अत (ata)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
Englishधातुपाठः (Krishnacharya)
Sanskrit अत्
अत
सातत्यगमने
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
अतति
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritअतँ अत सातत्यगमने
- अतति । आत, आततुः । आता दिशः । अज्यतिभ्याम् (उण्, 4/132) इञ्-आतिः, स्वातिः । सौवातः । पदातिः (द्र0 उ0 4/133), अतसी (द्र0 उ0 3/117) ।। 37 ।।
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanशब्दकल्पद्रुमः
Sanskritअत, इ बन्धने (इदित्वात् नुम् भ्वादिं सेट् परं)इति कविकल्पद्रुमः ॥
अतीति बन्धे । शेषो दीर्घा-दिरित्यन्यः । अतएव अन्त्यते ईन्त्यते । स्वमते तुअन्त्यते इन्त्यते । छन्दोऽनुरोधादुभयत्र इकारः ॥
इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritअतँ अत सातत्यगमने
(अर्थविवरणम्) सातत्येन गमनं नित्यगतिः
इतः शुन्ध्यन्ताः (160) पञ्चत्रिंशदुदात्ताः सेट् उदात्तेतश्च परस्मैपदिनः अतति, अतन्, अतिता न गतिहिंसार्थेभ्यश्च (द्र01315) इति व्यतिहारे तङ् नास्ति - व्यत्यतति अत्यविचमि (उ03117) इत्यसच् - अतसी ॠतन्यञ्जिवन्यञ्जि (उ042) इतीथिन् - अतिथिः अज्यतिभ्यां (उ04131) इतीण् - आतिः पक्षी पादे च (उ04132) पदातिः, पादस्य पदाज्यति (तु06353) इति पत् सातिभ्यां मनिन्मनिणौ च (तु0उ04153) इति मनिण आत्मा 37
धातुवृत्तिः
Sanskritअतँ अत (अर्थः) सातत्यगमने
(अर्थविवरणम्) सातत्यगमनं सन्ततगमनम्
ग्राममतति ग्रामायायाति अतसि अतामि अतन्ति ( सूत्रम्) गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि (इति सूत्रम्) इति कर्मणिद्वितीयाचतुर्थ्यौ चेष्टायामिति वचनान्मनसातति ग्राममित्यत्र द्वितीयैव अध्वन्यर्थग्रहणान्मार्गमततीत्यादावपि द्वितीयैव ( आत आततुः आतिथ आतिव ) "अत आदेः''इत्यभ्यासादेर्दीर्घो लिटि ( अतिता अतिष्यति अतुत आतत् आटि वृद्धिः अतेत् आशिषि अत्यात् मा भवानतीन् ) "वदव्रजहन्तस्य'' इति वृद्धेः "नेटि'' इति निषेधः ( आतिष्यत् कर्मणि अत्यते आते अतिता अतिष्यते अत्यताम् आत्यत अत्येत आशिषि अतिषीष्ट आतिष्ट आतिषाताम् आतिषत् ) गत्यर्थानां कर्तृस्थक्रियत्वान्न कर्मकर्त्तास्त कर्मव्यतिहार तडस्य नास्ति, "न गतिर्हिंसार्थेभ्यः'' इति निषेधात् ( व्यतयततीत्यादि अतितिषति आतयादि वेवदत्तं ग्रामम् ) "गतिबुद्धि'' इति प्रयोज्यस्य कर्मत्वम् ( अतितो ग्रामम् अतितो ग्रामः अतितं देवदत्तेन, इदमेषामतितम् ) "गत्यर्थाकर्मक'' इति "क्तोधिकरणे च'' इति योगद्वयेन कर्तृकर्मभावाधिकरणेषु क्तः (अक्त आसत्तः "इण्भीकापाशल्यकिमर्चिभ्यः कन्''इति कन् आतिः गन्तापक्षिविशेषश्च "अज्यतिभ्यां च'' इतीण्प्रत्ययः पादाभ्यामततीति पदातिः ( सूत्रम्) पादस्य पदाज्यातिगोप हतेषु (इति सूत्रम्) इत्याज्यादिषूत्तरपदेषु पदादेशः शोभनमततीति ( स्वातिः नक्षत्रं, स्वाती ) "सर्वतोक्तिन्नर्था'' इति वा ङीष् स्वात्यां जातो माणवकः स्वातिः अत्र "संधिवेलाद्यृतुनक्षत्रेभ्योण्'' इति शैषिकोण् यदा जातार्थे तदा तस्य "श्रविष्ठाफलगुन्यनुराधास्वातितिष्यिपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्'' इति लुकि "लुक्तद्धितलुकि'' इति स्त्रीप्रत्ययस्य लुक् स्वातीति ङीषन्तस्य ग्रहणादङीषन्तादणो लुङ्गास्ति, तेन ( सूत्रम्) न य्वाभ्यां पादान्ताभ्यां पूर्वौतु ताभ्यामैव् (इति सूत्रम्) इति यथासंख्यादिह वकारात्पूर्वमौकारे वृद्धिनिषेधे च सौवात इति भवति द्धिनिषेधस्य प्रयोजनमन्यत्र, अस्तु चेहापि "टिङ्ढाणञ्'' इत्यादिना स्त्रियां ङीपि "यस्येति च'' इत्यकारलोपे सौवाती भार्या यस्येति बहुव्रीहौ "स्त्रियाः पुंवद्भाषितपुंस्कादनूह समानाधिकरणे स्त्रियामपूरणीप्रियादिषु'' इति प्राप्तस्य पुंवद्भावस्य ( सूत्रम्) वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (इति सूत्रम्) इति रक्तविकारादतिरिक्तार्थस्य च वृद्धिनिमित्ततद्धितान्तस्य पुंवद्भावो नेति विधीयमानो निषेध इहालो वृद्धिनिमित्तत्वाभानान्नेति पुंवद्भावे सौवातभार्य्य इति भवति ( सूत्रम्) स्त्रियाः पुंवत् (इति सूत्रम्) इति सूत्रस्यार्थः स्त्रयर्थस्य शब्दस्य स्त्रियां वर्त्तमारने समानाधिकरणे पूरणीप्रियादिवर्जित उत्तरपदे पुंस इव रूपं भवति स चेत् स्त्रीशब्दो भाषितपुंस्कादनूङ् भवतीति पूरणीति पूरणप्रत्ययान्तः स्त्रीलिङ्गपञ्चम्यादिशब्द उच्यते भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कः, इह तु शब्दस्तद्योगात्तथोक्तः, ऊङो ऽनूङ् भाषितपुंस्कात्परोनूङ् निपातनात्पञ्चम्यलुक् अतिथिः, "ऋतन्यज्जिवन्यञ्जर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठूजिष्टजिसन्स्यनिथिनुल्यसासानुक्'' इत्यर्त्त्यादिभ्यो द्वादशभ्यः कत्नयादयो द्वादश प्रत्यया यथा संख्यमित्यतेरिथिन् अतिथौ साधुरातिथेयः "पथ्यतिथिवसतिस्पतेर्ढञ्'' इति सप्तम्यन्तात्साध्वित्यर्थे ढञ् ढस्य "आयनेयीनीय''इत्येयादेशः अतिथय इदमातिथ्यम् ( सूत्रम्) अतिथेञर्यः (इति सूत्रम्) इति चतुर्थ्यन्तात्तादर्थ्ये ञ्य अतसः क्षौमं प्रहरणं वायुश्च "अत्यविचमितमनमिरभिनभितपिपतिपनिपणिमहिभ्योऽसच्'' इत्यसच् अतसी उमा, "षिद्गौरादिभ्यश्च'' इति स्त्रियां ङीष् सातयतीति सातयः "अनुपसर्गाल्लिम्पविन्दधारिवेद्युदेजिचेतिसातिसाहिभ्यश्च'' इति कर्त्तरि शे शपि गुणायौ, सातिः सौत्रो धातुरिति वृत्तौ बौधिन्यासेपि सातिः सुखे वर्त्तते सौखे इति जिनेन्द्रहरदत्तौ सातिर्हेतुमण्ण्यन्त इति हदिद्वन्धनार्थ उत्तरत्र भविष्यति 38
कृदन्तरूपमाला
Sanskrit1 {@“अत सातत्यगमने”@} 2 ‘बन्धनेऽन्तति, सातत्यगमनेऽतति, चिन्तयेत्।’ 3 इति देवः।
सातत्यगमनम् = सन्ततगमनम्।
आतकः-तिका, आतकः-तिका, अतितिषकः-षिका
अतिता-त्री, आतयिता-त्री, अतितिषिता-त्री
4 अतन्-न्ती, आतयन्-न्ती, अतितिषन्-न्ती
अतिष्यन्-न्ती-ती, आतयिष्यन्-ती-न्ती, अतितिषिष्यन्-न्ती-ती
आतयमानः, आतयिष्यमाणः
अत्-अतौ-अतः, मार्गात्
5 अतितम्-तः-तवान्, आतितः, अतितिषितम्-तः-तवान्
6 अतः 7, पदातिः 8, मार्गातः, आतः, अतितिषुः, आतितयिषुः
अतितव्यम्, आतयितव्यम्, अतितिषितव्यम्
अतनीयम्, आतनीयम्, अतितिषणीयम्
आत्यम्, आत्यम्, अतितिष्यम्
ईषदतः, दुरतः, स्वतः
ईषदातः, दुरातः, स्वातः
अत्यमानः, आत्यमानः, अतितिष्यमाणः
आतः, आतः, अतितिषः
अतितुम्, आतयितुम्, अतितिषितुम्
अत्तिः, आतना, अतितिषा, आतितयिषा
अतनम्, आतनम्, अतितिषणम्
अतित्वा, आतयित्वा, अतितिषित्वा
समत्य, समात्य, समतितिष्य
आतम् २, अतित्वा २, आतम् २, आतयित्वा २, अतितिषम् २
अतितिषित्वा २
9 अतिथिः, आत्मा 10।।
01 (१९)
02 (१-भ्वादिः-३८-सक। से। पर।)
03 (श्लो। ९४)
04 [[(अ)। ‘ग्रामं ग्रामाय वा अतन्-’ इत्यत्र ‘गत्यर्थकर्मणि--’ (२-३-१२।) इत्यनेन द्वितीयाचतुर्थ्यौ भवतः।]]
05 [[(आ)। ‘अतितो ग्रामम्, अतितो ग्रामः, अतितं देवदत्तेन, इदमेषामतितम्।’ इत्यादौ ‘गत्यर्थाकर्मक--’ (३-४-७२) इति, ‘क्तोऽधिकरणे च ध्रौव्यगति--’ (३-४-७६) इति च क्रमेण कर्तृ-कर्म-भाव-अधिकरणेषु क्तः प्रत्ययः।]]
06 [पृष्ठम्००१८+ ३५]
07 [[आ। ‘अभियाऽतावरं तुङ्गं भूभृतं रुचिरं पुरः। कर्कशं प्रस्थितं धाम ससत्त्वं पुष्करेक्षणम्।’ भ। का। १०-२१। अतस्यावरः। पचाद्यच्]]
08 [[१। ‘पादस्य पदाज्याति--’ (६-३-५२) इति पद्भावः। औणादिक इणू प्रत्ययः।]]
09 [[२। दशपाद्युणादिवृत्तौ १-४४। इथिन् प्रत्ययः।]]
10 [[३। मनिण् प्रत्ययः ६-८१। द-उ।]]
1 {@“निवास आच्छादने”@} 2 अदन्तः।
3 अत्र धातौ ‘नि’ इत्युपसर्गविशिष्टस्यैव धातुत्वम्, इति क्षीरस्वामिमतम्।
‘पूर्वं धातुरुपसर्गेण युज्यते’ इति भाष्यमतेनैवमुक्तम्।
तन्मते निवासयित्वा इत्यत्र क्त्वाप्रत्ययस्योपपत्तिश्चिन्त्या।
वस्तुतस्तु ‘सङ्ग्राम, व्यय, वीर’ इत्यादिषु ‘सम्, वि’ इत्युपसर्गयोरिव अत्रापि ‘नि’ इत्युपसर्गविशिष्टस्यैव धातुत्वम्।
अत्र प्रकृतिप्रत्ययोपसर्गादिविभागरहितः ‘निवास’ इत्यानुपूर्वीक एव धातुरिति तत्त्वम्।
अन्यथा, ‘पूर्वं धातुः साधनेन युज्यते’ इति ‘सुट् कात् पूर्वः’ 4 इति सूत्रभाष्ये सिद्धान्तितस्य विरोधस्स्यात्।
अत एवाडागम- योग्येषु लकारेष्वपि अनिवासयिष्यत् इत्याद्येव रूपम्।]] निवासकः-सिका, निनिवासयिषकः-षिका
निवासयिता-त्री, निनिवासयिषिता-त्री
निवासयन्-न्ती, निनिवासयिषन्-न्ती
निवासयिष्यन्-न्ती-ती, निनिवासयिषिष्यन्-न्ती-ती
निवासयमानः, निनिवासयिषमाणः, निवासयिष्यमाणः, निनिवासयिषिष्यमाणः
5 सुनिवासू-सुनिवासौ-सुनिवासः
-- -- 6 निवासितम्-तः, निनिवासयिषितः-तवान्
निवासः, निनिवासयिषुः
निवासयितव्यम्, निनिवासयिषितव्यम्
निवासनीयम्, निनिवासयिष- णीयम्
निवास्यम्, निनिवासयिष्यम्
निवासयमानः, निनिवासयिषमाणः
ईषन्निवासः-दुर्निवासः-सुनिवासः
-- -- निवासः, निनिवासयिषः
निवासयितुम्, निनिवासयिषितुम्
निवासना, निनिवासयिषा
निवासनम्, निनिवासयिषणम्
निवासयित्वा, निनिवासयिषित्वा
प्रणिवास्य, प्रणिनिवासयिष्य
7 निवासम् २, निवासयित्वा २, निनिवासयिषम् २
निनिवासयिषित्वा २।
01 (९५२)
02 (१०-चुरादिः-१८८६। सक। सेट्। उभ।)
03 [[[अ]
04 (६-१-१३५)
05 [[१। क्विपि, अदन्तत्वादस्य धातोरल्लोपस्य स्थानिवद्भावात् सकारस्य रुत्वविसर्गौ न भवतः।]]
06 [[B। ‘छिद्रं गवेषयितुमेव तु वासयन्ते ये ते निवासितधियो ह्यसुभिर्विभाज्याः।।’ धा। का। ३। ५६।]]
07 [पृष्ठम्०८३०+ २९]
1 {@“ञि ष्वप शये”@} 2 3 ‘ञि ष्वप शये’ ‘हलन्त्यम्’ 4 इतीत्त्वप्रसङ्गात् ‘ञि ष्वप् शये’ इत्यपपाठः--इति धातुकाव्यव्याख्यानम् 5।
युज्यते चैतत्।
यतः सर्वेष्वपि धातुपाठेषु “ञि ष्वप् शये।
उदात्तेत्, अनुदात्तः।” इति पठ्यते।
‘उदात्तेत्’ इत्यस्य उदात्तोपदेशोऽकार इत्संज्ञकोऽत्र धातौ--इति खल्वर्थः।
अतश्च प्रामादिकः सार्वत्रिकः ‘ष्वप्’ इति हलन्तपाठ इत्येव न्याय्यम्।
अत एवापपाठः शोधितो धातुकाव्यव्याख्यातृमहाशयेन।]] स्वापकः-पिका, स्वापकः-पिका, 6 सुषुप्सकः-प्सिका, 7 सोषुपकः-पिका
स्वप्ता-स्वप्त्री, स्वापयिता-त्री, सुषुप्सिता-त्री, सोषुपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकवपतिवत् 8 बोध्यानि।
9 सुप्तः, सुप्त्वा-सुप्तिः, 10 स्वप्नः, 11 स्वप्नक्, 12 सुषुप्तः-विषुप्तः-निषुप्तः-दुःषुप्तः, सुषुप्सुः- 13 सुष्वापयिषुः, इति विशेषः।
01 (१८९२)
02 (२-अदादिः-१०६८। अक। अनि। पर।)
03 [[[अ]
04 (१-३-३)
05 (२-५१)
06 [[१। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति सनः कित्त्वम्। तेन ‘वचि- स्वपियजादीनां किति’ (६-१-१५) इति सम्प्रसारणम्। पूर्वरूपादिकम्। ततो द्विर्वचनम्। उत्तरखण्डे ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वम्।]]
07 [[२। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति यङन्ते सम्प्रसारणम्। पूर्ववत् अभ्यासकार्याणि।]]
08 (१५५६)
09 [[३। ‘ञीतः क्तः’ (३-२-१८७) इति कर्तरि भावे च वर्तमाने क्तप्रत्ययः। निष्ठायाः कित्त्वात् सम्प्रसारणम्। एवं क्त्वाक्तिन्यक्प्रभृतिष्वपि बोध्यम्।]]
10 [[४। ‘स्वपो नन्’ (३-३-९१) इति भावे नन्प्रत्ययः।]]
11 [[५। ‘स्वपितृषोर्नजिङ्’ (३-२-१७२) इति ताच्छीलिको नजिङ्प्रत्ययः। नजिङि ‘नज्’ इत्येवाबशिष्यते। जकारस्य पदान्त्त्वप्रयुक्तः ककारः।]]
12 [[६। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८-३-८८) इति षत्वम्। सूत्रे ‘सुपि’ इति कृतसम्प्रसारणनिर्देशः। तेन सम्प्रसारणयोग्यस्थलेषु यत्र ‘सुप्’ इति श्रवणं तत्र सर्वत्रापि षत्वं भवतीति बोध्यम्।]]
13 [[७। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। अभ्यासस्य ‘द्युतिस्वाप्योः--’ (७-४-६७) इति सम्प्रसारणम्। ‘स्तौतिण्योरेव षणि--’ (८-३-६१) इत्युत्तरखण्डे षत्वम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
