| YouTube Channel

अतिरिक्तः (atiriktaH)

 
E Bharati Sampat
Sanskrit
(वि) अतिरिच्यते स्म अति+रिचिर्(विरेचने)+ क्तः(कर्तरि)। ‘निष्ठा’ ३.२.१०२। १.अतिक्रान्तः।‘सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना’ रघुः१.१४। २.अत्यधिकः। ‘अतिरिक्तः समधिकः’ अमरः। ३.श्रेष्ठः। ४.अतिशून्यः। ५.भिन्नः। ‘न वृक्षवृत्तिव्यतिरिक्तसाधनः’ कुमा०५.२२। (न)अति+रिचिर्+ क्तः(भावे)। ‘नपुं० भावे क्तः’ ३.३.११४। ६.अतिशयः, आधिक्यम्
शब्दकल्पद्रुमः
Sanskrit
अतिरिक्तः, त्रि, (अति रिच् + कर्त्तरि क्तः श्रेष्ठे भिन्नेशून्ये भावे क्तः, अतिरेके आधिक्ये ।)अधिकः अतिशयितः तत्पर्य्यायः समधिकः ।इत्यमरः