्यमत्तीति सस्यात्)"अदोऽनन्ने''इत्यन्नादन्यस्मिन्कर्म्मण्युपपदे विट् अन्ने तूपपदे कर्म्मण्यणिन्नादः, (सस्याद) इति वासरूपेण ( क्रव्यात् ) "क्रव्ये च'' इति विट् "अदोनन्ने'' इत्येव सिद्धे पुनर्विधानं वासरूपबाधनार्थमिति भाष्यादौ स्थितम् क्रव्यादशब्दस्तु कृत्तविकृत्तपक्वमांसशब्दे उपपदे ऽणि पृषोदरादित्वादुपपदस्य क्रव्यभावइति वृत्यादौ, "व्याप्तं गुहाशयैः क्रूरैः क्रव्यादैः सनिशाचरेरित्यममांसभक्ष्ये व्याघ्रादौ भट्टिप्रयोगश्चिन्त्यः राक्षसः कौणपः क्रव्यात् क्रव्याद इत्यादौ कृत्तविकृत्तपक्वमांसस्यापि भक्षणं सम्भवतीति क्रव्यादव्यवहारः (पुत्रादिनी) "सुप्यजातौ''इति णिनिः अत्रपुत्रतकारस्य प्राप्तं "अनचि च'' इति द्वित्वं "नादिन्याक्रोशे पुत्रस्य'' इत्यादिनीशब्दे उत्तरपदे आक्राशे गम्यमाने नेति निषिध्यते [तत्परे च] इति वचनात्पुत्रपुत्रादिनीत्यत्रापि द्वित्वं भवति (अद्मरः)"सृघस्यदःक्मरच्''इति क्मरच्'' (घासः) "अकर्तरि कारके'' इति घञि "घञपोश्व'' इत्यदेर्घस्लादेशः महत्या घासो महाघासः [महदात्वे घासकरविशिष्टेषूपसंख्यानम्] इति पुंवद्भाव आत्त्वञ्च, ( विघसः ) "उपर्गेऽद'ः' इत्यप् नौ तूपपदे "नौ च'' इत्यब्णौ भवतः (न्यादो निघसः) "घञपोश्च'' इत्यपि घस्लादेशः (अन्धोऽन्नम्)"अदेर्नुम् धश्च'' इत्यसुनि नुमागमो दकारस्य धकारः, अत्री अत्ता राक्षसादिरुच्यते अत्रिरृषिः, ( 3 ) ( 3 ) त्रिबित्यनुवर्तमाने अदेस्त्रिनि चेति त्रिनित्रिपौ प्रत्ययौ "अदेस्रिनि च''इति त्रिनिप्रत्ययः चकारात् त्रिप् चात्रिनेरिकारो नकारपरित्राणार्थः अत्रेरपत्यमात्रेयः "इतश्चानियः'' इति ढक् अस्य बहुत्वे "अत्रि भृगुकुत्स'' इति लुकि (अत्रय) इति भवति अद्यते फलमूलादिकमस्येति(अद्रिः) "अदिसधिभूशुषिभ्यः क्रिन्''इति क्रिन् प्रत्ययः (अध्वा) "अदेर्द्धच'' इति क्वनिप् दकारस्य धकारः, अध्वानमलङ्गच्छतीति (अध्वन्यः अध्वनीनः) ( सूत्रम्) अध्वनो यत्खौ (इति सूत्रम्) इति द्वितीयान्तादलङ्गामीत्यर्थे यत्खौ, यति "ये चाभावकर्म्मणोः'' इति खे तु "आत्माध्वानौ खे'' इति प्रकृतिभावः विहीनो ध्वा व्यध्वः, एवं दुरध्वः "उपसर्गादध्वनः'' इत्यच् समासान्तः उपसर्गग्रहणं प्राद्युपलक्षणम् प्राध्वं शब्दो मान्तो ऽव्ययमानुकृल्ये वर्तते 1
कृदन्तरूपमाला
Sanskrit
1 {@“अद भक्षणे”@} 2 आदकः-दिका, आदकः-दिका, 3 जिघत्सकः-त्सिका
4 अत्ता-त्री, आदयिता-त्री, जिघत्सिता, त्री
5 अदन्-ती, आदयन्-न्ती, जिघत्सन्-न्ती
अत्स्यन्-ती-न्ती, आदयिष्यन्-ती-न्ती, जिघत्सिष्यन्-ती-न्ती
6 7 दयमानः, आदयिष्यमाणः
सस्या 8 त्, आमात्, क्रव्यात् 9 10, क्रव्या 11 दः, प्रा 12 णात्, आमिषा 13 दः
14 जग्धम्-ग्धः-ग्धवान्, 15 अन्नम्-न्नवान्
आदितम्-तः, जिघत्सितम्-तः-तवान्, 16 घसः, अन्ना 17 दी, पुत्रादिनी, आदिवान्, जक्षि 18 वान्, अद् 19 मरः, जिघत् 20 सुः, अत्तव्यम्, आदयितव्यम्, जिघत्सितव्यम्
अदनीयम्, आदनीयम्, जिघत्सनीयम्
आद्यम्, आद्यम्, जिघत्स्यम्
ईषददः-दुरदः-स्वदः
अद्यमानः, आद्यमानः, जिघत्स्यमानः
21 घासः, घसः, 22 न्यादः 23, निघसः, आदः, 24 संघसः 25, प्रघसः, जिघत्सः
26 अत्तुम्-आदको 27, आदयितुम्, जिघत्सितुम्
28 अदनम्, आदनम्, जिघत्सनम्
जग्धिः, आदना, जिघत्सा, जिघत्सयिषा
जग्ध्वा, आदयित्वा, जिघत्सित्वा
प्रजग्ध्य, समाद्य, प्रजिघत्स्य, आदम् २, जग्ध्वा २, आदम् २, आदयित्वा २, जिघत्सम्
जिघत्सित्वा 29 अत्त्रिः, 30 अद्रिः
प्रासङ्गिक्यः
01
=>
(२१)
02
=>
(२-अदादिः-१०११-सक-अनि। पर।)
03
=>
[[५। ‘लुङ्सनोर्घसॢ’ (२-४-३७) इति घसॢ। ‘सस्स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारः।]]
04
=>
[[६। ‘एकाच उपदेशे--’ (७-२-१०) इतीण्णिषेधः।]]
05
=>
[[आ। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः’ धा। का। २। ४४।]]
06
=>
[पृष्ठम्००२०+ ४१]
07
=>
[[१। ‘अदेः प्रतिषेधः’ (वा-१-३-८७) इति अस्य भक्षणार्थत्वेऽपि आत्मनेप- दित्वमेव।]]
08
=>
[[२। ‘अदोऽनन्ने’ (३-२-६८) इति विट्।]]
09
=>
[[B। ‘व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिस्स निशाचरैः’ भ। का। ६-९४।]]
10
=>
[[३। ‘क्रव्ये च’ (३-२-६९) इति विट्।]]
11
=>
[[४। ‘वाऽसरूपो--’ (३-१-९४) इति न्याये- नाणपि।]]
12
=>
[[C। ‘वालितो दूरभाग् रामः बाणं प्राणादमत्यजत्’ भ। का। ६। १२३।]]
13
=>
[[ड्। ‘तव विदितविषादो दृष्टकृत्स्नामिषादः’ भ। का। १०-१७।]]
14
=>
[[५। ‘अदो जग्धिर्ल्यप् ति किति’ (२-४-३६) इति जग्ध्यादेशः।]]
15
=>
[[६। ‘बहुलं तणि, अन्नवधक--’ (२-४-५४) इति वार्तिकात् प्रयोगोऽयमपि साधुः। ‘अन्नाण्णः’ (४-४-८५) इति निर्देशाच्च।]]
16
=>
[[७। ‘अच्युपसंख्यानम्-’ (वा। २-४-३७) इति घसॢ।]]
17
=>
[[८। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
18
=>
[[९। ‘लिट्यन्यतरस्याम्’ (२-४-४०) इति घसॢ विकल्पेन। ‘वस्वेकाज्--’ (७-२-६७) इति इट्।]]
19
=>
[[१०। ‘सृघस्यदः क्मरच्’ (३-२-१६०) इति तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययः।]]
20
=>
[[E। ‘जिघत्सोः नूनमापादि ध्वंसोऽयं तां निशाचरात्’ भ-का ६-३१।]]
21
=>
[[११। ‘घञपोश्च’ (२-४-३८) इति घसॢ।]]
22
=>
[[१२। ‘नौ च’ (३-३-६०) इति वा अप्।]]
23
=>
[[F। ‘व्याप्नुवन्तो दिशोऽन्यादान् कुर्वन्तस्सव्यधान् हरीन्’ भ। का। ७-५६। अविद्यमानः न्यादः = आहारः येषां तान् इत्यर्थः।]]
24
=>
[[ङ्। ‘आदरेण गमं चक्रुर्विषमेष्वप्यसंघसाः’ भ। का। ७-५६।]]
25
=>
[[१३। ‘उपसर्गेऽदः’ (३-३-५९) इत्यप्।]]
26
=>
[[१४। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति तुमुण्ण्वुलौ।]]
27
=>
(वा याति)
28
=>
[पृष्ठम्००२१+ ३४]
29
=>
[[१। औणादिकः त्रिन् प्रत्ययः (द। उ। १। ३७।)। ॠषिः।]]
30
=>
[[२। औणादिकः (द। उ। १-३४।) क्रिन् प्रत्ययः।]]