| YouTube Channel

अजुगुप्सितः (ajugupsitaH)

 
E Bharati Sampat
Sanskrit
(वि) जुगुप्सितः न+गुप्+सन्+क्तः। अनिन्दितः। ‘उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् गन्धमाल्यैः सुरभिरर्चयेत्’ मनुः ३.२०९।
शब्दकल्पद्रुमः
Sanskrit
अजुगुप्सितः, त्रि, (गुप् + सन् + क्त जुगुप्सितनञ् समासः) अनिन्दितः यथा, --“उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् ।गन्धमाल्यैः सुरभिभिरर्च्चयेद्देवपूर्व्वकं”
इति मानवे अध्याये २०९ श्लोकः