| YouTube Channel

अत्ट (atTa)

 
धातुप्रदीपः
Sanskrit
अत्टँ अट्ट अतिक्रमण, हिंसयोः
- दोपधोऽयं स्मर्य्यते अट्टते आनट्टे आट्टिटत् अट्टिटिषते अट्टयति अट्टायते ष्टुना ष्टुः (8/4/41) इत्यत्र न्यासकारेण तकारोपधोऽयमित्युक्तम् तथा अतिट्टिषते अतिट्टदिति भवति (47) ।। 251 ।।
अत्टँ अट्ट
मानकरूपान्तरम् - षुत्टँ
षुट्ट अनादरे
- अट्टयति आट्टिटत् अट्टिटयिषति सुट्टयति सुट्टयाञ्चकार असुषुट्टत् सुषुट्टयिषति 27, 28
क्षीरतरङ्गिणी
Sanskrit
अत्टँ अत्ट अतिक्रम, हिंसनयोः
- इतः शाड्रन्ताः (1192) पञ्चत्रिंशत् सेट आत्मनेपदिनश्च अतिक्रम उल्लङ्घनम् क्विपि तकारश्रवणार्थं तोपधोऽयं पठितः, ष्टुत्वं कृतं सन्देहप्रादुर्भावात् अट्टते, अटिट्टिषते अट्टः, अट्टनम् क्विपि-आत् दोपधत्वपक्षे नन्द्राः द्विरुच्यन्ते- अट्टिटिषते अन्ये तु अद्ड इत्याहुः-अड्डते अड्डिडिषते 249
धातुवृत्तिः
Sanskrit
अत्टँ अट्ट (अर्थः) अतिक्रमण, हिंसनयोः
इतः शाठ्यन्ता उदाता अनुदात्तेतः दोपधोयं स्मर्यतइति मैत्रेयः तोपधोयमिति "ष्टुना ष्टुः'' इत्यत्र न्यासवृत्तिप्रदीपकारादयः स्वाम्यपि क्विपि अदिति तकारश्रवणार्थं तोपधत्वमुक्त्वा दोपधत्वमप्याह मैत्रेयस्तु स्वमते दोपधत्वमुक्त्वा तोपधत्वं मतान्तर आह अड्ड इति डान्तपाठः प्रकरणविरोधादुपेक्ष्यः ( अट्टते आनट्टे अट्टताम् आट्टत अट्टेत आशिषि अट्टिषीष्ट [ पूर्वत्रासिद्धीयमद्विर्वचने ] इति ष्टुत्वस्यासिद्धत्वाभावाद् द्विटकारस्य सन्नन्तस्य द्विर्वचने हलादिशेषे रूपम् यदापि प्राणिणिषतीत्यादौ णत्त्वे कृते तस्यासिद्धत्वाभावात्सणस्य द्विर्वचनेनैवेष्टसिद्धौ "उभौ साभ्यासस्य'' इति पुनर्णत्वविधानात् "पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यत्वज्ञापनात् ष्टुत्वस्यासिद्धत्वात् तकारादेर्द्विर्वचनं तदापि "शर्पूर्वाः खयः'' इति टकारस्यैव शेषादिदमेव रूपम् एवं पुरुषकारादिषु अतिट्टिषतीति तकारस्य शेशेणोदाहरणप्रदर्शनं चिन्त्यम् दोपधत्वे तु "पूर्वत्रासिद्धीयमद्विर्वचने'' इत्यस्य द्विर्वचनविषयत्वात् "नन्द्रा'' इति द्विर्वचननिषेधे प्रवृत्त्यभावात् ष्टुत्वस्यासिद्धत्वात् दकारवर्जं द्विरुच्यते, दकारस्य पुनष्टुत्वे चर्त्वं अट्टिटिषत इति भाव्यम् ( अट्टयति आट्टिटत् दोपधत्वे तु अटिट्टत् अट्टा ) "गुरोश्च'' इत्यकारः अट्टां करोति ( अट्टायते ) अटाट्येत्यादिना क्यप् अयमनादरे चुरादिः 251
अत्टँ अट्ट
मानकरूपान्तरम् - षुत्टँ
षुट्ट (अर्थः) अनादरे
(अट्टयति, आट्टिटत् ) अयन्दीपधो लक्षणवशेन टकार इति "नन्द्राः'' इति दकारवर्जस्य द्वितीयस्यैकाचो द्विर्वचने पश्चात् ष्टुत्त्वम् (सुट्टयति असुषुट्टत् ) 27-28