| YouTube Channel

अण (aNa)

 
शब्दसागरः
English
अण r. 1st. cl. (अणति) To sound. (ङ, ) 4th cl. (अण्यते) To breathe, to live
with प्र, to exist, to live. See अन.
Wilson
English
अण r. 1st cl. (अणति) To sound, (ङ, ) 4th cl. (अण्यते) To
breathe, to live
with प्र, to exist, to live. See अन.
Apte
English
अण [aṇa] [n] [k], (न)
a.
[अणति यथेच्छं नदति, अण्-अच् कुत्सायां कन् च] Very small, contemptible, mean, insignificant, wretched
पापाणके कुत्सितैः
P.
II.1.54
oft
. in
comp.
in the sense of deterioration or contempt
˚कुलालः Sk. a contemptible potter.
cf.
also मृते$पि त्वयि जीवन्त्या किं मयाणक- भार्यया
Bk.*
14.58. -कः A kind of bird.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अण्
मूलधातुः:
अण
धात्वर्थः:
शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
अणति
धातुः:
अण्
मूलधातुः:
अण
धात्वर्थः:
प्राणने
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
अण्यते
धातुप्रदीपः
Sanskrit
अणँ अण
मानकरूपान्तरम् - रणँ
रण
मानकरूपान्तरम् - वणँ
वण
मानकरूपान्तरम् - भणँ
भण
मानकरूपान्तरम् - मणँ
मण
मानकरूपान्तरम् - कणँ
कण
मानकरूपान्तरम् - क्वणँ
क्वण
मानकरूपान्तरम् - व्रणँ
व्रण
मानकरूपान्तरम् - भ्रणँ
भ्रण शब्दार्थाः
- अणति आणकः अणः अणकः रणति रणः रणकः (62) वणति ववाण, ववणतुः, ववणुः भणति अभाणीत् अभणीत् बम्भण्यते मणति मणितम् इन् मणिः मणिकः ईदादिप्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्य (1/1/21 का0) इति ''मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम '' कणति चकाण क्वणति चक्वाण निक्वणः निक्वाणः व्रणति भ्रणति ।। 444-452 ।।
अणँ अन प्राणने
- अन्यते आने अनिता अनतीति भ्वादौ रूपम् (15) 70
शब्दकल्पद्रुमः
Sanskrit
अण रवे इति कविकल्पद्रुमः
अणति रवःशब्दः इति दुर्गादासः
अण जीवने प्राणने इति कविकल्पद्रुमः
अण्यते जनो दुःखेन जीवतीत्यर्थः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
अण शब्दे भ्वादि०
पर०
अक० सेट् अणति आणीत्
अण जीवने दिवा० आत्म० अक० सेट् अण्यते आणिष्ट
क्षीरतरङ्गिणी
Sanskrit
अणँ अण
मानकरूपान्तरम् - रणँ
रण
मानकरूपान्तरम् - वणँ
वण
मानकरूपान्तरम् - मणँ
मण
मानकरूपान्तरम् - कणँ
कण
मानकरूपान्तरम् - क्वणँ
क्वण
मानकरूपान्तरम् - व्रणँ
व्रण
मानकरूपान्तरम् - भ्रणँ
भ्रण
मानकरूपान्तरम् - ध्वणँ
ध्वण शब्दार्थाः
-(अर्थविवरणम्) एते शब्दनक्रियार्थाः
इतः क्रम्वन्ता (1316) त्रयस्त्रिंशत् सेट् परस्मैपदिनश्च अणति क्वुन् शिल्पिसंज्ञयोः (उ0 231) अणको नापितः इञ् (द्र0 उ0 4124) अणिर् अक्षाग्रकीलकः, अणिरित्यमरसिंहः (2857) अण्डम् अणश्च (उ0 18) इत्युः अणुः अणो (श्वेत0 उ0 184) इति णित्त्वाद् अडूः अलुका रणति वशिरण्योश्च (3358 वा0) इत्यब् वक्तव्यः, रणन्त्यस्मिन्निति रणः रण-मण-क्वणां गतौ मित्त्वं स्मर्यते रणयति, अन्यत्र राणयति वणति उद्वणः, उदूखलोलूखलवत् पृषोदरादित्वात् (63109) लत्वं वा वणत्यस्मिन् ज्या-वाणः वण्यतेऽसावनया वा-इञ्- वाणिः, वाणी मणितं सुरतकूजिते रूढम्, एवं कणितम् अर्ते, क्वणितं वीणादौ, रणितं नपुरादौ, कूजितं विहगादौ, बृंहितं गजे, ह्रेषितं हये, वाशितं पशुषु, गर्जितं मेघादौ, गुञ्जित भ्रमरादौ, गृञ्चितम् सिंहादौ, इत्यादि प्रतिधातुस्थं कियद् व्याचक्ष्महे वयम्, लोकात् सूरिभिरत्यूह्यम्, लक्ष्यमूलं हि लक्षणम् मणिः मणिको महाकुम्भः कणति कणः, कणिका, कङ्कणः, कणूकः, कण्ठः आशूप्रुषि (उ0 1152) इति क्वन्-कण्वं पापम् काण्डम् क्वणति क्वणो वीणायां (3365) इति वाप् निक्वणः निक्वाणः, क्वणः क्वाणः, प्रक्वणः प्रक्वाणः, उपक्वणः उपक्वाणः पीयुक्वणिभ्यां कालङ्ध्रस्वः प्रसारणञ्च (तु0 उ0 376) कुणालम् क्वणेः सम्प्रसारणञ्च (उ0 3143) कुणपः व्रणति व्रणः चुरादौ व्रण गात्रविचूर्णने (10323) अदन्तः-व्रणयति मूर्धन्यान्तो ध्वणिर् लोके नास्ति 431-439
धातुवृत्तिः
Sanskrit
अणँ अण
मानकरूपान्तरम् - रणँ
रण
मानकरूपान्तरम् - वणँ
वण
मानकरूपान्तरम् - भणँ
भण
मानकरूपान्तरम् - मणँ
मण
मानकरूपान्तरम् - कणँ
कण
मानकरूपान्तरम् - क्वणँ
क्वण
मानकरूपान्तरम् - व्रणँ
व्रण
मानकरूपान्तरम् - भ्रणँ
भ्रण
मानकरूपान्तरम् - ध्वणँ
ध्वण (अर्थः) शब्दार्थाः
इतः क्रम्यन्ता उदात्ता उदात्तेतः( अणति आणा अणिता अणिणिषति आणयति मा भवानणिणत् अणुः ) स्वल्पो धान्यविशेषश्च "अणश्च'' "अधान्येनित्'' इत्युप्रत्ययः अणूनां धान्यानां भवनं क्षेत्रम् ( अणव्यम् आणवीनम् ) "विभाष तिलमाषोमाषोमाभङ्गाणुभ्यः'' इति षष्ठयन्ताद्भवने क्षेत्रे यत्, विभाषाग्रहणात् खञ्च यति ( सूत्रम्) ओर्गुणः (इति सूत्रम्) उवर्णान्तस्य गुणो भवति भसंज्ञानिमित्ते तद्धिते पर इति गुणे"वान्तो यि''इत्यावादेशःअणुप्रकारः ( अगुकः) ( सूत्रम्) स्थूलादिभ्यः प्रकारवचने कन् (इति सूत्रम्) इति कन् प्रकारो भेदः सादृश्यं च, (अणुकः) सूक्ष्मदृक् अणु निपुण इतिया वादिपाठात् कन् ( अण्डः "यमन्ताङ्डः'' इति डः बाहुकाहडकारस्य नेत्त्वम् ( अडुः ) (जलतरणिः ) "अणो डश्च'' इतृयुक्तारप्रत्ययो डश्चान्तादेशः ( रणति रराण रणिता अरणीत् अराणीत् )"अतो हलोदः'' इति वा वृद्धिः ( रिरणिषति रंरण्यते रंरणीति रंरण्टि रंराण्टः) "नुगतोनुनासिकान्तस्य'' इत्यभ्यासस्यानुस्वारः, "अनुनासिकस्य क्किज्ञलोः क्ङिति'' इति दीर्धः ( रण्यति अरीरणत् अराणीत् ) काण्यादित्वाद् ह्रस्वविकल्पः राणयतीति गतौ घटादिः ( रणनं ) शब्दः रणन्त्यस्मिन्निति ( रणो ) तेजः संग्रामश्च [ वशिरण्योरुपसंख्यानम् ] इति अकर्त्तरि कारके अच् प्रत्ययः ( रणितं, रण्डा ) "ञमन्ताडङः'' (रणरणको ) हृल्लेखः [घञे कविधानम् ] इति कः [ कृञ्यादीनां के द्व भवतः) इति द्विर्वचंन , संज्ञायां कन् पृषोदरादित्वाद्धलादिशेषाभावो ऽभ्यासस्याकारश्च (वणति ववाण ववणतुरित्यादि ) वकारादित्वादेत्वाभ्यासलोपाभावः अयमपि काण्यादिः (वाणः ) शतं तनुः "अलश्च'' इति संज्ञायां घञ् ( वाणी ) "इञ् लपाकादिभ्यः'' इति इञन्तात् [ सर्वतोक्तिन्नर्थादित्येके] इति ङीष् अन्तर्वाण्यस्येति (अन्तर्वाणिः), विपश्चित् "निष्प्रवाणिश्च'' इति चकारात् "नद्युतश्च'' इति कपोधः अवश्यं वणतीति (वाणिनी) आवश्यकणिन्यन्तान्ङीप् (वण्डः) पूर्ववडुः अल्पतनुः पशुः (भणति बभाण भणितेत्यादि ) अयमपि काण्यादिः अभण्य इति ( भाणः ) कर्मणि घञ् ( भणितिः ) "तितुत्र'' इतीणिनेषेधे [तितुत्रेष्वग्रहादीनाम]इति वचनादिडागमः (भण्डः भाण्डः)भण्डे र्वा "पुच्छभाण्ड'' इति निर्देशाद्दीर्घः भामेर्वा डप्रत्यये ( संभाण्डयति), भाण्डानि सञ्चिनोतीत्यर्थः "पुच्छभाण्डचीवराण्णिङ्'' इति णिङ्, "भाण्डात्समाचयने'' इति वृत्तिः ङित्त्वात्तङ् (समबभाण्डत) "णिश्चि'' इति चङ् (मणव्रि ममाण मेणतुः मणितेत्यादि मणितम् मणिः ) इन्प्रत्ययः मणिप्रकारो मणिकः स्थूलदित्वात् कन् मणिरेव ( मणिकः ) यावादित्वात्कन् ( मणिको ) लञ्जरः संज्ञायां कन् (मण्डः)मण्डतेर्वा ( कणति चकाण कणितेत्यादि ) अयमपि काण्यादिः कणयतीति गतौ घटादित्वात् ( कणः ) लेशः सूक्ष्मतण्डुलशच गोचरादिसूत्रे चकास्यानुक्तसमुच्चस्यानुक्तसमुच्चयार्थत्वाद् घः ( कणिका ) संज्ञायां कनि "प्रत्ययस्थात्'' इतीत्वम् ( कण्ठः ) कणेष्ठः बाहुलकात् ठस्येकाभावः अयं निमीलनार्थश्चुरादौ ( क्कणति चक्काण क्कणितेत्या दि क्काणः क्कणः निक्काणः निक्कणः कल्याणप्रक्कणा वीणा कल्याक्काणेति वा ) ( सूत्रम्) क्कणो वीणायां (इति सूत्रम्) अनुपसृष्टान्निपूर्वात् वीणाविषयाच्च क्कणेवां ऽप्प्र्ययः सोपसर्गार्थं वीणाग्रहणम् ( कुणालो ) धान्यं यज्ञापेपकरणं "पीयुक्कणिभं कलायन् इस्वः संप्रसारणं च'' इति कालन्प्रत्ययः यथासंख्यात्संप्रसारणं च(कुणपम् ) "क्कणःसंप्रसारणं च'' इति पन्प्रत्ययः संप्रसारणं ( कङकणीका) प्रतिसरः "चङ्क्कणेः कङ्कणश्च'' इति यङ्लुगन्तादीकन्प्रत्ययः कङणादेशश्च ( व्रणति वव्रणति वव्राण व्रणितेत्यादि ) अयं बशादिः क्कचित्पष्यते दन्तोष्ठयादिरेव सर्वत्र, तथा यादवः, व्रणेश्शब्दार्थविषये, व्रणगात्रचूर्णनेइति गात्रचूर्णनार्थोयं कथादिः ( भ्रणति बभ्राण भ्रणिता ध्वणति दध्वाण ध्वणितेत्यादि ) घ्रणिरपि संमतायामत्र पठ्यते 449
अणँ अण (अर्थः) प्राणने
( अण्यते आणे अणिता अणिष्यते अण्यताम् आण्यत अण्येत अणिषीष्ट आणिष्ट अणिणिषते आणयति मा भवानणिणत् )
यमिर्ञमन्तेष्वनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मनिः नमिश्चतुर्थो हनिरेव पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम्
इति व्याघ्रभूतिवचनादयं सेट् केचिदनिटां मध्ये पाठस्य प्रयोजनादर्शनाद् अमुं धातुंनाधीयते शाकटायनस्तु 'अन' इत्याह एवं तवर्गीयान्तं काण्डमप्यनुसृतं भवतीति अणतीति शब्दे शपि अनितीति प्राणने लुकि 67
कृदन्तरूपमाला
Sanskrit
1 {@“अण शब्दार्थः”@} 2 ‘अणेरणति शब्दार्थे, प्राणते त्वण्यते श्यनि।’ 3 इति देवः।
आणकः-णिका, आणकः-णिका, अणिणिषकः-षिका
अणिता-त्री, आणयिता-त्री, अणिणिषिता, त्री
अणन् 4 -न्ती, आणयन्-न्ती, अणिणिषन्-न्ती
अणिष्यन्-ती-न्ती, आणयिष्यन्-ती-न्ती, अणिणिषिष्यन्-ती-न्ती
आणयमानः, आणयिष्यमाणः
आण् 5 आणौ-आणः
अणितम्-तः-तवान्, आणितम्-तः-तवान्, अणिणिषितम्-तः-तवान्
अणः, प्राणः, आनः ध्वाङ्क्षाणी, 6 अणिणिषुः, आणिणयिषुः
7 अणितव्यम्, आणयितव्यम्, अणिणिषितव्यम्
अणनीयम्, आणनीयम्, अणिणिषणीयम्
आण्यम्, आण्यम्, अणिणिष्यम्
ईषदणः-दुरणः-स्वणः
अण्यमानः, आण्यमानः, अणिणिष्यमाणः
आणः, आणः, अणिणिषः
अणितुम्, आणयितुम्, अणिणिषितुम्
8 आण्टिः, आणना, अणिणिषा, आणिणयिषा
अणनम्, आणनम्, अणिणिषणम्
अणित्वा, आणयित्वा, अणिणिषित्वा
प्राण्य, प्राण्य, समणिणिष्य
आणम् अणित्वा आणम् २, आणयित्वा २, अणिणिषम्
अणिणिषित्वा
प्रासङ्गिक्यः
01
=>
(१७)
02
=>
(१-भ्वादिः ४४४-अक। से-पर।)
03
=>
(९२)
04
=>
[[आ। ‘अणद्दिशः केलिरणैर्मनोज्ञया वाण्या भणन्तो मणिभूषणोत्कणाः। वनात् कुमाराः क्वणिताग्र्यवेणवो व्रणद्विषा- णभ्रणिताभ्रमाययुः।। धा। का १-५८।’]]
05
=>
[[१। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः।]]
06
=>
[[२। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः।]]
07
=>
[पृष्ठम्००१६+ २४]
08
=>
[[१। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ष्टुत्वम्।]]
1 {@“अण प्राणने”@} 2 3 ‘अणेरणति शब्दार्थे प्राणते त्वण्यते श्यनि’ 4 इति देवः।
5 णकः-णिका, आणकः-णिका, अणिणिषकः-षिका
अणिता-त्री, आणयिता-त्री, अणिणिषिता-त्री
आणयन्-न्ती, आणयिष्यन्-न्ती-ती
अण्य 6 मानः, आणयमानः, अणिणिषमाणः
अणिष्यमाणः आणयिष्यमाणः, अणिणिषिष्यमाणः
7 प्राण्-प्राणौ-प्राणः
अणितः-तम् तवान्, आणितः, अणिणिषितम्-तः-तवान्
अणः, आणः, अणिणिषुः, आणिणयिषुः
8 अणितव्यम्, आणयितव्यम्, अणिणिषितव्यम्
अणनीयम्, आणनीयम्, अणिणिषणीयम्
आण्यम्, आण्यम्, अणिणिष्यम्
ईषदणः, दुरणः, स्वणः
ईषदाणः, दुराणः, स्वाणः
अण्यमाणः, आण्यमानः, अणिणिष्यमाणः
आणः, आणः, अणिणिषः
अणितुम्, आणयितुम्, अणिणिषितुम्
9 ण्टिः, आणना, अणिणिषा, आणिणयिषा
अणनम् 10, आणनम्, अणिणिषणम्
अणित्वा, आणयित्वा, अणिणिषित्वा
प्राण्य, प्राण्य, प्राणिणिष्य
आणम् २, अणित्वा २, आणम् २, आणयित्वा २, अणिणिषम्
अणिणिषित्वा
प्रासङ्गिक्यः
01
=>
(१८)
02
=>
(४ दिवादिः-११७५ अक। से। आ।)
03
=>
[[आ। ‘अन’ इति नकारान्तः, तवर्गीयान्तेषु पाठात्--इति शाकटायनः]]
04
=>
(श्लो ९२)
05
=>
[[२। ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः।]]
06
=>
[[३। दिवादित्वात् श्यन्।]]
07
=>
[[४। ‘अनुनासिकस्य--’ (६-४-१५) इति उपधायाः दीर्घः।]]
08
=>
[पृष्ठम्००१७+ २७]
09
=>
[[१। ‘अनुनासिकस्य--’ (६-४-१५) इति उपधादीर्घः। ष्टुत्वम्।]]
10
=>
[[आ। ‘कंसानुरोध्यणनहृन्मतिमद्युगर्च्यः शेषं व्यसृज्यत पटौघमलिश्यमानम्’ (धा। का। २-६२)]]