| YouTube Channel

अण्डजः (aNDajaH)

 
Apte Hindi
Hindi
अण्डजः
पुं*
अण्डः-जः -
"पक्षी, पंखदार जन्तु"
अण्डजः
पुं*
अण्डः-जः -
मछली
अण्डजः
पुं*
अण्डः-जः -
सांप
अण्डजः
पुं*
अण्डः-जः -
छिपकली
अण्डजः
पुं*
अण्डः-जः -
ब्रह्मा
E Bharati Sampat
Sanskrit
(पुं) अण्डात् जायते अण्ड+जनी(प्रादुर्भावे)+डः। ‘पञ्चम्यामजातौ’ ३.१.९८। १.पक्षी, खगः। ‘मूकाण्डजं शान्तमृगप्रचारम्’ कुमा०३.४२। २.अहिः, सर्पः। ३.मत्स्यः, झषः। ४.कृकालसः’सरटः। (वि) ५.अण्डात् जातः जन्तुः मकरकूर्मादिः। ‘अण्डजाः पक्षिणः सर्पाः नक्राः मत्स्याश्च कच्छपाः यानि चैवंप्रकाराणि स्थलजान्यौदकानि च’ मनुः१.४४। (स्त्री) अण्डजा ६.मृगनाभिः कस्तूरी ‘कस्तूरिकाण्डजा’ वैज०। ‘अण्डजो मृगनाभौ स्यात्सरटेऽहौ खगे झषे’ मेदिनी
Wordnet
Sanskrit
Synonyms:
ब्रह्मा, आत्मभूः, सुरज्येष्ठः, परमेष्ठी, पितामहः, हिरण्यगर्भः, लोकेशः, स्वयंभूः, चतुराननः, धाता, अब्जयोनिः, द्रुहिणः, ब्रह्मदेवः, विरिञ्चिः, कमलासनः, पङ्कजासनः, स्रष्टा, प्रजापतिः, वेधाः, विधाता, विश्चसृट्, विधिः, नाभिजन्मा, अण्डजः, पूर्वः, निधनः, कमलोद्भवः, सदानन्दः, रजोमूर्तिः, सत्यकः, हंसवाहनः, हरिः, पूर्णानन्दः
noun
देवताविशेषः यः सृष्टेः जनकः अस्ति।
"नारदः ब्रह्मणः पुत्रः अस्ति।"
Synonyms:
खगः, विहगः, पक्षी, पक्षिणी, विहङ्गः, विहङ्गमः, पतगः, पत्री, पतत्री, विहायाः, गरुत्मान्, नीडजः, नीडोद्भवः, द्विजः, अण्डजः, नगौकाः, पक्षवाहनः, शकुनिः, शकुनः, विकिरः, विष्किरः, वाजी, पतन्, शकुन्तः, नभसङ्गमः, पत्ररथः, विः, पित्सन्
noun
यस्य पक्षौ चञ्चुः विद्यते तथा यः अण्डकोषात् जायते।
"तडागे नैके चित्राः खगाः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अण्डजः,
पुं,
(अण्डे जायते अण्ड + जन् + कर्त्तरि, डउपपदसमासः) पक्षी सर्पः मत्स्यः कृकलासः ।इति विश्वमेदिन्यौ
अण्डजातमात्रे त्रि ।इत्यमरः
(“अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।यानि चैवंप्रकाराणि स्थलजान्यौदकानि च”
इति मनुः ।)