| YouTube Channel

अज्ञः (ajJaH)

 
Hindi
Hindi
एक मूर्ख है, जो मानक शास्त्रों में ज्ञान नहीं है
E Bharati Sampat
Sanskrit
(वि) जानाति न+ज्ञा(अवबोधने)+कः। ‘इगुपधज्ञा०’ ३.१.१३५। १.ज्ञानशून्यः। २.मूर्खः। ‘अज्ञे मूढव्यथाजातमूर्खवैधेयबालिशाः’ अमरः। ‘अज्ञः सुखमारध्यः’ नीतिश०। ३.जडः, अचेतनः। ‘वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य’ साङ्ख्यका० ४.अल्पज्ञः।
Wordnet
Sanskrit
Synonyms:
मूर्खः, मूढः, विमतिः, विमूढः, अज्ञः, अबुधः, अविद्धः, उन्मुग्धः, कुपटुः, कुबुद्धिः, कुण्ठकः, जडः
noun
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
"समाजे नैकाः मूर्खाः सन्ति।"
अमरकोशः
Sanskrit
Word: अज्ञः
Root: अज्ञः
Gender: undefined
Number: undefined
Meaning(s):
blame
abuse
order
denial
blaming
censure
refusal
command
reproach
reviling
exception
refutation
evil speaking
contradiction
speaking ill of
special rule setting aside a general one
peculiar noise made by hunters to entice deer
withdrawal of the adhyAropa or superimposed attribute
Shloka(s):
3|3|89|1 अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ। (नानार्थवर्गः)
Synonym(s):
3|3|89|1 अपवादः (अपवाद) (पुं) blame, abuse, order, denial, blaming, censure, refusal, command, reproach, reviling, exception, refutation, evil speaking, contradiction, speaking ill of, special rule setting aside a general one, peculiar noise made by hunters to entice deer, withdrawal of the adhyAropa or superimposed attribute
Related word(s):
परा_अपरासंबन्धः मनुष्यः
जातिः मनुष्यः
गुण-गुणी-भावः अज्ञानम्
शब्दकल्पद्रुमः
Sanskrit
अज्ञः, त्रि, (ज्ञा + कर्त्तरि कः नज्ञः नञ्समासः ।)जडः मूर्खः इत्यमरः (यदुक्तं, --“अज्ञो भवति वै वालः पिता भवति मन्त्रदः ।अज्ञं हि वालमित्याहुः पिवेत्येव तु मन्त्रदं”
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ।इदं शरणमज्ञानां ।“अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः ।धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“ज्ञा अवबोधने”@} 2 प्वादिः।
‘जानातीति श्नि सिद्ध्येत्, ज्ञपयति तु पुनर्मारणादौ घटादेः णौ3मित्त्वेऽपीदमेव ज्ञपनमिति 4 पदं ज्ञापने मारणादौ।
तेनार्थाज्ञापनेऽर्थे ज्ञपयतिपदवज् ज्ञापयेदित्यपि स्यात्
उक्तस्योक्तिः, ‘णिचश्चे’ 5 त्युदितविहतये
ज्ञापयेत्-- ‘ज्ञा नियोगे’।।
6 इति देवः।
7 ज्ञायकः-यिका, 8 ज्ञापकः- 9 ज्ञपकः-पिका, 10 जिज्ञपयिषकः-षिका, ज्ञीप्सकः- प्सिका, 11 जिज्ञासकः-सिका, 12 जाज्ञायकः-यिका
ज्ञाता-त्री, ज्ञापयिता-ज्ञपयिता-त्री, जिज्ञपयिषिता-ज्ञीप्सिता-त्री, जिज्ञासिता-त्री, जाज्ञायिता-त्री
13 14 जानन् 15 -ती, 16 17 सञ्जानन्, 18 प्रतिजानन्, 19 20 जानन्, ज्ञापयन्-ज्ञपयन्-न्ती, जिज्ञपयिषन्-ज्ञीप्सन्-न्ती, 21 22 अनुजिज्ञासन् 23 -न्ती
ज्ञास्यन्-न्ती-ती, ज्ञापयिष्यन्-न्ती-ती, जिज्ञपयिषिष्यन्-न्ती-ती, ज्ञीप्सिष्यन्-न्ती-ती, 24 अनुजिज्ञासिष्यन्-न्ती-ती
-- 25 26 अपजानानः, 27 28 29 जानानः, 30 31 सञ्जानानः, 32 प्रतिजानानः, 33 34 जानानः, 35 36 जानानः, ज्ञापयमानः-ज्ञपय- मानः, जिज्ञपयिषमाणः-ज्ञीप्समानः, 37 38 जिज्ञासमानः, 39 40 41 42 अपजिज्ञासमानः, 43 जिज्ञासमानः, 44 सञ्जिज्ञासमानः, 45 प्रतिजिज्ञासमानः, 46 47 अनुजिज्ञासमानः, जाजायमानः
48 49 अपज्ञास्यमानः, ज्ञापयिष्यमाणः-ज्ञपयिष्यमाणः, जिज्ञपयिषिष्यमाणः- ज्ञीप्सिष्यमाणः, 50 अपजिज्ञासिष्यमाणः, जाज्ञायिष्यमाणः
51 सुज्ञाः-सुज्ञौ-सुज्ञः
-- -- -- 52 ज्ञातम्-ज्ञातः-ज्ञातवान्, ज्ञापितः-ज्ञपितः- 53 ज्ञप्तः, जिज्ञपयिषितः- ज्ञीप्सितः, जिज्ञासितः, जाज्ञायितः-तवान्
54 ज्ञः, 55 अज्ञः, 56 पथिप्रज्ञः, 57 58 प्राज्ञः, 59 अभिज्ञः, 60 नयज्ञः, 61 62 63 मनसाऽऽज्ञायी, 64 नीतिज्ञः, ज्ञापः-ज्ञपः, जिज्ञपयिषुः-ज्ञीप्सुः, जिज्ञासुः, 65 जिज्ञापयिषुः, 66 जाज्ञः
ज्ञातव्यम्, ज्ञापयितव्यम्-ज्ञपयितव्यम्, जिज्ञपयिषितव्यम्-ज्ञीप्सितव्यम्, जिज्ञासितव्यम्, जाज्ञायितव्यम्
ज्ञानीयम्, ज्ञापनीयम्-ज्ञपनीयम्, जिज्ञपयिषणीयम्-ज्ञीप्सनीयम्, जिज्ञासनीयम्, जाज्ञानीयम्
ज्ञेयम्, ज्ञाप्यम्-ज्ञप्यम्, जिज्ञपयिष्यम्-जीप्स्यम्, जिज्ञास्यम्, जाज्ञाय्यम्
67 ईषज्ञानः-दुर्ज्ञानः-सुज्ञानः
-- -- -- ज्ञायमानः, ज्ञाप्यमानः-ज्ञप्यमानः, जिज्ञपयिष्यमाणः-ज्ञीप्स्यमानः, जिज्ञास्यमानः, जाज्ञाय्यमानः
ज्ञायः, ज्ञापः-ज्ञपः, जिज्ञपयिषः-ज्ञीप्सः, जिज्ञासः, जाज्ञायः
ज्ञातुम्, ज्ञापयितुम्-ज्ञपयितुम्, जिज्ञपयिषितुम्-ज्ञीप्सितुम्, जिज्ञासितुम्, जाज्ञायितुम्
68 ज्ञातिः, 69 आज्ञा, 70 अनुज्ञा, 71 उपज्ञा, 72 उपज्ञम्, संज्ञा, प्रज्ञा, 73 74 आज्ञापना-ज्ञपना, जिज्ञपयिषा-ज्ञीप्सा, जिज्ञासा, जाज्ञा
ज्ञानम्, ज्ञापनम्-ज्ञपनम्, जिज्ञपयिषणम्-ज्ञीप्सनम्, जिज्ञासनम्, जाज्ञायनम्
ज्ञात्वा, ज्ञापयित्वा-ज्ञपयित्वा, जिज्ञपयिषित्वा-ज्ञीप्सित्वा, जिज्ञासित्वा, जाज्ञायित्वा
विज्ञाय, अनुज्ञाप्य- 75 अनुज्ञपय्य, प्रजिज्ञपयिष्य-प्रज्ञीप्स्य, प्रजिज्ञास्य, प्रजाज्ञाय्य
ज्ञायम् २, ज्ञात्वा २, ज्ञापम् २- 76 ज्ञपम् २- ज्ञापम् २, ज्ञापयित्वा २- ज्ञपयित्वा २, जिज्ञपयिषम् २, जिज्ञपयिषित्वा २, ज्ञीप्सम् २, ज्ञीप्सित्वा २, जिज्ञासम् २, जिज्ञासित्वा २, जाज्ञायम्
जाज्ञायित्वा २।
प्रासङ्गिक्यः
01
=>
(६२५)
02
=>
(९-क्र्यादिः-१५०७। सक। अनि। पर। मित्।)
03
=>
[चौ]
04
=>
[ज्ञप मिद् इति]
05
=>
(१-३-७४)
06
=>
(श्लो। ८)
07
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति ण्वुलि परतो युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
08
=>
[[२। मारणाद्यर्थस्याप्रतीत्या, अत्र मित्त्वं
\n\n अतः, उपधाह्रस्वो न। एवं सर्वत्र ण्यन्ते मारणाद्यर्थाप्रतीतौ ज्ञेयम्।]]
09
=>
[[३। घटादौ ‘मारणतोषणनिशामनेषु ज्ञा’ (ग। सू। भ्वादौ) इति जानातेः मित्संज्ञायाम्, आदन्तलक्षणे पुगागमे उपधाह्रस्वे रूपमेवम्। एवं ण्यन्ते ह्रस्वघटितरूपस्योपपत्तिः सर्वत्र ज्ञेया।]]
10
=>
[[४। अस्य धातोर्ण्यन्तात् सनि रूपाणि प्रदर्शितानि। तत्र हेतुस्तु--‘सनीवन्तर्धभ्रस्ज- दम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति सूत्रेण ण्यन्तात् परस्य सन इड्- विकल्प एव। इट्पक्षे जिज्ञपयिषकः इति रूपम्। एवं इट्पक्षे सर्वत्र ण्यन्तात् सनि रूपं ज्ञेयम्। इडभावपक्षे, ‘आप्ज्ञपृधामीत्’ (७-४-५५) इतीत्त्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे रूपम्--ज्ञीप्सकः इत्यादि। एवं ण्यन्तात् सनि इडभावपक्षे रूपं ज्ञेयम्।]]
11
=>
[[५। द्वित्वे, अभ्यासस्य, ‘सन्यतः’ (७-४-७९) इतीत्वे रूपम्। एवं सन्नन्ते सर्वत्र रूपं ज्ञेयम्।]]
12
=>
[[६। द्वित्वे, अभ्यासस्य, ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
13
=>
[पृष्ठम्०५९२+ ३१]
14
=>
[[१। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। “ज्ञाजनोर्जा (७-३-७९) इति जादेशे, ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे नुमि रूपम्। अस्य प्वादित्वेऽपि ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वो न, ‘जा’ इति दीर्घादेशविधानसामर्थ्यात्। एवं जानानः इत्यत्रापि प्रक्रिया ज्ञेया।]]
15
=>
[[आ। ‘जानन् अनादिविहितानपराधवर्गान् स्वामिन् भयात् किमपि वक्तुमहं शक्तः।’ वग्दराजपञ्चाशति ३।]]
16
=>
[मातुः]
17
=>
[[२। ‘संप्रतिभ्यामनाध्याने’ (१-३-४६) इत्यत्र ‘अनाध्याने’ इत्युक्तत्वात्, प्रकृते शानज् न। आध्यानम् = उत्कण्ठापूर्वकं स्मरणम्।]]
18
=>
[पितुः]
19
=>
[स्वां गां]
20
=>
[[३। ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इत्यत्र शानचो विकल्पितत्वात्, पक्षे शता भवति।]]
21
=>
[पुत्रं]
22
=>
[[४। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति विहितस्य शानचोऽनुपूर्वके सन्नन्ते ‘नानोर्ज्ञः’ (१-३-५८) इति निषेधात् शता भवति।]]
23
=>
[[B। ‘अनुजिज्ञासतेवाथ लङ्कादर्शनमिन्दुना।’ भ। का। ८। ३५।]]
24
=>
[पुत्रं]
25
=>
[शतं]
26
=>
[[५। ‘अपह्नवे ज्ञः’ (१-३-४४) इति जानातेः शानच्। शतं अपलपत इत्यर्थः।]]
27
=>
[[C। ‘आत्मानमपजानानः शशमात्रोऽनयद् दिनम्। ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः।।’ भ। का। ८। २६।]]
28
=>
[सर्पिषो]
29
=>
[[६। ‘अकर्मकाच्च’ (१-३-४५) इत्यात्मनेपदं शानच्। सर्पिषोपायेन प्रवर्तत इत्यर्थः। ‘ज्ञोऽविदर्थस्य करणे’ (२-३-५१) इति सूत्रेण, करणस्य शेषत्वेन विवक्षितत्वे षष्ठी।]]
30
=>
[शतं]
31
=>
[[७। ‘संप्रतिभ्यामनाध्याने’ (१-३-४६) इति शानच्। शतम् अपेक्षमाणः, सहस्रम् अङ्गीकुर्वाणः इति क्रमेणार्थः।]]
32
=>
[सहस्रं]
33
=>
[गां]
34
=>
[[८। ‘अनुपसर्गाज्ज्ञः’ (१-३-७६) इति कर्त्रभिप्राये शानच्। उपसर्गसमभिव्याहारे तु प्रतिजानन् इत्येव भवति।]]
35
=>
[स्वां गां]
36
=>
[[९। ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इति शानज्विकल्पः।]]
37
=>
[धर्मं]
38
=>
[[१०। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तात् शानच्।]]
39
=>
[[ड्। ‘प्रेम जिज्ञासमानाभ्यः ताभ्योऽशप्सत कामिनः।।’ भ। का। ८। ३३।]]
40
=>
[शतं]
41
=>
[पृष्ठम्०५९३+ २६]
42
=>
[[१। अत्र सर्वत्र ‘पूर्ववत् सनः’ (१-३-६२) इत्यात्मनेपदं, शानच्।]]
43
=>
[सर्पिषो]
44
=>
[शतं]
45
=>
[सहस्रं]
46
=>
[औषधस्य]
47
=>
[[२। ‘मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्’ (परिभाषा ६२) इति न्यायेन ‘नानोर्ज्ञः’ (१-३-५८) इति निषेधः, ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इत्यस्यैव बाधकः, तु ‘पूर्ववत् सनः’ (१-३-६२) इत्यस्य
\n\n तेन ‘पूर्ववत्--’ (१-३-६२) इति शानच् भवति।]]
48
=>
[[३। ‘अपह्नवे ज्ञः’ (१-३-४४) इति शानच्। एवं पूर्वोक्तेषु सर्वेष्वप्युदाहरणेषु स्यप्रत्यये शानजन्तानि रूपाणि स्वयमूह्यानि।]]
49
=>
[शतं]
50
=>
[शतं]
51
=>
[[४। क्विपि, रुत्वविसर्गौ भवतः। आकारान्तोऽयं शब्दः।]]
52
=>
[[आ। ‘न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते।’ किरातार्जुनीये ११। ४२।]]
53
=>
[[५। ‘वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ (७-२-२७) इति ण्यन्तात् निष्ठायां मित्त्वपक्षे इडभावो विकल्पेन निपातितः। तेन रूपद्वयं बोध्यम्।]]
54
=>
[[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। आदन्तलक्षणण- प्रत्ययस्यापवादः।]]
55
=>
[[B। ‘व्रीताशबृंहितजुषाभ्रिणता गजेन प्रक्षेतुमज्ञमनसा समनुद्रुतेन।’ धा। का। ३। ९।]]
56
=>
[[७। प्रकर्षेण पन्थानं जानातीति पथिप्रज्ञः। ‘प्रे दाज्ञः’ (३-२-६) इति कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इति आकारलोपः।]]
57
=>
[[C। ‘विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः।’ भ। का। ६। ९०।]]
58
=>
[[८। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कप्रत्ययः। आकारलोपः। प्रकर्षेण = समन्तात् जानातीति प्राज्ञः = पण्डितः।]]
59
=>
[[ड्। ‘इन्द्रजिद्विक्रमाभिज्ञो मन्वानो वानरं जितम्।।’ भ। का। ९। ५२।]]
60
=>
[[९। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मोपपदे कर्तरि कप्रत्ययः। आकारलोपः।]]
61
=>
[[E। ‘इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम्।’ किरातार्जुनीये १६। ६३।]]
62
=>
[पृष्ठम्०५९४+ २१]
63
=>
[[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिः। ‘मनसः संज्ञा- याम्’ (६-३-४) इति स्थिते, ‘आज्ञायिनि च’ (६-३-५) इति तृतीयाया अलुक्।]]
64
=>
[[आ। ‘नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः। ब्रह्मज्ञा अपि सुलभाः स्वाज्ञानज्ञानिनो विरलाः।।’ नी। दीक्षितस्य वैरारयशतके २७।]]
65
=>
[[B। ‘स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्।’ भ। का। ९। ३७।]]
66
=>
[[२। यङन्तात् पचाद्यचि यङवयवस्याकारस्यातो लोपे, यङोऽवशिष्टस्य लुकि, अल्लोपस्य स्थानिवद्भावादाकारलोपे रूपम्।]]
67
=>
[[३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
68
=>
[[४। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तिच्।]]
69
=>
[[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
70
=>
[[C। ‘तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाज्ञया।’ भ। का। ६। १४५।]]
71
=>
[[६। उपज्ञायते इत्युपज्ञा। कर्मण्यङ्। ‘पाणिन्युपज्ञं व्याकरणम्’ इत्यत्र पाणिनिकर्तृकप्राथमिकज्ञानविषयो व्याकरणमित्यर्थः। ‘उपज्ञोपक्रमं तदाद्या- चिख्यासायाम्’ (२-४-२१) इति नपुंसकत्वम्।]]
72
=>
[[ड्। ‘अथ प्राचेतसोपज्ञं रामायणमितस्ततः।’ रघुवंशे १५। ६३।]]
73
=>
[पृष्ठम्०५९५+ २३]
74
=>
[[आ। ‘आज्ञापनामिह विभाज्य नृपेण दृष्टौ तौ शर्धनाय समयातयतां नियुद्धम्।।’ धा। का। ३। ४०।]]
75
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति मित्पक्षे ण्यन्ताल्ल्यपि णेरयादेशः।]]
76
=>
[[२। मित्त्वपक्षे ण्यन्ताण्णमुलि ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घ- विकल्पः।]]