| YouTube Channel

अतितुम् (atitum)

 
Kridanta Forms
Sanskrit
अत् (अ꣡तँ꣡ सातत्यगमने - भ्वादिः - सेट्)
ल्युट् = अतनम्
अनीयर् = अतनीयः - अतनीया
ण्वुल् = आतकः - आतिका
तुमुँन् = अतितुम्
तव्य = अतितव्यः - अतितव्या
तृच् = अतिता - अतित्री
क्त्वा = अतित्वा
ल्यप् = प्रात्य
क्तवतुँ = अतितवान् - अतितवती
क्त = अतितः - अतिता
शतृँ = अतन् - अतन्ती
कृदन्तरूपमाला
Sanskrit
1 {@“अत सातत्यगमने”@} 2 ‘बन्धनेऽन्तति, सातत्यगमनेऽतति, चिन्तयेत्।’ 3 इति देवः।
सातत्यगमनम् = सन्ततगमनम्।
आतकः-तिका, आतकः-तिका, अतितिषकः-षिका
अतिता-त्री, आतयिता-त्री, अतितिषिता-त्री
4 अतन्-न्ती, आतयन्-न्ती, अतितिषन्-न्ती
अतिष्यन्-न्ती-ती, आतयिष्यन्-ती-न्ती, अतितिषिष्यन्-न्ती-ती
आतयमानः, आतयिष्यमाणः
अत्-अतौ-अतः, मार्गात्
5 अतितम्-तः-तवान्, आतितः, अतितिषितम्-तः-तवान्
6 अतः 7, पदातिः 8, मार्गातः, आतः, अतितिषुः, आतितयिषुः
अतितव्यम्, आतयितव्यम्, अतितिषितव्यम्
अतनीयम्, आतनीयम्, अतितिषणीयम्
आत्यम्, आत्यम्, अतितिष्यम्
ईषदतः, दुरतः, स्वतः
ईषदातः, दुरातः, स्वातः
अत्यमानः, आत्यमानः, अतितिष्यमाणः
आतः, आतः, अतितिषः
अतितुम्, आतयितुम्, अतितिषितुम्
अत्तिः, आतना, अतितिषा, आतितयिषा
अतनम्, आतनम्, अतितिषणम्
अतित्वा, आतयित्वा, अतितिषित्वा
समत्य, समात्य, समतितिष्य
आतम् २, अतित्वा २, आतम् २, आतयित्वा २, अतितिषम्
अतितिषित्वा
9 अतिथिः, आत्मा 10।।
प्रासङ्गिक्यः
01
=>
(१९)
02
=>
(१-भ्वादिः-३८-सक। से। पर।)
03
=>
(श्लो। ९४)
04
=>
[[(अ)। ‘ग्रामं ग्रामाय वा अतन्-’ इत्यत्र ‘गत्यर्थकर्मणि--’ (२-३-१२।) इत्यनेन द्वितीयाचतुर्थ्यौ भवतः।]]
05
=>
[[(आ)। ‘अतितो ग्रामम्, अतितो ग्रामः, अतितं देवदत्तेन, इदमेषामतितम्।’ इत्यादौ ‘गत्यर्थाकर्मक--’ (३-४-७२) इति, ‘क्तोऽधिकरणे ध्रौव्यगति--’ (३-४-७६) इति क्रमेण कर्तृ-कर्म-भाव-अधिकरणेषु क्तः प्रत्ययः।]]
06
=>
[पृष्ठम्००१८+ ३५]
07
=>
[[आ। ‘अभियाऽतावरं तुङ्गं भूभृतं रुचिरं पुरः। कर्कशं प्रस्थितं धाम ससत्त्वं पुष्करेक्षणम्।’ भ। का। १०-२१। अतस्यावरः। पचाद्यच्]]
08
=>
[[१। ‘पादस्य पदाज्याति--’ (६-३-५२) इति पद्भावः। औणादिक इणू प्रत्ययः।]]
09
=>
[[२। दशपाद्युणादिवृत्तौ १-४४। इथिन् प्रत्ययः।]]
10
=>
[[३। मनिण् प्रत्ययः ६-८१। द-उ।]]