| YouTube Channel

अजिह्मगः (ajihmagaH)

 
Apte Hindi
Hindi
अजिह्मगः
पुं*
अजिह्म-गः -
तीर
E Bharati Sampat
Sanskrit
(पुं) अजिह्मं गच्छति अजिह्म+गम्लृ(गतौ)+डः। ‘अन्यत्रापि दृश्यते०’ वा०३.२.४८। १.बाणः। ‘बाणविशिखा अजिह्मगखगाशुगाः’ अमरः। ‘ते तस्य कायं निर्भिद्य रक्तपुङ्खा अजिह्मगाः’ रामा०। (वि) २.ऋजुगामी, सरलगामी ‘व्रजेद्दिशमजिह्मगः’ मनुः ६.३१।
शब्दकल्पद्रुमः
Sanskrit
अजिह्मगः,
पुं,
(अजिह्मं सरलं गच्छति यः अजिह्म+ गम् + डः उपपदसमासः) बाणः इत्यमरः
अवक्रगे वाच्यलिङ्गः
(यथा रामायणे, --“ते तस्य कायं निर्भिद्य रक्तपुङ्खा अजिह्मगाः ।निष्पेतुर्लोहितादिग्धा रक्ता इव महोरगाः
ह्यबिद्धं तयोर्गात्रे बभूवांगुलमन्तरं ।नानिर्भिन्नं चाध्वस्तमपि सूक्ष्ममजिह्मगैः”
)