| YouTube Channel

अञ्जनं (aJjanaM)

 
पुराणम्
English
अञ्जनम् / AÑJANA(M). This is the name of a mountain. (M.B., Sabhā Parva, Chapter 98, Verse 15).
शब्दकल्पद्रुमः
Sanskrit
अञ्जनं,
क्ली,
(अन्ज + भावे ल्युट्, कज्जले तु गम्य-माने करणे ल्युट्) म्रक्षणं गमनं व्यक्तीकरणं ।इत्यनट् प्रत्ययान्तान्जधात्वर्थंः कज्जलं तत्तुषड्विधं यथा, --“सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा ।दर्व्विका नीलमेघश्च अञ्जनानि भवन्ति षट्
तल्लक्षणानि यथा” --“स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा ।मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसं
घृष्ट्वा निगाह्य चैतानि शिलायां तैजसेऽथवा ।प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्रक
घृततैलादियोगेन ताम्रादौ दीपवह्निना ।यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता
सर्व्वाभावे तु तां दद्यात् देवीभ्यो दर्व्विकाञ्जनं ।महामाया जगद्धात्री कामाख्या त्रिपुरा तथा ।आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः
विधवा नाञ्जनं कुर्य्यात् महामायार्थमुत्तमं ।नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतं
मृत्पात्रे योजयेत्तु साधको नेत्ररञ्जनं ।न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः
चतुर्व्वर्गप्रदो धूपः कामदं नेत्ररञ्जनं ।तस्माद्द्वयमिदं दद्याद्देवेभ्यो भक्तितो नरः”
इति कालिकापुराणे ६८ अध्यायः
अस्य गुणः ।तारानैर्म्मल्यकारित्वं निर्म्मलचन्द्रतुल्यनिराकुल-दृष्टिकारित्वञ्च इति राजवल्लभः
सौवीरा-ञ्जनं रसाञ्जनं अक्तिः मसी इति हेभ-चन्द्रः
अग्निः इति विश्वः
आलङ्कारिकभाषयाव्यञ्जनाख्यवृत्तिः यथा, --“अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनं
इति काव्यप्रकाशः