| YouTube Channel

अटरूषः (aTarUSaH)

 
Apte Hindi
Hindi
अटरूषः
पुं*
- अट+रुष्+क
"अडूसा, वासक का पौधा"
E Bharati Sampat
Sanskrit
(पुं) अटैः रूषति अट+रूष(मिश्रणे)+कः। ‘इगुध०’ ३.१.१३५ वासकवृक्षः(अरडूसा) ‘वृषोऽटरूषः सिंहास्यो वासकः’ अमरः। ‘अटरूषं कुरु गले सकलरोगहारकम्’
Wordnet
Sanskrit
Synonyms:
वासकः, वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासिका, वाजिदन्तकः, वाशा, वृशः, अटरुषः, वाशकः, वासा, वासः, वाजी, वैद्यसिंही, मातृसिंहौ, वासका, सिंहपर्णी, सिंहिका, भिषङ्माता, वसादनी, सिंहमुखी, कण्ठीरवी, शितकर्णी, वाजिदन्ती, नासा, पञ्चमुखी, सिंहपत्री, मृगेन्द्राणी
noun
औषधीयक्षुपः यः चतुष्पादम् आरभ्य अष्टपादपर्यन्तं विस्तृतः भवति एवं श्वेतपुष्पाणि भवन्ति।
"वासकस्य फलं पादोनचतुरङ्कुलं उन्नतं रोमावृतं भवति एवं प्रत्येकस्मिन् फले बीजचतुष्टयं भवति।"
शब्दकल्पद्रुमः
Sanskrit
अटरूषः,
पुं,
(अटति मृत्युग्रासे पतत्यनेन अट +घञर्थे कः अटं कासाख्यरोगं रोषति नाशयतिरुष् + कर्त्तरि कः अथवा रूष् + कर्त्तरि कःअटस्य रूषो वा षष्ठीतत्पुरुषः वासकः कास-नाशक इति वैद्यके) वासकवृक्षः इत्यमरटीकायांरायमुकुटः