| YouTube Channel

अट्टः (aTTaH)

 
Apte Hindi
Hindi
अट्टः
पुं*
- अट्ट्+घञ्
अटारी
अट्टः
पुं*
- अट्ट्+घञ्
"कंगूरा, मीनार, बुर्ज"
अट्टः
पुं*
- अट्ट्+घञ्
"हाट, मंडी"
अट्टः
पुं*
- अट्ट्+घञ्
"महल, विशाल भवन"
E Bharati Sampat
Sanskrit
(पुं) अट्यते आनाद्रियते अन्यत् अत्र अट्ट(अनादरे)+घञ् ‘हलश्च’ ३.३.१२१। १.क्षौ‌मः, प्रासादस्य उपरिगृहम् ‘नरेन्द्रमार्गाट्ट इव प्रपेदे’ रघुः६.६७। २.मञ्चः। ३.दुकूलम् ४.प्रवाहः, पूरः। ५.विपणिः। (वि) ६.उन्नतः। ७.अधिकः, अत्यर्थः। ८.शुष्कः। (न) ९.भक्तम्, अन्नम् ‘अट्टशूला जनपदाः शिवशूला द्विजातयः। कामिन्यः केशशूलिन्यः भविष्यन्ति कलौ युगे’ महाभा०, भाग०। ‘अट्टं भक्ते शुष्के क्षौमेऽत्यर्थे गृहान्तरे’ विश्वः। ‘अट्टस्त्वट्टालके पूरे’ नानार्थर०।
Wordnet
Sanskrit
Synonyms:
अट्टः, उदर्कः
noun
उन्नता रचना यस्याः उपयोगः अवलोकनार्थं तथा सङ्केतनार्थे क्रियते।
"बर्लिननगरे वर्तमानः दूरदर्शनस्य अट्टः ख्यातः।"
Synonyms:
अट्टालकः, अट्टः, क्षौमः
noun
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।
"मम गृहं सप्तमे अट्टालके अस्ति।"
Synonyms:
प्रासादः, महाभवनम्, अट्टालिका, अट्टः
noun
अट्टालिकोपरि गृहम्।
"मुम्बईनगर्यां बहवः अट्टालिकाः सन्ति।"
Synonyms:
अट्टः, अट्टालः, उपररिकोष्ठः
noun
उपरिस्थः प्रकोष्ठः।
"बालकाः अट्टे खेलन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अट्टः,
पुं,
(अट्टते एकं गृहमतिक्रम्य यत्र गृहे गच्छतिअट्ट + अधिकरणे घञ्) क्षौमः इत्यमरः
हर्म्म्यादिगृहं इति भरतः
प्राकाराग्रस्थित-रणगृहं इति कौटिल्यः अट्टेति ख्यातगृह-विशेषः इति कोङ्कटः
प्राकारमण्डपस्योपरिशाला इति केचित्
हर्म्म्यादिवातकुटिका ।इति केचित्
मण्डपोपरि हर्म्म्यपृष्ठं इतिकेचित्
प्राकारधारणार्थोऽभ्यन्तरे क्षौमाख्यो-ऽट्टः इति भट्ठः
अतिशयः इति मेदिनी
हट्टः इति हेमचन्द्रः
कृदन्तरूपमाला
Sanskrit
1 {@अट्ट@} 2 {@अतिक्रमहिंसनयोः@} 3 अट्टकः-ट्टिका, अट्टकः-ट्टिका, 4 अटिट्टिषकः, अट्टिटिषकः-षिका
अट्टिता-त्री, अट्टयिता-त्री, अटिट्टिषिता-त्री, अट्टिटिषिता-त्री
अट्टयन्-न्ती, अट्टयिष्यन्-ती-ती
अट्टमानः, अट्टयमानः, अटिट्टिषमाणः, अट्टिटिषमाणः
अट्टिष्यमाणः, अट्टयिष्यमाणः, अटिट्टिषिष्यमाणः, अट्टिटिषिष्यमाणः
अट्, अट्टौ-अट्टः, 5 मार्गात्
अट्टितम्-तः-तवान्, अट्टितः, अटिट्टिषितम्, अट्टिटिषितम्-तः-तवान्
अट्टः, अट्टः, अटिट्टिषुः, अट्टिटिषुः
अट्टितव्यम्, अट्टयितव्यम्, अटिट्टिषितव्यम्, अट्टिटिषितव्यम्
अट्टनीयम्, अट्टनीयम्, अटिट्टिषणीयम्, अट्टिटिषणीयम्
अट्ट्यम्, अट्ट्यम्, अटिट्टिष्यम्, अट्टिटिष्यम्
ईषटट्टः, दुरट्टः, स्वट्टः
अट्ट्यमानः, अट्ट्यमानः, अटिट्टिष्यमाणः, अट्टिटिष्यमाणः
अट्टः, अट्टः, अटिट्टिषः, अट्टिटिषः
अट्टितुम्, अट्टयितुम्, अटिट्टिषितुम्, अट्टिटिषितुम्
अट्टा 6, अट्टना, अटिट्टिषा, अट्टिटिषा
7 अट्टनम्, अट्टनम्, अटिट्टिषणम्, अट्टिटिषणम्
अट्टित्वा, अट्टयित्वा, अटिट्टिषित्वा, अट्टिटिषित्वा
समट्ट्य, समट्ट्य, समटिट्टिष्य, समट्टिटिष्य
अट्टम् अट्टित्वा अट्टम् अट्टयित्वा अटिट्टिषम् अटिट्टिषित्वा अट्टिटिषम्
अट्टिटिषित्वा
प्रासङ्गिक्यः
01
=>
(१२)
02
=>
[[आ। ‘हिंसातिक्रमयोरट्टेरट्टतेऽनादरेऽट्टयेत्।’ (श्लो ७२) इति देवः। अतिक्रमः = उल्लङ्घनम्।]]
03
=>
(१-भ्वादिः-२५४। सक-सेट्। आ।)
04
=>
[[१ धातुरयं तोपधः दोपध इति मतद्वयम्। तोपधत्वे-अटिट्टिषकः इत्यादि, दोपधत्वे अट्टिटिषक इत्यादि रूपाणीति ज्ञेयम्। टोपधोऽपि कल्पद्रुमे--तत्पक्षे क्विपि अट् इति।]]
05
=>
[[B। ‘मार्गात् दृष्ट्वा हरिपादलाञ्छनं व्यवेष्टतोर्व्यां महनीयचेष्टितः। तत्केलिसंघोष्टि- तलोष्टमानमद्वने मरुद्घट्टितपोस्फुटद्रुमे।।’ धा। का १-३४। तोपधे दोपधे वा क्विपि रूपम्।]]
06
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इत्यः प्रत्ययः।]]
07
=>
[पृष्ठम्००१३+ २८]
1 {@‘अट्ट अनादरे’@} 2 {@‘हिंसातिक्रमयोरट्टेरट्टतेऽनादरेऽट्टयेत्’@} 3 इति देवः।
अट्टकः-ट्टिका, 4 अट्टिटयिषकः-षिका
अट्टयिता-त्री, अट्टिटयिषिता-त्री
अट्टयन्-न्ती, अट्टिटयिषन्-न्ती
अट्टयिष्यन्-न्ती-ती, अट्टिटयिषिष्यन्-न्ती-ती
अट्टयमानः, अट्टिटयिषमाणः
अट्टयिष्यमाणः, अट्टिटयिषिष्यमाणः
अत् 5, अद्, अट्टौ-अट्टः, अट्टितम्-तः-तवान्, अट्टिटयिषितम्-तः-तवान्
अट्टः, अट्टिटयिषुः
अट्टयितव्यम्, अट्टिटयिषितव्यम्
अट्टनीयम्, अट्टिटयिषणीयम्
अट्ट्यम्, अट्टिटयिष्यम्
ईषदट्टः, दुरट्टः, स्वट्टः
अट्ट्यमानः, अट्टिटयिष्यमाणः
अट्टयितुम्, अट्टिटयिषितुम्
अट्टना, अट्टिटयिषा
अट्टनम्, अट्टिटयिषणम्
अट्टयित्वा, अट्टिटयिषित्वा
समट्ट्य, समट्टिटयिष्य
6 अट्टम् २, अट्टयित्वा २, अट्टिटयिषम्
अट्टिटयिषित्वा
प्रासङ्गिक्यः
01
=>
(१३)
02
=>
(१०-चुरादिः-१५६१ अक-सेट्-उभयपदी।)
03
=>
(श्लो ७२)
04
=>
[[आ। अस्य चुरादित्वात् शुद्धधातो रूपाणि, अजादित्वाद्यङन्तरूपाणि भवन्ति।]]
05
=>
[[१। अर्य दोपधः। तत्पक्षे टकारस्य संयोगान्तलोपे ‘वाऽवसाने’ (८-४-५६) इति चर्त्वे रूपद्वयम्।]]
06
=>
[पृष्ठम्००१४+ २८]