| YouTube Channel

अजैकपाद (ajaikapAda)

 
शब्दसागरः
English
अजैकपाद
m.
(-दः) One of the eleven Rudras or deities so named, forms
of SIVA. Sometimes read अज एकपाद.
E.
अज SIVA, एक one, and पाद
a quarter a part.
Yates
English
अजैकपाद (दः) 1.
m.
One of the
eleven Rudras or forms of Shiva.
Wilson
English
अजैकपाद
m.
(-दः) One of the eleven Rudras or deities so named,
forms of ŚIVA. Sometimes read अज एकपाद.
E.
अज ŚIVA, एक one, and
पाद a quarter, a part.
शब्दकल्पद्रुमः
Sanskrit
अजैकपादः,
पुं,
(अजस्य छागस्य एकः पाद इव पादो-यस्य सः विकंल्पे अलोपः) रुद्रविशेषः इतिजटाधरः
छन्दोऽनुरोधादसन्धिरपि विष्णुपुराणेचन्द्रकलापप्रस्तावे अजएकपादिति
(यथाभारते --“अजैकपादहिव्रध्नो विरूपाक्षः सुरेश्वरः ।जयन्तो बहुरूपश्च त्र्यम्बकोऽप्यपराजितः ।वैवस्वतश्च सावित्रोहरोरुद्रा इमे स्मृताः”)
वाचस्पत्यम्
Sanskrit
अजैकपाद(द्)
पु०
अजस्य छागस्य एकः पाद इव पादोयस्य उपमा० ब० पादस्यन्त्याकारलोपः रुद्रविशेषे, तद्देवताके पूर्व्वभाद्रपदनक्षत्रे पाच्छब्देन समासेअजैकपादपि तत्रार्थे “वीरभद्रश्च शम्भुश्च गिरीशश्च ३महायशाः “अजैकपाद (४) हिर्बुध्नः पिनाकी ७चापराजितः भुवनाधीश्वरश्चैव कपाली ९विशाम्पते! स्थाणु १० र्भर्गश्च ११ भगवान् रुद्रास्त्वेका-दश स्मृता” इत्युक्तेषु एकादशसु रुद्रेषु मध्ये चतुर्थे रुद्रे ।अन्यत्र तु अजैकपादर्हिर्बुध्ना विरूपाक्षश्च रेवतः ।हरश्च बहुरूपश्च ७! त्र्यम्बकश्च सुरेश्वरः रुद्राएकादश प्रोक्ता जयन्त १० श्चापराजितः ११ इत्येवंतद्भेदाः एतेषामेव ध्यानानि वक्ष्यन्ते तेन अजइति नामान्तरं एकपादिति नामान्तरमिति द्रष्टव्यम् ।“तेन अजनामा महारुद्रम्” इत्यादि अजस्य ध्यानम् ।“एकपादाभिधो विप्रेत्यादि” एकपादस्य ध्यानमिति वक्ष्यते