अट (aTa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअट [aṭa], Wandering
क्षपाटः a night-roamer. ततः क्षपाटैः पृथुपिङ्गलाक्षैः खमानशे 2.3.
Monier Williams 1872
EnglishGoldstucker
EnglishApte Hindi
Hindiअट
वि* - अट्+अङ्
घूमने वाला
Shabdartha Kaustubha
Kannadaअट
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸಂಚರಿಸುವ / ಅಲೆಡಾಡುವ
निष्पत्तिः - > अट (गतौ) “अच्” (३-१-१३४) ।
व्युत्पत्तिः - > अटति |
धातुपाठः (Krishnacharya)
Sanskrit अट्
अट
गतौ
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
अटति
धातुप्रदीपः
Sanskritअटँ अट
मानकरूपान्तरम् - पटँ
पट गतौ
- अटति । आट । आटः । अटाट्यते । पटति । पटः । पटी । पाटः ।। 293-294 ।।
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritअटँ अट
मानकरूपान्तरम् - पटँ
पट गतौ
- अटति अटनः अट्यर्त्यशूर्णोतीनाम् उपसंख्यानात् (द्र0 3121 वा0) यङ्-अटाट्यते वथाद्यलोकः अटाट्या उणादौ अटविः (द्र0 उ0 4134 वृ0) अटवी पटति पटः पटीरः पटुः तनट् (तु0 उ0 3150) पट्टनम् पटनः कपिकण्डिकटिपटिभ्य ओलः (तु0 उ0 167) पटोलः पटहस्तु-पटे हन्यत इति डः चुरादौ पट वट ग्रन्थे (10245) अदन्तः पटयति, तथा पट भाषार्थः (10197) पाटयति 289, 290
धातुवृत्तिः
Sanskritअटँ अट
मानकरूपान्तरम् - पटँ
पट (अर्थः) गतौ
( अटति आट अटिता अटिष्यति अटतु आटत् अटेत् ) आशिषि ( अट्यात् मा भवानटीत् ) "नेटि'' इति सिचि वृद्धभावः ( अटिटिषति अटाट्यते )[ सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतीनामुपसंख्यानम् ] इति यङ् अजादित्वात् ट्यशब्दस्य द्विर्वचने ऽभ्यासस्य "दीर्घोऽकित'' इति दीर्घः नन्वत्र यङेव कार्यी निमित्तं च, एकस्य कार्यिनिमित्तत्वे च विरुद्धे नैतत् आकारभेदात्, अनभ्यासाकारेण कार्यी यङकारेण निमित्तम् , तथा हि देवदत्तशालायां ब्राह्मण आनीयतमित्युक्ते यदि देवदत्तोपि ब्राह्मणश्च शालास्श्च भवति तदा सोप्यानीयते, यङ्लुकि "सन्यङोः'' इत्यस्य षष्ठ्यन्तत्वात् यङपेक्षया पूर्वस्य कार्याभावात् "नु लुमत'' इति प्रत्ययलक्षणस्य प्रतिषेधाभावाद्यडन्तत्वाद् अटशब्दस्य द्विर्वचने हलादिशेषे "दीर्घोऽकितः'' इति दीर्घे सवर्णदीर्घे च तिप्ष्टुत्वे ( आट्टि ) इति भवति ईट्पक्षे तु ( आटीति आट्टः आटति आटसि आट्टः आटांचकारेत्यादि ) आङ्ढीत्यत्र हेर्धिभावे ष्टुत्वे पूर्वस्य जश्त्वं डकारः लङि हल्ङ्यादिना तिस्योर्लोपे ( आट् अटतीत्यटा ) अचि टाप् तां करोति ( अटायते )अटाट्येत्यादिना क्यङ्, कुलस्य (अटा कुलटा)शकन्ध्वादित्वात् "कुलटाया वा" इति निर्देशाद्वा पररूपं कुलटाया अपत्यं, ( कौलटिनेयः कौलटेयः) स्त्रीभ्यो ढकि "कुलटाया वा'' इति पक्षे इनङादेशोऽन्त्यस्य यदायं कुलटाशब्दः क्षुद्रायां वर्त्तते क्षुद्रा दुःशीला अङ्गहीना वा तदा "क्षुद्राभ्यो वा'' इति ढ्रकि कौलटेर इति भवति, तदभावे वाशब्देन ढकि कौलटेयः इति अटाठ्या [परिचर्यापरिर्सामृगयाटाट्यानामुपसंख्यानम् ] इति गमनमात्रे शप्रत्यये यकि द्विर्वचनहलादिशेषाभ्यासदीर्घेषु निपात्यते ( पटति पपाट पेटतुः पेटिथ पटिता अपटीत् अपाटीत् ) "अतो हलोदः'' इतिवृद्धिः ( पिपटिषति पापट्यते, पापटीति पापट्टीत्यादि पाटयति अपीपटत् पाटूपटः ) ण्यन्तात्पचाद्यचि [ पाटेर्णिलुक् चोक् चाभ्यासस्य ] इति णिलुक्, द्विर्वचमभ्यासस्योगागम उपधादीर्घश्च, ऊको दोर्घोच्चारणसामर्थ्यात् ह्रस्वस्याभावः अस्यागमत्वसामर्थ्याच्च हलादिशेषः अन्यथादेशमेव विदध्यादुकारम् "अभ्यासस्यानचि'' इति वा हलादिशेषह्रस्वयोरभावः, अभ्यासस्य यदुक्तं तदचि नेति "णेरनिटि'' इति णिलोपे सिद्धे लुग्वचनं प्रत्ययलक्षणे वृद्धेरभावार्थं, पाट्यका सुराविशेषः पाट्यकालावदातसुरायामिति स्थूलादिपाठात् ण्यन्तादस्मात् क्वुन् पटुः "कलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च'' इत्युप्रत्यये यथासंख्यात्पटादेशः, अत्र गुगेक आगमः, अन्ये आदेशाः, पटोर्भावकर्मणी पटिमा "पृथ्वादिभ्य इमनिज्वा'' इतीमनिच्, "टेः'' इति टिलोपः तदभावे "इगन्ताच्च लघुपूर्वात्'' इत्यणि पाटवम् गोष्ठेपटुः "पात्रेसमितादयश्च'' इति क्षेपे सप्तमीतत्पुरुषः तत्रैव पाठादलुक्, गोष्ठ एवपटुर्न सदसीति क्षेपावगतिः ( पटाका ) "शलिपटिपदिभ्यो निदित्याकिन्निच्च'' ( पटलम् ) "वृषादिभ्यश्चित्'' इति कलप्रत्ययः चिच्च पटलिका, संज्ञायां कन् ( पटीरः ) कृदृइत्यादिनेरन् ( पाटलम् ) ण्यन्तात्कलप्रत्ययो बाहुलकात् ( पाटली ) "जातेरस्त्रीविषयादयोपधात्'' इति ङीष् पाटल्याः पुष्पाणि, पाटलानि "बिल्वादिभ्योण्'' इति विकारावयवयोरण् , तस्य "पुष्पफलमूलेषु बहुलम्'' इति लुप् तत्रैव बहुलग्रहणान्न भवति, लुपि हि कौशीतक्याः फलानीत्यादिवत् "लुपि युक्तवद्व्यक्तिवचने'' इति युक्तवद्भावः स्यात् 293
कृदन्तरूपमाला
Sanskrit1 {@‘अट गतौ’@} 2 आटकः-टिका, आटकः-टिका, अटिटिषकः-षिका, 3 अटाटकः-टिका
अटिता-त्री, आटयिता-त्री
अटिटिषिता-त्री, अटाटिता-त्री
4 अटन्-पर्यटन्-न्ती, आटयन्-न्ती
अटिटिषन्-न्ती
अटिष्यन्-ती-न्ती, आटयिष्यन्-ती-न्ती, अटिटिषिष्यन्-न्ती-ती
आटयमानः, आटयिष्यमाणः, अटाट्यमानः 5
अट्, अटौ-अटः
अटितम्, आटितम्, अटिटिषितम्-तः-तवान्
अटाटितम्-तः तवान्
अटः, 6 7 पर्याटी, 8 भिक्षाटः, 9 रात्रिमटः 10 रात्र्यटः, अटिटिषुः, आटिटयिषुः, 11 कुलटा, अंटाटः, अटनः 12
अटितव्यम्, आटयितव्यम्, अटिटिषितव्यम्, अटाटितव्यम्
अटनीयम्, आटनीयम्, अटिटिषणीयम्, अटाटनीयम्
आट्यम्, आट्यम्, अटिटिष्यम्, अटाट्यम्
ईषदटः-दुरटः-स्वटः
अट्यमानः, आट्यमानः, अटिटिष्यमाणः, अटाट्यमानः
आटः, आटः, अटिटिषः, अटाटः
अटितुम्, आटयितुम्, अटिटिषितुम्, अटाटितुम्
अट्टिः, अटा, आटना, पर्याटना, अटाटा 13, अटिटिषा, आटिटयिषा, अटा 14 ट्या
पर्यटनम्, आटनम्, अटिटिषणम्, अटाटनम्
अटित्वा, आटयित्वा, अटिटिषित्वा, अटाटित्वा
पर्यट्य, समाट्य, समटिटिष्य, समटाट्य
15 आटम् २, अटित्वा २, आटम् २, आटयित्वा २, अटिटिषम् २, अटिटिषित्वा २, अटाटम् २
अटाटित्वा २
अटविः 16, अटवी
01 (११)
02 (१-भ्वादिः-२९५ सक। सेट्। पर।)
03 [[१। ‘सूचिसूत्रि--’ (वा। ३-१-२२) इति यङ्। ‘अटाटकः’ इत्यत्र ‘यस्य हलः’ (६-४-४९) इति यकारस्य लोपः ‘अतो लोपः’ (६-४-४८) इत्यकारलोपः।]]
04 [पृष्ठम्००११+ ४२]
05 [[आ। ‘अटाट्यमानोऽरण्यानि ससीतः सहलक्ष्मणः’ भ-का। ४-२]]
06 [[B। ‘अम्लेटकैः चाकटुचाटुभाषितैरटैः पटत्संरटिताञ्जनोत्करैः’ धा। का। १-३९। ५।]]
07 [[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ इति (३-२-७८) णिनिः।]]
08 [[२। ‘कर्मण्यणू’ (३-२-१) इति अण्।]]
09 [[C। ‘नारायणे राश्रिमटाङ्गनानामसातये तत्र जनिष्यमाणे’ वासुदेवविज- यकाव्ये ३। १।]]
10 [[३। ‘रात्रेः कृति विभाषा’ (६-३-७२) इति मुम् वा।]]
11 [[४। शकन्ध्वादित्वात् (वा। १-१-६४) पररूपम्।]]
12 [[V। नन्द्यादेराकृतिगणत्वाल्ल्युः।]]
13 [[५। ‘परिसर्यापरिचर्यामृगयाटाट्या- नामुपसंख्यानम्’ वा (३-३-१०१) इति शे यकिट्यशब्दस्य द्वित्वम्, पूर्वभागे यकारनिवृत्तिर्दीर्घश्च निपा- त्यते। केवलं गमनमात्रमर्थः।]]
14 [[५। ‘परिसर्यापरिचर्यामृगयाटाट्या- नामुपसंख्यानम्’ वा (३-३-१०१) इति शे यकिट्यशब्दस्य द्वित्वम्, पूर्वभागे यकारनिवृत्तिर्दीर्घश्च निपा- त्यते। केवलं गमनमात्रमर्थः।]]
15 [पृष्ठम्००१२+ २७]
16 [[ऋ। औणादिकौ शब्दौ।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
