| YouTube Channel

अट्टिटयिषितुम् (aTTiTayiSitum)

 
कृदन्तरूपमाला
Sanskrit
1 {@‘अट्ट अनादरे’@} 2 {@‘हिंसातिक्रमयोरट्टेरट्टतेऽनादरेऽट्टयेत्’@} 3 इति देवः।
अट्टकः-ट्टिका, 4 अट्टिटयिषकः-षिका
अट्टयिता-त्री, अट्टिटयिषिता-त्री
अट्टयन्-न्ती, अट्टिटयिषन्-न्ती
अट्टयिष्यन्-न्ती-ती, अट्टिटयिषिष्यन्-न्ती-ती
अट्टयमानः, अट्टिटयिषमाणः
अट्टयिष्यमाणः, अट्टिटयिषिष्यमाणः
अत् 5, अद्, अट्टौ-अट्टः, अट्टितम्-तः-तवान्, अट्टिटयिषितम्-तः-तवान्
अट्टः, अट्टिटयिषुः
अट्टयितव्यम्, अट्टिटयिषितव्यम्
अट्टनीयम्, अट्टिटयिषणीयम्
अट्ट्यम्, अट्टिटयिष्यम्
ईषदट्टः, दुरट्टः, स्वट्टः
अट्ट्यमानः, अट्टिटयिष्यमाणः
अट्टयितुम्, अट्टिटयिषितुम्
अट्टना, अट्टिटयिषा
अट्टनम्, अट्टिटयिषणम्
अट्टयित्वा, अट्टिटयिषित्वा
समट्ट्य, समट्टिटयिष्य
6 अट्टम् २, अट्टयित्वा २, अट्टिटयिषम्
अट्टिटयिषित्वा
प्रासङ्गिक्यः
01
=>
(१३)
02
=>
(१०-चुरादिः-१५६१ अक-सेट्-उभयपदी।)
03
=>
(श्लो ७२)
04
=>
[[आ। अस्य चुरादित्वात् शुद्धधातो रूपाणि, अजादित्वाद्यङन्तरूपाणि भवन्ति।]]
05
=>
[[१। अर्य दोपधः। तत्पक्षे टकारस्य संयोगान्तलोपे ‘वाऽवसाने’ (८-४-५६) इति चर्त्वे रूपद्वयम्।]]
06
=>
[पृष्ठम्००१४+ २८]