| YouTube Channel

अत्यन्तनिवृत्ति (atyantanivRtti)

 
वाचस्पत्यम्
Sanskrit
अत्यन्तनिवृत्ति स्त्री अत्यन्ता निवृत्तिः स्वप्रतियोगि-जातीयप्रागभावासमानाधिकरणे ध्वंसे यस्यां सत्यांस्वप्रतियोगिजातीयस्यान्यस्य पुनरुत्पत्तिर्न भवेत् तादृशीनिवृत्तिरत्यन्तनिवृत्तिः “अथ त्रिविधदुःखात्यन्तनिवृत्ति-रत्यन्तपुरुषार्थ इति” सांख्यसूत्रम् सा मोक्षावस्थाया-मेव, मोक्षे हि विवेकेनाविद्यानिवृत्तौ तत्कार्य्यस्य दुःखादेःसुतरां समूलमुच्छेद इति तत्र पुनर्दुःखोत्पादः अतस्तत्रदुःखात्यन्तनिवृत्तिः