| YouTube Channel

अजानेयः (ajAneyaH)

 
E Bharati Sampat
Sanskrit
(पुं) अजवत् शिववृषवत् आनेय: यथास्थानं प्रापणीय: आरोही येन अज+आ+नी+यत्(कर्तरि) ‘कृत्यल्युटो बहुलम्’ ३.३.११३। १.शत्रुप्रहारादिविरोधेऽपि निर्भयेन यथास्थनम् आरोहिण: प्रापक: अश्व:
उत्तमाश्व:। (वि) २.निर्भय:। ‘अजानेयस्तु निर्भयः’ त्रिका०।
शब्दकल्पद्रुमः
Sanskrit
अजानेयः,
पुं,
(अजवत् शिववृषवत् यथास्थानमारो-हिणं नयति प्रापयति + नी + कृत्यल्युटोबहुलमिति सूत्रेण कर्त्तरि यत् अजश्छागेहरिब्रह्मधातुस्मरहरे वृषे इति मेदिनी) उत्तम-घोटकः तत्पर्य्यायः हयोत्तमः वाताश्व-जात्यः इति त्रिकाण्डशेषः
अजानेयः ४कुलीनः इत्यमरः
निर्भये त्रि इति त्रि-काण्डशेषः