| YouTube Channel

अत्रत्यः (atratyaH)

 
E Bharati Sampat
Sanskrit
(वि) अत्र भवः। अत्र+त्यप् ‘अव्ययात् त्यप्’ ४.२.१०४। १.एतत्‌स्थानसम्बन्धी, अस्मिन् स्थाने स्थितः। ‘दौरात्म्याद्राक्षसान् तान् तु नात्रत्याः श्रद्दधुः प्रजाः’ रघुः१५.५२। २.अत्र जातः। अत्र+त्यप् अस्मिन् देशे सम्पन्नः।