| YouTube Channel

अजातशत्रुः (ajAtazatruH)

 
Apte Hindi
Hindi
अजातशत्रुः
पुं*
अजात-शत्रुः -
"युधिष्ठिर' की उपाधियाँ, शिव तथा दूसरे अनेक देवताओं की उपाधि "
E Bharati Sampat
Sanskrit
(पुं) जातः शत्रुः यस्य १.युधिष्ष्ठिरः, धर्मराजः। ‘अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः’ हैमः। ‘न द्वेक्षि यज्जन्मतः त्वमजातशत्रुः’ वेणी ३.१३। २.शमीकपुत्रः शिवः। ‘अजातशत्रु: शत्रूणां जज्ञे तस्य विनाशन:’ हरिवंश:।३.बिम्बसारपुत्र:, शाक्यमुनिसमकालीन:।
Wordnet
Sanskrit
Synonyms:
अजातशत्रुः
noun
मगधराज्यस्य राज्ञः बिम्बसारस्य पुत्रः।
"अजातशत्रुः गौतमबुद्धस्य समकालीनः।"
Synonyms:
युधिष्ठिरः, अजातशत्रुः, शल्यारिः, धर्मपुत्रः, अजमीढः
noun
पाण्डवेषु ज्येष्ठतमः कुन्तेः धर्माद् जातः पुत्रः च।
"विक्रान्तः सत्यवाक् एव राजा पृथिव्याम् भविष्यति। युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः॥"
शब्दकल्पद्रुमः
Sanskrit
अजातशत्रुः,
पुं,
(अजातः सर्व्वप्रियत्वात् अनुत्पन्नःशत्रुर्यस्य सः) राजा युधिष्ठिरः इति हेमचन्द्रः
(यथा महाभारते, --“अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्” ।)(शिवः काशीपुत्त्रः शमीकपुत्त्रः ।) (यथा हरिवंशे, “श्यामपुत्त्रः शमीकस्तु शमीको राज्यमावहत् ।जुगुप्समानो भोजत्वाद्राजसूयमवाप सः ।अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः”
)(विम्बिसारपुत्त्रः शाक्यमुनिसमकालोनः
)