| YouTube Channel

अञ्चन्-न्ती (aJcan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“अन्चु गतिपूजनयोः”@} 2 ‘गतियाचनयोरञ्चत्यञ्चते, णौ विशेषणे।
अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि।।’ इति 3 देवः।
अञ्चकः-ञ्चिका, अञ्चकः-ञ्चिका, अञ्चिचिषकः-षिका
अञ्चिता-त्री, अञ्चयिता-त्री, अञ्चिचिषिता-त्री
अञ्चन्-न्ती, अञ्चयन्-न्ती, अञ्चिचिषन्-न्ती
अञ्चिष्यन्-ती-न्ती, अञ्चयिष्यन्-ती-न्ती, अञ्चिचिषिष्यन्-ती-न्ती
अञ्चयमानः, अञ्चयिष्यमाणः
4 5 प्राङ्, उदङ्, देवद्र्यङ्, तिर्यङ्, अध् 6 यङ्, न्यङ् 7, सध्य्रङ्, सध्री 8 ची
अञ्चितम् 9 -तः 10 -तवान्, अक्तम्-क्तः-क्तवान्, 11 समक्नः-समक्नवान्, अञ्चितम्-तः-तवान्, अञ्चिचिषितम्-तः-तवान्
अञ्चः, अञ्चः, अञ्चिचिषुः, अञ्चिचयिषुः
अञ्चितव्यम्, अञ्चयितव्यम्, अञ्चिचिषितव्यम्
अञ्चनीयम्, अञ्चनीयम्, अञ्चिचिषणीयम्
अङ्क्यम्, 12 अञ्च्यम्, अञ्च्यम्, अञ्चिचिष्यम्
ईषदञ्चः, दुरञ्चः, स्वञ्चः
अञ्च् 13 यमानः, अच्यमानः, अञ्च्यमानः, अञ्चिचिष्यमाणः
अञ्चः, 14 उदङ्कः, 15 अङ्कः, अञ्चः, अञ्चिचिषः
16 अञ्चितुम्, अक्तुम्, अञ्चयितुम्, अञ्चिचिषितुम्
अञ्चा, अञ्चना, अञ्चिचिषा, अञ्चिचयिषा
अञ्चनम्, उदकोदञ्चनः, अञ्चनम्, अञ्चिचिषणम्
अञ्चित्वा, अक्त्वा, अञ्चयित्वा, अञ्चिचिषित्वा
समञ्च्य, समच्य, प्राञ्च्य, समञ्चिचिष्य
अञ्चम् २, अञ्चित्वा २, अक्त्वा २, अञ्चम् २, अञ्चयित्वा २, अञ्चिचिषम्
अञ्चिचिषित्वा
प्रासङ्गिक्यः
01
=>
(२४)
02
=>
(१-भ्वादिः-१८८-स-पर। से।)
03
=>
(श्लो ५०)
04
=>
[पृष्ठम्००२३+ ३९]
05
=>
[[१। ‘ऋत्विगू--’ (३-२-५९) इत्यादिना क्विन्। ‘अनिदितां--’ (६-४-२४) इति नलोपे, ‘उगिदचां--’ (७-१-७०) इति नुम्। नुमो नकारस्य, ‘क्विन्प्रत्य- यस्य कुः’ (८-२-६२) इति कुत्वम्।]]
06
=>
[[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
07
=>
[[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
08
=>
[[B। ‘सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम्’ भ। ६-७।]]
09
=>
[[२। ‘अञ्चेः पूजायाम्’ (७-२-५३) इतीट्। गतौ तु नलोपः।]]
10
=>
[[C। ‘उच्चैरञ्चितलाङ्गूलः शिरोऽञ्चित्वेव संवहन्’ भ। ९-४०।]]
11
=>
[[३। ‘अञ्चोऽनपादाने’ (८-२-४८) इति निष्ठानत्वम्। अपादाने तु ‘उदक्त- मुदकं कूपात्’ इति भवति। ‘उदितो वा’ (७-२-५६) इति क्त्वायां इड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12
=>
[[४। गत्यर्थे निष्ठायामनिट्त्वात् कुत्वम्। पूजायां ‘अञ्चेः पूजायाम्’ (७-२-५३) इति सेट्त्वात् कुत्वाभावः। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
13
=>
[[५। ‘नाञ्चेः पूजायाम्’ (६-४-३०) इति पूजायां नलोपनिषेधः। गतौ तु ‘अनिदिताम्--’ (६-४-२४) इति नलोपः।]]
14
=>
[[६। ‘उदङ्कोऽनुदके’ (३-३-१२३) इति घञन्तो निपातितः।]]
15
=>
[[ड्। ‘हृदयोदङ्कसंस्थानं कृतान्ताऽऽनायसन्निभम्’ भ। ७-८३।]]
16
=>
[पृष्ठम्००२४+ २१]