| YouTube Channel

अतिसार (atisAra)

 
शब्दसागरः
English
अतिसार
m.
(-रः) Diarrhœa or dysentery.
E.
अति, and सार what goes
from
सृ to go, with घञ् affix
also अतीसार.
Capeller Eng
English
अतिसार
m.
diarrhoea.
Yates
English
अति-सार (रः) 1.
m.
Diarrhoea.
Spoken Sanskrit
English
अतिसार - atisAra -
m.
- diarrhea [ "flow through" ]
शकृद्भेद - zakRdbheda -
m.
- diarrhea [ am. ]
वर्चोभेद - varcobheda -
m.
- diarrhea [ am. ]
विड्भङ्ग - viDbhaGga -
m.
- diarrhea [ am. ]
अतिसार - atisAra -
m.
- diarrhea [ "flow through" ]
अतिसार - atisAra -
m.
- purging
अतिसार - atisAra -
m.
- dysentery
अतिसार - atisAra -
m.
- transgression
अतिसार - atisAra -
m.
- diarrhoea
Wilson
English
अतिसार
m.
(-रः) Diarrhoea or dysentery.
E.
अति, and सार what goes
from सृ to go, with घञ् affix
also अतीसार.
Apte 1890
English
अति(ती)सारः [अतिसारयति मलं द्रवीकृत्य, वा अतेर्दीर्घः] Dysentery, violent straining at stool.
Monier Williams Cologne
English
अति-सार or अती-सार, अस्,
m.
purging, dysentery.
transgression (in साति-स्°), ib.
Monier Williams 1872
English
अति-सार or अती-सार, अस्, m. violent straining at
stool, dysentery.
Macdonell
English
अतिसार ati-sāra,
m.
diarrhoea.
Goldstucker
English
अतिसार m. (-रः) Dysentery or diarrhœa, described as pro-
duced by vitiated bile or air or phlegm or by these three
humours collectively or by grief or by vitiated mucus in the
abdomen
according to others also by various other reasons
and comprised under acute and chronic dysentery. (See
पित्तातिसार, वातातिसार, श्लेष्मातिसार, शोकातिसार, आ-
मातिसार, पक्वातिसार.) An older division is that in ज्वरा-
तिसार, वातातिसार, पित्तातिसार, श्लेष्मातिसार, रक्ताति-
सार, सन्निपातातिसार (qq. vv.). Also written अतीसार.
E. सृ with अति, kṛt aff. घञ्.
Benfey
English
अतिसार and अतीसार अती̆सार, i. e.
अति-सृ + अ,
m.
Diarrhœa.
Apte Hindi
Hindi
अतिसारः
पुं*
- अति+सृ+अच्
आगे बढ़ने वाला
अतिसारः
पुं*
- अति+सृ+अच्
नेता
अतिसारः
पुं*
- अति - सृ+णिच्+अच्
"पेचिश, मरोड़ो के साथ दस्तों का आना"
Shabdartha Kaustubha
Kannada
अतिसार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ರೋಗ
व्युत्पत्तिः - > अतिसारयति मलम्
L R Vaidya
English
ati(tI)sAra {% m. %} Dysentery.
Edgerton Buddhist Hybrid
English
atisāra (= Pali id.), sin, in sātisāra (= Pali id.), singul, guilty: Mvy 〔9336〕 = Tib. ḥgal tshabs can. Here, and seemingly always, used in nom. with bhavati, becomes guilty of a sin. So Divy 〔275.18〕
〔330.1〕
Śikṣ 〔63.8〕
Bbh 〔160.24〕
°rā (fem.) Bhīk 〔10a.3—4〕.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
अतिसार auch: Vergehen, in सातिसार.
Sanskrit Tibetan
Tibetan
khru skyug
अतिसार
khru nad
अतिसार
khru sbyongs
अतिसार
khru gzhi
अतिसार
Mahabharata
English
Atisāra, v. Abhisāra.
शब्दकल्पद्रुमः
Sanskrit
अतिसारः,
पुं,
(अतिशयेन मलं द्रवीकृत्य सरतिनिःसारयति अति + सृ + व्याधिमत्स्यबलेष्वितिवक्तव्यमिति वार्त्तिकसूत्रेण कर्त्तरि घञ् वृद्धिःदीर्घश्च ।) बहुद्रवमलनिःसरणरोगः तत्पर्य्यायः ।अन्नगन्धिः उदरामयः इति त्रिकाण्डशेषः
अतीसारः इति वैद्यकं
*
तस्य निदानं ।“गुर्व्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः ।विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः ।शोकाद्दुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्य्ययैः
जलाभिरमणैर्व्वेगविघातैः क्रिमिदोषतः ।नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते”
संप्राप्तिर्यथा, --“संशम्यापां धातुरग्निं प्रवृद्धःशकृन्मिश्रो वायुनाधः प्रणुन्नः ।सरत्यतीवातिसारं तमाहु-र्व्याधिं घोरं षड्विधं तं वदन्ति
एकैकशः सर्व्वशश्चापि दोषैःशोकेनान्यः षष्ठ आमेन चोक्तः”
*
पूर्व्वरूपं यथा, --“हृन्नाभिपायूदरकुक्षितोद-गात्रावसादानिलसन्निरोधाः ।विट्सङ्ग आध्मानमथाविपाकोभविष्यतस्तस्य पुरःसराणि
”इति माधवकरः
अथ सामान्यातिसारस्यचिकित्सामाह ।“आमपक्वक्रमं हित्वा नातिसारक्रिया यतः ।अतोऽतिसारे सर्व्वस्मिन्नामं पक्वञ्च लक्षयेत्
क्रमशश्चिकित्सा तत्रामपक्वयोर्लक्षणं ।“संसृष्टमानैर्दोषैस्तु न्यस्तमप्सु निमज्जति ।पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितं
एतान्येव तु लिङ्गानि विपरीतानि यस्य वै ।लाघवञ्च विशेषेण तत्तु पक्वं विनिर्द्दिशेत्
संग्राहणं दद्यात् पूर्व्वमामातिसारिणे ।अकाले संगृहीतो हि विकारान्कुरुते बहूग्
दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान्
शोथं पाण्ड्वामयं प्लीहगुल्ममेहोदरज्वरान्
डिम्भस्थः स्थविरस्थश्च वातपित्तात्मकश्च यः ।क्षीणधातुबलस्यापि बहुदोषोऽतिविश्रुतः
आमोऽपि स्तम्भनोयः स्यात् पाचनान्मरणं भवेत् ।लङ्घनमेकं मुक्त्वा चान्यदस्तीह भेषजंबलिनः ।समुदीर्णदोषनिचयं तत् पाचयते तथा शमयेत्
लङ्घनएव दोषदुःसहपिपासायां दोषपाकार्थंषडङ्गविधिनार्द्धशृतं योगचतुष्टयमाह, --“धान्योदीच्यश्टतं तोयं तृष्णादाहातिसारिणे ।ह्रीवेरश्टङ्गवेराभ्यां मुस्तपर्पटकेन वा
मुस्तोदीच्यशृतं शीतं प्रदातव्यं पिपासवे ।हितं लङ्घनमेवादौ पूर्व्वरूपेऽतिसारिणः
कार्य्यं वानशनस्यान्ते प्रद्रवं लघुभोजनं ।पथ्यादारुवचामुस्तैर्नागरातिविषान्वितैः
आमातीसारनाशाय क्वाथमेभिः पिबेन्नरः ।पथ्यादिक्वाथः
*
“पाठाहिङ्ग्वजमोदोग्रापञ्चकोलाब्दजं रजः ।उष्णाम्बुपीतं सरुजं जयत्यामं ससैन्धवं
”पाठादिचूर्णं
*
“हरीतकीं सातिविषां हिङ्ग सौवर्च्चलां वचां ।सैन्धवञ्चापि संपिष्य पाययेदुष्णवारिणा
आमातिसारं योगोऽयं पाचयित्वा चिकित्सति ।आमातिसारो योगेन यद्येतेन शाम्यति ।न तं योगशतेनापि चिकित्सति चिकित्सकः
”चिकित्सति अपनयति हरीतक्यादिकल्कः
*
“वत्सकातिविषा विल्वमुस्तबालकजं श्टतं ।अतीसारं जयेत् सामं चिरजं रक्तशूलजित्
”वत्सकादिक्वाथः
*
“एरण्डरससंपिष्टं पक्वमामञ्च नागरं ।आमातिसारशूलघ्नं दीपनं पाचनं परं
”नागरस्य पुटपाकः कल्कश्च
*
“धान्यबालकविल्वाब्दनागरैः पाचितं जलं ।आंमशूलविबन्धघ्नं पाचनं नित्यसेवितं
”धान्यपञ्चकं
*
“पित्ते धान्यचतुष्कन्तु शुण्ठीत्यागाद्वदन्ति हि ।रक्तेऽपि पित्तसाधर्म्याद्धितं धान्यचतुष्टयं
”धान्यचतुष्कं
इति आमातिसारस्य चिकित्सा
*
“सलोध्रं धातकीविल्वं मुस्ताम्रास्थिकलिङ्गकं ।पिबेन्माहिषतक्रेण पक्वातीसारनाशनं
”लोध्रादिचूर्णं
*
“अम्बष्ठा धातकी लोध्रं समङ्गा पठ्मकेशरं ।मधुकारलुविल्वच्च पक्वातीसारहा गणः
”अरलुः श्यीणाकः पाठादिर्गणः
*
“समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रएव ।शाल्मलीवेष्टको लोध्रो दाडिमद्रुफलत्वचौ
आम्रास्थिमध्यं लोध्रञ्च विल्वमध्यं प्रियङ्गु ।मधूकं श्टङ्गवेरञ्च दीर्घवृन्तत्वगेव
चत्वार एते योगाः स्युः पक्वातिसारनाशनाः ।ते योगा उपयोग्याः स्युः सक्षौद्रास्तण्डुलाम्बुना
”समङ्गात्र लज्जालुः शाल्मलीवेष्टको मोचरसः ।दाडिमस्य द्रुमफलयोस्त्वचौ प्रियङ्गोर्नपुंसंकत्वमत्रफले वर्त्तमानत्वा त् शृङ्गवेरमत्र शुण्ठी दीर्घवृन्तःश्योणाकः तस्य त्वक् समङ्गादीनि चत्वारि चूर्णानि
“कञ्चटजम्बूदाडिमश्टङ्गाटकपत्रविल्ववर्हिष्ठं जल-धरनागरसहितं गङामपि वेगवाहिनीं रुन्ध्यात्”
कञ्चटं चवराई शाकस्य भेदः कञ्चटादिभि-श्चतुर्भिः पत्रशब्दः सम्बध्यते वर्हिष्ठं बालकंगङ्गाधरक्वाथः
*
“मोचरसमुस्तनागरपाठारलुधातकीकुसुमैः ।चूर्णं मथितसमेतं रुणद्धि गङ्गाप्रवाहमपि”
अरलुः श्योणाकः मथितं निर्ज्जलं दधि वस्त्रपूतं ।गङ्गाधरचूर्णं
*
“मुस्तावत्सकवीजं मोचरसो विल्वधातकीलोध्रं ।गुडमथितसंप्रयुक्तं गङ्गामपि वेगवाहिनीं रुन्ध्यात्”
द्वितीयं गङ्गाधरचूर्णं
*
“मुस्तारलुकशुण्ठीमिर्धातकीलोध्रबालकैः ।विल्वमोचरसाभ्याञ्च पाठेन्द्रयववत्सकैः
आम्रवीजसमङ्गातिविषायुक्तैर्बिचूर्ण्णितैः ।मधुतण्डुलपानीयपीतैर्नश्येत् प्रवाहिकां
सर्व्वेऽतिसारा ग्रहणी प्रशमं याति वेगतः ।वृद्धगङ्गाधरं चूर्णं रुन्ध्याद्गीर्ब्बाणवाहिनीं
”समङ्गा लज्जालुः वृद्धगङ्गाधरचूर्ण्णं
*
अङ्कोटमूलकल्कः तण्डुलपयसा समाक्षिकः पीतः ।सेतुरिव वारिवेगं झटिति रुन्ध्यादतोसारं”
अङ्कोठकल्कः
*
“कुटजत्वग्बलामाद्रो द्रोणनीरे पचेत् भिषक् ।पादशेषं श्टतं नीत्वा वस्त्रपूतं पुनः पचेत्
लज्जालुर्धातकी विल्वं पाठा मोचरसस्तथा ।मुस्तं प्रतिविषा चैव चूर्णान्येषां पलं पलं
निक्षिप्य विपचेत्तावत् यावत् दर्व्वी प्रलिप्यते ।जलेन छागदुग्धेन पीतो मण्डे वा जयेत्
घोरान् सर्व्वानतीसारान् नानावर्णान् सवेदनान् ।असृग्दरं समस्तञ्च तथार्शांसि प्रवाहिकां
”कुटजावलेहः
*
“कृत्वालबालं सुदृढं पिष्टैरामलकैर्मिषक् ।आर्द्रकस्य रसेनाशु पूरयेन्नामिमण्डलं
नदीवेगोपमं घोरं प्रवृद्धं दुर्द्धरं नृणां ।सद्योऽतिसारमजयं नाशयत्येष योगराट्
पाठा पिष्टा गोदध्ना तथा मध्यत्वगाम्रजा ।अतीसारं व्यथादाहयुक्तं हन्त्युदरे धृता
*
अथ वातातिसारस्य लक्षणं ।“अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः ।शकृदामं सरुक्छब्दं मारुतेनातिसार्य्यते”
अरुणमीषद्रक्तं शकृत् पुरीषं सरुक्छब्दशब्दो गुदे तत्साहचर्य्यात् रुगपि गुद एवबोद्धव्या
*
तस्य चिकित्सा ।“वचा चातिविषा मुस्तं वीजानि कुटजस्य ।श्रेष्ठः कषाय एतेषां वातातिसारशान्तये”
*
अथ पित्तातीसारस्य लक्षणं ।“पित्तात् पीतं शकृद्रक्तं दुर्गन्धि हरितं द्रुतं ।गुदपाकतृषामूर्च्छादाहयुक्तं प्रवर्त्तते”
*
तस्य चिकित्सा ।“विल्वशक्रयवाम्भोदबालकातिविषाकृतः ।कषायोहन्त्यतीसारं सामं पित्तसमुद्भवं” ।विल्वादिकषायः
*
“रसाञ्जनं सातिविषं कुटजस्य पलं त्वचं ।धातकीशृङ्गवेरञ्च पाययेत्तण्डुलाम्बुना
निहन्ति मधुना पीतं पित्तातीसारमुल्वणं ।अग्निं सन्दीपयत्येतत् शूलमाशु निवारयेत्
रसाञ्जनादिचूर्णं
*
अथ पित्तातिसारभेदस्यरक्तातीसारस्य संप्राप्तिमाह, --“पित्तकृन्ति यदात्यर्थं द्रव्याण्यश्नाति पैत्तिके ।तद्द्वोषाज्जायते शीघ्रं रक्तातीसार उल्वणः
*
”तस्य चिकित्सा ।वत्सकतरुत्वगार्द्रा दाडिमफलसम्भवा त्वक् ।त्वगयुगलं पलमानं विपचेदष्टांशसम्मिते तोये
अष्टमभागं शेषं क्वाथं मधुनापिबेत् पुरुषः ।रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतं
कुटजदाडिमक्वाथः
*
“कुटजातिविषा मुस्तं बालकं लोध्रचन्दनं ।धातकी दाडिमं पाठा क्वाथमेषां समाक्षिकं
पिबेद्रक्तातिसारे तु दाहशूलामसंयुते ।कुटजादिकषायोऽयं सर्व्वातीसारनाशनः
”चन्दनमत्र रक्तचन्दनं कुटजादिक्वाथः
*
“गुडेन भक्षयेद्विल्वं रक्तातीसारनाशनं ।आमशूलविबन्धघ्नं कुक्षिरोगहरं परं
”विल्वं सुस्विन्नं बालविल्वगर्भं शीतं तत्स्वेदनोदकंचानुपेयं गुडविल्वं
*
“जम्व्वाम्रामलकीनान्तुकुट्टयेत् पल्लवान् नवान् ।संगृह्य स्वरसं तेषां अजाक्षीरेण योजयेत्
”तत्पिबेन्मधुना युक्तं रक्तातीसारनाशनं ।जम्व्वादिस्वरसः
*
“निष्क्वाथ्य मूलममलं गिरिमल्लिकायाःसम्यक् पलद्वितयमम्बुचतुःशरावे ।तत्पादशेषसलिलं खलु शोषणीयंक्षीरे पलद्वयमिते कुशलैरजायाः
प्रक्षिप्य माषकानष्टौ मधुनस्तत्र शीतले
रक्तातिसारी तत्पीत्वा नैरुज्यं क्षिप्रमाप्नुयात्”
कुटजक्षीरं
*
“पीत्वा शतावरीकल्कं पयसा क्षीरभुग् जयेत् ।रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः
”शतावरीक्लल्कस्तद्घृतञ्च
*
“गोदुग्धनवीनतन्तु मधुना सितया सह
लीढं रक्तातिसारे तु ग्राहकं परमं मतं”
नबनीतावलेहः
*
“पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना ।रक्तातिसारजिद्रक्तपित्ततृड्दाहमेहनुत्”
चन्दनमत्र श्वेतं चन्दनकल्कः
*
“विरेकैर्बहुभिर्यस्य गुदं पित्तेन दह्यते ।पच्यते वा तयोः कार्य्यं सेकप्रक्षालनादिकं”
आदिशब्देन लेपादिग्रहः ।“पटोलयष्टीमधुकक्काथेन शिशिरेण हि ।गुदप्रक्षालनं कार्य्यं तेनैव गुदसेचनं
दाहे पाके हितं छागीदुग्धं सक्षौद्रशर्करं ।गुदस्य क्षालने सेके युक्तं पाने भोजने
गुदस्य दाहपाकयोः ।“गुदनिःसरणे प्रोक्तं चाङ्गेरीघृतमुत्तमं ।अतिप्रवृत्त्या महती भवेद्यदि गुदव्यथा ।स्विन्नमूषकमांसेन तदा संस्वेदयेद्गुदं
अथ गोधूमचूर्णस्य संनीतस्य तु वारिणा ।साब्ज्यस्य गोलकं कृत्वा मृदु संस्वेदयेद्गुदं
(गुदव्यथायां) गुदभ्रंशे गुदंस्नेहैरभ्यज्यान्तःप्रवेशयेत् ।प्रविष्टं स्वेदयेन्मन्दं मूषकस्यामिषेण हि
”मूषकस्यामिषेण काञ्जिकेनोत्स्विन्नेन एरण्ड-पत्रादिस्थापितेन स्वेदयेत् ।“मूषकस्याथ वसया पायुं सम्यक् प्रलेपयेत् ।गुदभ्रंशामिधो व्याधिः प्रणश्यति संशयः
चाङ्गेरीकोलदध्यम्लक्षारनागरसंयुतं ।घृतं विपक्वं पातव्यं गुदभ्रंशगदापहं
चाङ्गेरी चतुष्पत्रा अम्ललोनिका तस्याः स्वरसःकोलस्य क्वाथः दध्यम्लं दधिरूपमम्लं एतत्रयंमिलितं घृताच्चतुर्गुणं क्षारनागरयोः कल्कः ।चाङ्गेरीघृतं
*
“कोमलं पद्मिनीपत्रं यः खादेच्छर्करान्वितं ।एतन्निश्चित्य निर्द्दिष्टं तस्य गुदनिर्गमः
पद्मिनीपत्रं पुरैनिपत्रं तत्संशोष्य संचूर्ण्य शर्करायुक्तं खादेत् अयन्तु गुदभ्रंशोऽतीसारं विनापिभवति ततः क्षुद्ररोगेषु लिखितः अत्र तुगुदस्य दाहपाकव्यथाप्रसङ्गात् भ्रंशोऽपि लिखितः ।चिकित्सा तूभयत्र तुल्यैव
*
अथ श्लेष्माति-सारस्य लक्षणं
“श्वेतं स्निग्धं घनं विस्रं शीतलं मन्दवेदनं ।गौरवारुचिसंयुक्तं श्लेष्मणा सार्य्यते शकृत्
विस्रं स्यादामगन्धि यत्
*
अथ तस्य चिकित्सा ।“श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनं ।योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः
चव्यञ्चातिविषा कुष्ठं बालविल्वं सनागरं ।वत्सकत्वक्फले पथ्या छर्द्दिश्लेष्मातिसारनुत्”
चव्यादिक्वाथः
*
“हिङ्गु सौवर्च्चलं व्योषमभयातिविषा वचा ।पीतमुष्णाम्बुना चूर्णमेषां श्लेष्मातिसारनुत्
”हिङ्ग्वादिचूर्णं
*
“कृमिशक्रवचाविल्वपेशीधान्याककट्फलं ।एषां क्वाथं भिषग्दद्यात् अतीसारे बलासजे”
विडङ्गादिक्वाथः
*
अथ द्विदोषजातिसाराणांलक्षणानि चिकित्सा ।“द्विदोषलक्षणैर्विद्यादतीसारं द्विदोषजं ।तेषां चिकित्सा प्रोक्तैव विशिष्टा निगद्यते
कट्फलं मधुकं लोध्रत्वक् दाडिमफलस्य ।सतण्डुलजलं चूर्णं वातपित्तातिसारनुत्”
वातपित्तातिसारे
*
“चित्रकातिविषा मुस्तं बालविल्वं सनागरं ।वत्सकत्वक्फलं पथ्या वातश्लेष्मातिसारनुत्”
वातश्लेष्मातिसारे
*
“मुस्ता सातिविषामूर्ब्बा वचाचकुटजः समाः ।एषां कषायः सक्षौद्रः पित्तश्लेष्मातिसारनुत्”
पित्तश्लेष्मातिसारे
अथ सन्निपातातिसारस्य लक्षणं ।“तन्द्रायक्तो मोहसादास्यशोषीवर्च कुर्य्यान्नैकरूपं तृषार्त्तः ।सर्व्वोद्भूते सर्व्वलिङ्गोपपत्तिःकृच्छ्रोऽसाध्यो बालवृद्धाबलानां”
अथ तस्य चिकित्सा
*
“पञ्चमूलीबलाविल्वगुडूचीमुस्तनागरैः ।पाटाभूनिम्बवर्हिष्ठकुटजत्वक्फलैः शृतं
सर्व्वजं हन्त्यतीसारं ज्वरञ्चापि तथा वमिं ।सशूलोपद्रवं श्वासं कासं वापि सुदुस्तरं
पञ्चमूल्यत्र सामान्या पित्ते योज्या कनीयसी ।वाते पुनर्ब्बलासे सा योज्या महती मता”
वर्हिष्ठं बालकं पञ्चमूल्यादिक्वाथः
*
“अभया नागरं मुस्तं गुडेन सह योजितं ।चतुःसमेयं गुटिका स्यात्त्रिदोषातिसारनुत्
आमातिसारमानाहं सविबन्धं विसूचिकां ।कृमीनरोचकं हन्याद्दीपयत्याशु चानलं”
चतुःसमो मोदकः
*
“तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा ।पिष्टां चतुःपलमितां जम्बुपल्लववेष्टितां
सूत्रेण बद्ध्वा गोधूमपिष्टेन परिवेष्टितां ।लिप्ताञ्च घनपङ्केन निर्द्दहेद्गोमयाग्निना
अङ्गारवर्णाञ्च मृदं दृष्ट्वा वह्नेः समुद्धरेत् ।ततो रसं समादाय शीतं क्षौद्रयुतं पिबेत्
उक्तः कृष्णात्रिपुत्रेण पुटंपाकस्तु कौटजः ।जयेत् सर्व्वानतीसारांन् दुस्तरान् सुचिरोत्थितान्कुटजपुटपाकः
*
“कुटजत्वक्कृतः क्वाथो वस्त्रपूतो घनीकृतः ।स लीढोऽतिविषायुक्तः स्यात्त्रिदोषातिसारनुत्
इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः ।प्रक्षिपेद्वा चतुर्थांशमिति केचिद्वदन्ति हि”
कुठजावलेहः
*
“पलमङ्कोटमूलस्य पाठां दार्व्वीञ्च तत्समां ।पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान्
छायाशुष्कांश्च तान् कुर्य्यात्तेष्वेकं तण्डुलाम्बुना ।पेषयित्वा प्रदद्यात्तं पानाय गदिने भिषक्
वातपित्तकफोद्भुतान् द्वन्द्वजान् सान्निपातिकान् ।हन्यात् सर्व्वानतीसारान् वटकोऽयं प्रयोजितः”
अङ्कोठवटकः
*
अथागन्तुजस्य शोकाति-सारस्य संप्राप्तिपूर्व्वकं लक्षणमाह ।तैस्तैर्भावैः शोचतोऽल्पाशनस्यवाष्पोष्मा वै वह्निमाविश्य जन्तोः ।कोष्ठं गत्वा क्षोभयेत् तस्य रक्तंतच्चाधस्तात् काकणन्तीप्रकाशं
निर्गच्छेद्वै विड्विमिश्रं ह्याविड्वानिर्गन्धं वा गन्धवद्वातिसारः ।शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रंरोगो वैद्यैः कष्ट एष प्रदिष्टः
अयमर्थः तैस्तैर्भावैर्बन्धुवित्तक्षयादिभिः शोचतः शोकंकुर्व्वतः जन्तोः प्राणिनः वाष्पोष्मा वाष्पः शोकज-देहोष्मणा जनितं नेत्रनासागलादिषु जलं तेन स-हितः उष्मा शोकजं देहतेजः कोष्ठं गत्वा वह्नि-माविश्य जठराग्निं मन्दीकृत्य वाष्पसाहित्यादुष्म-णापिवह्नेर्मन्दीभाव इति नदोषः वह्नेर्मन्दीभावादेवअल्पाशनस्येति जन्तोर्विशेषणं ततस्तस्य जन्तोःरक्तं क्षोभयेत् स्वस्थानाच्चालयेत् इति संप्राप्तिः
अथ लक्षणं तच्च रक्तं अधस्तात् गुदात् काक-णन्तीप्रकाशं गुञ्जाफलसदृशं विड्विमिश्रं गन्ध-वच्च अविट् निर्गन्धं वा निर्गच्छेत् शोकोत्प-न्नोऽतिसारः अतिमात्रं दुश्चिकित्स्यः शोकाप-नोदनं विना केवलेन भेषजेन प्रतिकर्त्तुमशक्य-त्वात् एषोऽतिसारः वैद्यैः कष्टः कष्टेन साध्यः ।प्रदिष्टः कथित इत्यर्थः
*
अथागन्तुजत्वेनसाम्यात् भयातिसारस्यापि संप्राप्तिपूर्व्वकं लक्षण-मत्रैवाह ।“भयेन क्षोभिता दोषा दूषयन्ति मलं यदा ।तदातिसार्य्यते तन्तु क्षिप्रमुष्णजलप्लवं
वातपित्तातिसारस्य प्रायो लिङ्गैः समन्वितं ।न भयोपशमाच्छर्म्म यस्मिन् स्यात् भयात्स्मृतः
प्लवत इति प्लवं जले प्लवमानं ननु भयाति-सारस्य कथमागन्तुजत्वमयमपि दोषज एव ।यत आह भयेन क्षोभिता दूषिता दोषा मलंदूषयन्ति तन्मलमतिसरति अत्र पूर्व्वमेवदोषसम्बन्घः उच्यते ।“रागद्वेषभयात् ये ते स्युरागन्तवो गदाः” ।इति वचनाद्भयातीसार आगन्तुज एव श्लोकस्यत्वयमर्थः भयेनैव हेतुभूतेन दोषा वातपित्त-कफा अतीसारणाय क्षोभिताः सञ्चालिताः नदूषिता भयेन त्रयाणामपि दोषाणां दूषणासम्भ-वात् अतिसर्त्तुं चलिता वातपित्तकफा मलंदूषयन्ति तत् सर्व्वं वातपित्तकफमलं भयेनैवाति-सार्य्यते पश्चाद्वातसम्बन्धो भयाद्वायुरिति वच-नात् अतएव भयातिसारे वातहर्य्येव क्रियाकथितेति समाधिः
*
अथ तयोश्चिकित्सा ।“भयशोकसमुद्भूतौ ज्ञेयौ वातातिसारवत् ।तयोर्व्वातहरी कार्य्या हर्षणाश्वासनैः क्रिया”
वातातिसारवत् वातातिसारलक्षणैः तयो-श्चिकित्सा हर्षणाश्वासनपूर्व्विका वातहरीकार्य्या
*
अथामातीसारस्य संप्राप्तिपूर्व्वकंलक्षणमाह ।“अन्नाजीर्ण्णात् प्रद्रुताः क्षोभयन्तो-दोषाः कोष्ठे धातुसंघान् मलांश्च ।नानावर्णं नैकशः सारयन्तिशूलोपेतं षष्ठमेनं वदन्ति
अन्नं भुक्तं तदजीणं चेति कर्म्मधारये अन्नाजीर्णंतस्मात् प्रद्रुता उपद्रुताः क्षोभयन्तः चाल-यन्तः नैकश इत्यत्र नाकादित्वान्नाक्षरविप-र्य्ययः नन्वामेन दोषा दूष्यन्ते गुर्व्वादिभक्ष-णादिभिरिव ते चातीसारमुत्पादयन्ति नत्वाम-मेवातीसारमुत्पादयति तेनामातीसारोऽपिदोषज एव किमर्थमयं पृथगुच्यते उच्यते आ-मातीसारस्य चिकित्साविशेषार्थं सम्प्राप्तिपूर्व्वकोलक्षणविशेषः पृथगुक्तः कः चिकित्साविशेष-स्तमाह अतिसारेषु सर्व्वेष्वेव संग्राहकमौषध-मुक्तमामातीसारे तु ग्राहकं बिरुद्धं यत उक्तं ।“नामे संग्राहकं विद्यादतीसारे कदाचन ।संगृहीतो बलादामो विकारान् कुरुते बहून्”
इति बलाद्भेषजबलात् विकारान् ग्रहण्या-ध्मानशूलगुल्मशोथोदरज्वरादीन्
*
तस्यचिकित्सा ।“वत्सकातिविषा शुण्ठी विल्वहिङ्गुयवाम्बुदाः ।चित्रकेण युता एषां क्वाथ आमातिसारनुत्”
आमातिसारस्य चिकित्सा पूर्व्वमुक्तैव
*
“शोथघ्नीन्द्रयवाः पाठा विडङ्गातिविषा घनाः ।क्वथिताः सोषणाः पीताः शोथातिसारनाशनाः”
शोथघ्नी पुनर्नवा उषणं मरिचं सशोथातो-सारे
*
“आम्रास्थिमध्यमालूरफलक्वाथः समाक्षिकः ।शर्करासहितो हन्यात् छर्द्यतीसारमुल्वणं
”मालूरफलं विल्वफलं ।“कषायो भृष्टमुद्गस्य सलाजमधुशर्करः ।निहन्याच्छर्द्यतीसारं तृष्णादाहं ज्वरं भ्रमं”
छर्द्यतीसारे
*
“दध्ना ससारेण समाक्षिकेणभुञ्जीत निःसारकपीडितस्तु ।सुतप्तकुप्यक्वथितेन चापिक्षीरेण शीतेन मधुप्लुतेन”
निःसारकः निढाही इति लोके सुतप्तकुप्य-क्वथितेन सुतप्तसुवर्णरजतेतरलोहनिर्व्वापण-क्वथितेन भुञ्जीत पथ्यमिति शेषः
निःसा-रके
*
“दीप्ताग्निर्न्निष्पुरीषो यः सार्य्यते फेनिलं शकृत् ।स पिबेत् फाणितं शुण्ठीं दघि तैलं पयो घृतं
बला विश्वाश्टतं क्षीरं गुडतैलानुयोजितं ।दीप्ताग्निं पाययेत् प्रातः सुखदं वर्च्चसक्षये”
पुरीषक्षये
*
“तुलां संकुट्य विल्वस्य पचेत् पादावशेषितं ।सक्षीरं साधयेत्तैलं श्लक्ष्णपिष्टैरिमैः समैः
विल्वं सधातकीकुष्ठं शुण्ठी रास्ना पुनर्नवा ।देवदारु वचा मुस्तं लोध्रमोचरसान्वितं
एभिर्मृद्वग्निना पक्वं ग्रहण्यर्शोऽतिसारनुत् ।विल्वतैलमिति ख्यातमत्रिपुत्त्रेण भाषितं
ग्रहण्यर्शोऽधिकारे ये स्नेहाः समुपदर्शिताः ।प्रयोज्यास्तेऽतिसारेऽपि त्रयाणां तुल्यहेतुता”
त्रयाणां ग्रहण्यर्शोऽतिसाराणां विल्वतैलं
*
अथातिसारभेदस्य प्रवाहिकाव्याधेः संप्राप्ति-पूर्व्वकलक्षणमाह ।“वायुः प्रवृद्धो निचितं बलासंनुदत्यधस्तादहिताशनस्य ।प्रवाहतोऽल्पं बहुशो मलाक्तंप्रवाहिकां तां प्रवदन्ति तज्ज्ञाः”
अस्यायमर्थः अहिताशनस्य अतिशयेन वातल-भक्ष्यभोजिनः प्रवृद्धो वायुः प्रवाहतः कण्ठ-हृद्गलेन सशब्दं वायुमपानमार्गेण त्यजतः ।निचितं सञ्चितं बलासं कफं मलाक्तं पुरी-षयुक्तं अल्पं बहुशः वारंवारं अधस्तात्गुदमार्गेण नुदति प्रेरयति तज्ज्ञाः पुरा-णा वैद्याः तां प्रवाहिकां प्रवदन्ति कथ-यन्ति
*
तस्या वातजादिभेदेन रूपमाह ।“प्रवाहिका वातकृता सशूलापित्तात् सदाहा सकफा कफाच्च ।सशोणिता शोणितसम्भवाच्चताः स्नेहरूक्षप्रभवा मतास्तु”
तत्र रूक्षप्रभवा वातजा स्नेहप्रभवा कफजा तुशब्दात्तीक्ष्णोष्णप्रभवा पित्तजा रक्तजा तासा-मतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वताञ्च ।क्रमं चिकित्सां
*
तस्याश्चिकित्सामाह ।“विल्वपेशी गुडं लोध्रं तैलं मरिचसंयुतं ।लीढ्वा प्रवाहिकाक्रान्तः सत्वरं सुखमाप्नुयात्”
वित्त्वादिरवलेहः
*
“धातकीवदरीपत्रकपित्थरसमाक्षिकं ।सलोध्रमेकतो दध्ना पिबेन्निर्व्वाहिकार्द्दितः”
एकतः प्रत्येकं दध्ना पिबेदित्यर्थः निर्व्वाहिकाप्रवाहिका धातक्यादिः
*
अथ असाध्या-तिसारिणोलक्षणमाह ।“पक्वजाम्बवसंकाशं यकृत्खण्डनिभं तनुं ।घृततैलवसामज्जवेसवारपयोदधि ।मांसधावनतोयाभं कृष्णं नीलारुणप्रभं
कुणपं सकृदालोक्य नातिसारमुपक्रमेत् ।तृष्णादाहारुचिश्वासहिक्वापार्श्वास्थिशूलिनं”
संमूर्च्छारतिसंमोहयुक्तं पक्ववलीगुदं ।प्रलापयुक्तञ्च भिषक् वर्ज्जयेदतिसारिणं
संमूर्च्छासकलेन्द्रियमनसां स्वस्वविषयग्रहणाशक्तिहेतुर-वस्थाविशेषः संमोहः विकृतमतित्वं ।“असंवृतगुदं क्षीणं शूलाध्मानैरुपद्रुतं ।गुदे पक्वे गतोष्माणमतीसारिणमुत्सृजेत्
असंवृतगुदं गुदसंवरणाक्षमं ।गुदे पक्वे गतोष्माणं गुदपाकारम्भके पित्तेविद्यमानेऽपि शीतगात्रं नष्टाग्निं वा ।“श्वासशूलपिपासार्त्तं क्षीणं ज्वरनिपीडितं ।विशेषेण नरं वृद्धमतीसारो विनाशयेत्
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकं ।छर्द्दिमुर्च्छाञ्च हिक्वाञ्च दृष्ट्वातिसारिणं त्यजेत्
हस्तपादाङ्गुलीसन्धिप्रपाको मूत्रनिग्रहः ।पुरीषस्योष्णतातीव मरणायातिसारिणां
अतीसारी राजरोगी ग्रहणीरोगवानपि ।मांसाग्निबलहीनो यो दुर्लभं तस्य जीवनं
बाले वृद्धे त्वसाध्योऽयं लिङ्गैरेतैरुपद्रुतः ।अपि यूनामसाध्यः स्यादतिदुष्टेषु धातुषु”
एतैर्लिङ्गैः पर्व्वोक्तैः पक्वजाम्बवसंकाशत्वादिभिः
*
अथातिसारयुक्तस्य लक्षणं ।“यस्योच्चारं विना मूत्रं सम्यग्वायश्च गच्छति ।दीप्ताग्नेर्लघु कोष्ठस्य स्थितस्तस्योदरामयः”
उच्चारं पुरीषं विना स्थितः निवृत्त उदरामयो-ऽत्रातिसारः
*
अथातीसारिणो वर्ज्जनीया-न्याह ।“स्नानावगाहनाभ्यङ्गगुरुस्निग्धादिभोजनं ।व्यायाममग्निसन्तापमतीसारी विवर्ज्जयेत्”
स्नानमुद्धृतजलेन अवगाहनं नद्यादौ इत्यती-साराधिकारः इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
अति(ती)सार
पु०
अतिसारयति मलम् द्रवीकृत्य अति +सृ--णिच्--अच् वा अतेः दीर्घः रोगभेदे उदारामये ।तस्य निदानादि सुश्रुते उक्तं यथा “गुर्वतिस्निग्धरूक्षो-ष्णद्रवस्थूलातिशीतलैः विरुद्धाध्यशनाजीर्णैर्विषमैश्चापिभोजनैः स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः ।शोकाद्दुष्टाम्बुमद्यातिपानैः सात्न्यर्त्तुपर्य्ययैः जलाभिरम-णैर्वेगविघातैः कृमिदोषतः नृणां भवत्यतीसारो लक्षणंतस्य वक्ष्यते (तस्य संप्राप्तिः) “संशाम्यापां धातुरग्निंप्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः सरत्यतीवातिसारंतमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति एकैकशः, ३सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः
(तस्य पूर्व्वरूपम्) हृन्नाभिपायूदरकुक्षितोद--गात्रावसादा-निलसन्निरोधाः विट्सङ्ग आध्मानमथाऽविपाको भविष्यत-स्तस्य पुरःसराणि (वायुजः) शूलाविष्टः सक्तमूत्रोऽन्त्र-कूजी स्रस्तापानः सन्नकट्यूरुजङ्घः वर्चोमुञ्चत्यल्पमल्पंसफेनं रूक्षं श्यावं सानिलं मारुतेन (पित्तजः) दुर्गन्ध्युष्णंवेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् पित्ता-त्पीतं नीलमालोहितं वा तृष्णा मूर्च्छा दाहपाकज्व-रार्त्त्योः (कफजः) तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्कीसृष्टविट्कोऽपि भूयः शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तंभक्तद्वेषी निस्वनं सृष्टरोमा
(त्रिदोषजः) तन्द्रायुक्तेमोहमादास्यशोषी वर्चः कुर्य्यान्नैकवर्णं तृषार्त्तः सर्व्वोद्भूतःसर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः
(शोकजः)तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पो वेगः पक्तिमाविध्य-जन्तोः कोष्ठं गत्वा क्षोभयन् यस्य रक्तं तच्चाध-स्तात्काकनन्तीप्रकाशम्
वर्च्चोमिश्रं निः पुरीषं सगन्धंनिर्गन्धं वा सार्य्यते तेन कोष्ठात् शोकोत्पन्नो दुश्चि-कित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः
(आमजः) आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाःसम्प्रदुष्टाः सभक्तम् नानावर्णं नैकशः सारयन्तिकृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति
Capeller
German
अतिसार
m.
Durchfall.
Burnouf
French
अतिसार अतिसार
m.
(सृ) courante, diarrhée.
अतिसारकिन् a. qui a la diarrhée.
Stchoupak
French
अति-सार-
m.
diarrhée.