| YouTube Channel

अत्यन्तीनः (atyantInaH)

 
E Bharati Sampat
Sanskrit
(वि) अत्यन्तं गामी अत्यन्त+खः ‘अवारपारात्यन्तानुकामं गामी’ ५.२.११। अत्यन्तगमनशीलः। ‘अत्यन्तीनोऽत्यन्तगामिनि’ हैमः। ‘लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नये’ भट्टिः।
शब्दकल्पद्रुमः
Sanskrit
अत्यन्तीनः, त्रि, (अन्तस्यात्ययः अव्ययीभावसमासः ।अत्यन्तं गामी द्वितीयातत्पुरुषः लक्ष्मीं परम्प-रीणां त्वमत्यन्तीनत्वमुन्नये इति भट्टिः ।) भृश-ङ्गामी अतिशयगमनशीलः इत्यमरः