| YouTube Channel

अतिदेशः (atidezaH)

 
Apte
English
अतिदेशः [atidēśḥ], 1 Transfer, making over, assigning.
(Gram. ) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another
अतिदेशो नाम इतरधर्मस्य इतरस्मिनू प्रयोगाय आदेशः (मीमांसा)
or अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंहतेः अन्यत्र कार्यतः प्राप्तिरतिदेशः उच्यते प्राकृतात् कर्माणो यस्मात्तत्समानेषु कर्मसु धर्मप्रवेशो येन स्यादतिदेशः उच्यते This अतिदेश is of 5 kinds: शास्त्र˚, कार्य˚, निमित्त˚, व्यपदेश˚ & रूप˚. Thus in Grammar प्रकृति- वतू विकृतिः, कर्मणा कर्मवत्तुल्यक्रियः or पुंवत्, णिद्वत्, व्यपदेशिवद्भावः & इण्वदिकः are instances. गोसदृशो गवयः is an instance of रूपातिदेश or analogy
वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते Bhāṣā.
P.*
8. अतिदेश is generally expressed by words showing likeness or resemblance, such as इव, वत्, सदृश
&c.
cf.
also अतिदेशो नाम ये परत्र विहिता धर्मास्त- मतीत्यांन्यत्र तेषां देशः ŚB. on MS.* 7.1.12. अतिदेश forms the subject matter 2of the 7th and the 8th अध्यायs of जैमिनि's मीमांसासूत्र. For its various divisions and subdivisions read: नाम्ना वचनेन वा तत्र नाम त्रिविधमातिदेशिकं कर्मनाम, संस्कारनाम, यौगिकमिति वचनं पुनर्द्विविधं प्रत्यक्षश्रुतमानु- मानिकं (ŚB.
ibid.
).
Apte 1890
English
अतिदेशः 1 Transfer, making over, assigning.
2 (Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another
अतिदेशो नाम इतरधर्मस्य इतरस्मिन् प्रयोगाय आदेशः ( मीमांसा)
or अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंहतेः अन्यत्र कार्यतः प्राप्तिरतिदेशः उच्यते॥ प्राकृतात् कर्मणो यस्मात्तत्समानेषु कर्मसु धर्मप्रवेशो येन स्यादतिदेशः उच्यते This अतिदेश is of {5} kinds: शास्त्र°, कार्य°, निमित्त°, व्यपदेश° & रूप°. Thus in Grammar प्रकृतिवत् विकृतिः, कर्मणा कर्मवत्तुल्यक्रियः or पुंवत्, णिद्वत्, व्यपदेशीवद्भावः & इण्वदिकः are instances. गोसदृशो गवयः is an instance of रूपातिदेश or analogy
वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते Bhāṣā P. 80. अतिदेश is generally expressed by words showing likeness or resemblance, such as इव, वत्, सदृश &c.
Apte Hindi
Hindi
अतिदेशः
पुं*
- अति+दिश+घञ्
"हस्तान्तरण, समर्पण, सुपुर्द करना"
अतिदेशः
पुं*
- अति+दिश+घञ्
"अन्यत्र लागू होने वाली प्रक्रिया, एक वस्तु के धर्म का दूसरी वस्तु पर आरोपण"
शब्दकल्पद्रुमः
Sanskrit
अतिदेशः,
पुं,
(अति + दिश् + भावे घञ्) अन्य-धर्म्मस्यान्यत्र आरोपणं यथा, -- “इण्वदिकः”इत्यादिः इति दुर्गादासः
कारिका यथा, --“प्रकृतात् कर्म्मणो यस्मात् तत्समानेषु कर्म्मसु ।धर्म्मोऽतिदिश्यते येन अतिदेशः उच्यते”
इति मलमासतत्त्वम्
तु पञ्चविधः शास्त्रा-तिदेशः यथा, -- “नित्येन तुल्यं शेषं स्यात्इत्यत्र तुल्यशब्देन अतिदेशः” कार्य्याति-देशः यथा, -- “अप्रयाजास्ताः इत्यत्र कार्य्येणनिषेधेन दर्शपौर्ण्णमासधर्म्मातिदेशः” निमि-त्तातिदेशः यथा, -- “विकूतौ मौद्गचरुयागेब्रीहिंकार्य्यकारिणि मुद्गे ब्रीहिकार्य्यनिमित्तत्वात्धर्म्माः प्रोक्षणादयः कल्प्यन्ते” व्यपदेशा-तिदेशः यथा, -- “मासमग्निहोत्रं जुहोतिइत्यत्र माससाध्यायनाख्ययागे अग्निहोत्रपदव्यप-देशात् अग्निहोत्रधर्म्मातिदेशः” “रूपा-तिदेशः” यथा, -- “यजमानाद्भिन्नो यूपः इत्य-त्र यूपे यजमानादन्यत्वरूपावगमात् यजमान-धर्म्मस्य तदीयपरिमाणस्यातिदेशः” इति श्राद्ध-विवेकटीकायां श्रीकृष्णः
वाचस्पत्यम्
Sanskrit
अतिदेशः
पु०
अतिक्रम्य स्वविषयमुल्लङ्घ्य अन्यत्र विषये देशउपदेशः अतिदिश्यते वा करणे कर्म्मणि वा घञ् ।“अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्म्मसंहतेः अन्यत्रकार्य्यतः--प्राप्तिरतिदेशः उच्यते प्राकृतात् कर्म्मणोयस्मात्तत्--समानेषु कर्म्मसु धर्म्मप्रवेशो येन स्यादतिदेशः सउच्यते” इत्यधिकरणमालाधृताभियुक्तवाक्योक्ते अन्यत्र-प्राप्तेऽन्यधर्म्मे तत्प्रापके शास्त्रभेदेच यथा “प्रकृतिवत्विकृतिः कर्त्तव्येत्यादिः” चातिदेशः पञ्चविधः शास्त्राति-देशः, कार्य्यातिदेशः, निमित्तातिदेशः, व्यपदेशातिदेशः, रूपातिदेशश्च एतस्य उदाहरणादिकमाकरे ज्ञेयम् ।अतिदेशश्च प्रायेण इववदादिसादृश्यवाचकशब्देन यथाप्रकृतिवत् विकृतिरित्यादि अयञ्च वैदिककर्म्मणीव व्याक-रणादिशास्त्रे, लौकिके व्यवहारे विद्यते यथा “इण्व-दिक, इत्यत्र व्याकरणे रूपातिदेशः” “कर्म्मणा कर्मवत्तुल्य-क्रिय” इत्यादौ, पुंवदित्यादौ कार्य्यातिदेशः, णिद्वदि-त्यादौ निमित्तातिदेशः, व्यपदेशिवद्भाव इत्यादौ संज्ञाति-देश इत्येवं प्रकारा अतिदेशाःसन्ति
लोके गोसदृशो-गवय इत्यादौ रूपातिदेश इत्यादि अतएवोपमानरूपप्रमाणेअस्यातिदेशवाक्यस्य करणत्वं सहकारिभावोवेत्यादि तत्त-च्छास्त्रकारैरङ्गीकृतम् अतिदेशेन निर्वृत्तम् ठक् आति-देशिकं
त्रि०
“आतिदेशिकविधिरनित्य” इति परिभाषा