अतिवाहक: (ativAhaka:)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअतिवाहकः [ativāhakḥ], [अतीत्य एतं देहं वाहयति देहान्तरं प्रापयति
वह्-ण्वुल्] The deity or spirit appointed by God to help in the conveying of the जीव or सूक्ष्मशरीर in the above manner.
Apte 1890
EnglishShabdartha Kaustubha
Kannadaअतिवाहक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸೂಕ್ಷ್ಮಶರೀರದಿಂದ ಜೀವನನ್ನು ಬೇರೆ ಶರೀರಕ್ಕೆ ಕರೆದೊಯ್ಯುವ ದೇವತೆ
निष्पत्तिः - > अति+वह (प्रापणे) “ण्वुल्” (३-१-१३३) ।
व्युत्पत्तिः - > अतिवाहयति |
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
E Bharati Sampat
Sanskrit(पुं) अतीत्य एतं देहं वाहयति देहान्तरं प्रापयति । अति+वह(प्रापणे)+णिच्+ण्वुल् । ‘ण्वुल्तृचौ’ ३.१.१३३। १.सूक्ष्मशरीरावच्छिन्नस्य जीवस्य शरीरान्तरप्रापकः ईश्वरनियोजितः अर्चिराद्यभिमानिदेवभेदः। (वि) २.अतिवाहकारकः। ३.अतियापकः।
वाचस्पत्यम्
Sanskritअतिवाहक अतीत्यैतं देहं वाहयति देहान्तरं प्रापयतिअति + वह--ण्वुल् । ईश्वरनियोजिते अर्च्चिराद्यभिमानि-देवभेदे । तथाहि “अर्चिषोहः, अह्न आपूर्य्यमाणपक्षम्, आपूर्य्यमाणपक्षात् यान् षण्मासान् उदङ्ङेति तान्मासान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यमादित्याच्च-न्द्रमम् चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः सएनंब्रह्म गमयतीति” श्रुतौ वाक्यशेषे अमानवपुरुषस्यब्रह्मलोकप्रापकत्वश्रुतेः तत्पूर्व्वाणामपि अर्चिरादीनांचेतनत्वमिति “आतिवाहिकास्तल्लिङ्गादिति” सूत्रे निर्णी-तम् । “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायण-मिति” गीताव्याख्यायाञ्च अर्च्चिरादयस्तदभिमानिन्योदेवता” इति श्रीधरस्वामिभिरप्युक्तम् युक्तञ्च अवृत्रिकेन्द्रिया-दिकसूक्ष्मशरीरस्य स्थानान्तरनयनं चेतनकर्तृकं विनाऽनु-पपन्नमित्यतस्तदानीं तस्य स्थानान्तरगमनसिद्धये कल्पितचेत-नानामेव प्रेरकत्वमिति । अन्यच्च, “पञ्चप्राणमनोबुद्धिदशे-न्द्रियसमन्वितम् अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन”मित्युक्तस्य भोगसाधनस्य निश्चेष्टस्य सूक्ष्मशरीरस्य तदवच्छिन्न-जीवस्य च स्थानान्तरनयनमाश्रयभूतेन विना न सम्भवतीतितदाश्रयभूतं भूतपञ्चकं च कल्प्यते यथोक्तं मनुना “अ-ण्व्योमात्राविनाशिन्यो दशार्द्धानान्तु याः स्मृताः । ताभिःसार्द्धम्” इत्युक्तम् शारीरकसूत्रे च “तदन्तरप्रतिपत्तौ रंहतिसम्परिष्वक्त इति” भूतमात्रोपष्टब्धस्यैव संसरणमुक्तंसांख्ये च “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विनायथा च्छाया । तद्वद्विना विशेषैर्न तिष्ठति निराश्रयंलिङ्गमिति, संसरति निरुपभोगं भावैरतिवासितं लिङ्गमिति”चोक्तम् । अतिवाहप्रकारस्तु उत्क्रमणशब्दे विशेषेणवक्ष्यते । अति + वह--णिच् ण्वुल् अतिवाहकारके, अतियापके च ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
