| YouTube Channel

अड (aDa)

 
शब्दसागरः
English
अड r. 1st cl. (अडति) To strive or endeavour. 5th cl. (अडोति) To occupy
or possess, (peculiar to the Vedas.)
Wilson
English
अड r. 1st cl. (अडति) To strive or endeavour. 5th cl. (अड्नोति) To
occupy or possess, (peculiar to the Vedas.)
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अड्
मूलधातुः:
अड
धात्वर्थः:
उद्यमने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी-->परस्मैपदी
रूपम्:
अडति
धातुप्रदीपः
Sanskrit
अडँ अड उद्यमे
- अडति अडः व्यडः व्याडिः अत इञ् (4/1/64) स्वागतादित्वाद् (द्र0 737) ऐच् प्रतिषेधः ।। 359 ।।
शब्दकल्पद्रुमः
Sanskrit
अड व्याप्तौ (स्वादिं सेट् ।) इति कविकल्प-द्रुमः
वैदिकः अड्नोति इति दुर्गा-दासः
अड उद्यमे (भ्वादिं सेट् परं ।) इति कविकल्प-द्रुमः
अडति लोकः सुखाय इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
अड अद्यमे भ्वादि०
पर०
सक०
सेट् अडति आडीत्
अड व्याप्तौ स्वादि०
पर०
अक० सेट् वेद एवास्य प्रयोगः ।अड्णोति आडीत्
क्षीरतरङ्गिणी
Sanskrit
अडँ अड उद्यमे
- व्यडति व्यड तदपत्यं व्याडिः व्याडः, व्यालः 349
धातुवृत्तिः
Sanskrit
अडँ अड (अर्थः) उद्यमे
( अडति अडो ) वृश्चिकालांगूलं तेन तैक्ष्ण्यं लक्ष्यते विशिष्टो ऽडस्तैण्यमस्य व्यडः, तस्यापत्यं व्याडिः "अत इञ्'' "स्वागतादीनां च'' इति वृद्धिप्रतिषेधैजागमयोर्निषेधः 354
कृदन्तरूपमाला
Sanskrit
1 {@‘अड उद्यमने’@} 2 शतरि अडन् 3।
अडतीत्यडः = वृश्चिकलाङ्गूलः।
विशिष्टोऽडः = व्यडः।
तस्यापत्यमत इञ् व्याडिः आचार्यः।
संग्रहनामकस्य लक्षग्रन्थपरिमितस्य व्याकरण- शास्त्रस्य कर्ता पाणिनेर्भागिनेयः।
स्वागतादित्वात् आदिवृद्धिप्रतिषेधः।
इति मा।
धा।
वृत्तिः।
अन्यानि सर्वाणि रूपाणि ‘अट गतौ’ 4 इतिवत् बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१५)
02
=>
(१-भ्वादिः-३५८-सक। से। पर।)
03
=>
[[B। ‘प्ररोडकानङ्गविलोलितैर्वृतान् रतावडद्भिः ललनाजनैः खलैः।’ धा। का। १। ४६।]]
04
=>
(११)