| YouTube Channel

अजस्रः (ajasraH)

 
E Bharati Sampat
Sanskrit
जस्यति न+जसु(मोक्षणे)+रः। ‘नमिकम्पिस्म्यजस० रः’ ३.२.१६७। १.सततः, अनवरतः। ‘नित्यानवरताजस्रम्’ अमरः। ‘अजस्रदीक्षाप्रयतस्य मद्गुरोः’ रघुः ३.४४। (अ) अनवरतम्, अविच्छिन्नतया ‘पश्चात् पुच्छं वहति विपुलं तच्च धूनोत्यजस्रम्’ उ०रा०४.२६।