| YouTube Channel

अत्रिः (atriH)

 
Apte Hindi
Hindi
अत्रिः
पुं*
- अद्-त्रिन्
अत्रि ऋषि
अत्रिः
पुं*
- अद्+त्रिन्=अत्रि
"एक महर्षि का नाम। यह ब्रह्मा की आँख से उत्पन्न होने के कारण ब्रह्मा के दस मानस पुत्रों या प्रजापतियों मे से एक है। इसकी पत्नी का नाम अनसूया था। उससे तीन पुत्र हुए दत्त, दुर्वासा और सोम। रामायण में वर्णन मिलता है कि राम और सीता, अत्रि तथा अनसूया के आश्रम में गये। वहाँ उन्होंने उनका खुब आदर सत्कार किया(दे० अनसूया)।ऋषि के रुप में वह सप्तऋर्षियों में से एक है, ज्योतिष की दृष्टि से वह सप्तर्षियों में एक तारा है। कहते है कि चन्द्रमा इस की आँख से पैदा हुआ-तु०रघु० २/७५।"
E Bharati Sampat
Sanskrit
(पुं) अत्ति स्म एकगण्डूषेणैव सर्वमेव गङ्गाजलं पीतवान् अद(भक्षणे)+त्रिप् ‘अदेस्त्रिनिश्च’ उ०४.६८। १.ब्रह्ममानसपुत्रः, सप्तर्षिमध्ये मुनिभेदः। ‘मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। ब्रह्मणो मानसाः पुत्रा वसिष्ठश्चेति सप्त ते ॥’ दुर्वाससः, चन्द्रस्य, दत्तात्रेयस्य पिता अनसूयायाः पतिः। ब्रह्मणः चक्षुषः उत्पन्नः। ‘अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः’ रघुः२.७५। (वि) २.अदनशीलः, नाशनशीलः।
Wordnet
Sanskrit
Synonyms:
अत्रिः, अत्रिनदी
noun
एका नदी।
"अत्रिः शुष्का जाता।"
Synonyms:
अत्रिः
noun
सप्तर्षिषु एकः।
"अत्रिः ब्रह्मणः नेत्रात् उत्पन्नः इति मन्यते।"
शब्दकल्पद्रुमः
Sanskrit
अत्रिः,
पुं,
(अत्ति स्म एकगण्डूषेणैव सर्व्वमेव गङ्गा-जलं पीतवान् अद् + कर्त्तरि तृन् दस्य तः ।“मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।ब्रह्मणोः मानसाः पुत्त्राः वशिष्ठश्चेति सप्त ते”
इति) सप्तर्षिमध्ये ऋषिविशेषः ब्रह्मण-श्चक्षुषो जातः तस्य भार्य्या कर्दममुनिकन्याअनसूया पुत्त्रः दत्तः दुर्व्वासाः चन्द्रश्च ।इति श्रीभागवतं
(यथा मनुः, --“मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुं ।प्रचेतसं वशिष्टञ्च भृगुं नारदमेव च”
)