| YouTube Channel

अजपा (ajapA)

 
Yates
English
अ-जपा (पा) 1.
f.
A mantra
an
image half male and half female.
Monier Williams Cologne
English
अ-जपा
f.
the mantra or formula called haṃsa (which consists only of a number of inhalations and exhalations).
Hindi
Hindi
अनैच्छिक पुनरावृत्ति (एक मंत्र के रूप में के साथ)
Shabdartha Kaustubha
Kannada
अजपा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > “ಹಂಸ”ವೆಂಬ ಮಂತ್ರ
निष्पत्तिः - > जप (मानसे व्यक्तायां वाचि) + णिच् “अच्”
व्युत्पत्तिः - > प्रयत्नेन जप्या
विस्तारः - > (ಪ್ರಯತ್ನವಿಲ್ಲದೆ ಉಚ್ಚರಿಸಬಹುದಾದ ಮಂತ್ರ.)
E Bharati Sampat
Sanskrit
(स्त्री) प्रयत्नेन जप्या नञ्+जप(मानसे व्यक्तायां वाचि)+णिच्+अच् स्वाभाविकनि:श्वासप्रश्वासरूपेण जीवजप्य: सोऽहमित्याकारकः हंसमन्त्र:। ‘वियदर्धेन्दुललितस्तदादिसर्गसंयुतः। अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः। अच्छासैरेव निश्वासैर्हंस इत्यक्षरद्वयम् तस्मात् प्राणाश्च हंसाख्यः आत्माकारेण संस्थितः।। जपति प्रत्यदप्राणी सान्द्रानन्दमयीं पराम् विना जपेन दैवेशि जपो भवति
Wordnet
Sanskrit
Synonyms:
अजपा
noun
जप्यते उच्चार्यते असौ, अपितु श्वासप्रश्वासयोः गमनागमनाभ्यां सम्पाद्यते।
"मनसि एव ध्यानं क्रियते अजपायाः।"
शब्दकल्पद्रुमः
Sanskrit
अजपा,
स्त्री,
(न जप्यते नोच्चार्य्यतेऽसौ अपितु श्वास-प्रश्वासयोर्गमनागमनागमनाभ्यां सम्पाद्यते जप् + घ-ञर्थे कः स्त्रियां टाप् नजपा नञ्समासः ।)हंसमन्त्रः यथा, --“वियदर्द्धेन्दुललितस्तदादिसर्गसंयुतः ।अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः”
*
अस्य देवतार्द्धनारीश्वरमूर्त्तिः यथा, --“उद्यद्भानुस्फुरिततडिंदाकारमूर्द्ध्वाम्बिकेशंपाशाभीतिं वरदपरशुं संदधानं कराब्जैः ।दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलंसौम्याग्नेयं वपुरवतु नश्चन्द्रचूडं त्रिनेत्रं”
इति तन्त्रसारः
*
स्वाभाविकनिःश्वासप्र-श्वासरूपेण जीवजप्यहंसमन्त्रः ।तथाच दक्षिणामूर्त्तिसंहितायां ।“अथ वक्ष्ये महेशानि प्रत्यहं प्रजपेन्नरः ।मोहबन्धं जानाति मोक्षस्तस्य विद्यते
श्रीगुरोः कृपया देवि ज्ञायते जप्यते यदा ।उच्छ्वासनिःश्वासतया तदा बन्धक्षयो भवेत्
उच्छ्वासैरेव निःश्वासैर्हंस इत्यक्षरद्वयं ।तस्मात् प्राणस्य हंसाख्य आत्माकारेण संस्थितः
नाभेरुच्छ्वासनिःश्वासात् हृदयाग्रे व्यवस्थितः ।षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका मता
षष्टिनाड्या ह्यहोरात्रं जपसंख्याक्रमो मतः ।एकविंशतिसाहस्रं षट्शताधिकमीश्वरि
जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं परां ।उत्पत्तिर्जपमारम्भो मृत्युस्तत्र निवेदनं
विना जपेन देवेशि जपो भवति मन्त्रिणः ।अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी”
अन्यत्रापि ।“षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिं ।एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्व्वदा”
*
सन्ध्यावन्दनहीना इति महाभारतं
वाचस्पत्यम्
Sanskrit
अजपा स्त्री प्रयत्नेन जप्या अप्रयत्नोच्चारितत्वात् जप-कर्म्मणि अच् श्वासप्रश्वासयोः वहिर्गमनागमनाभ्याम्अक्षरनिष्पादनरूपेजपे, हंसः, सोहमित्याकारस्यैव, तदाकारमन्त्रे “उच्छ्वासैरेव निश्वासैर्हंस इत्यक्षरद्वयम्तस्मात् प्राणश्च हंसाख्य आत्माकारेण संस्थितः नाभे-रुच्छ्वस्य निश्वासात् हृदयाग्रे व्यवस्थितः षष्टिश्वासैर्भवेत् प्राणः षट् प्राणानाडिका मता षष्टिर्नाड्यस्त्वहोरा-त्रम् जपसंख्याक्रमोमतः एकविंशतिसाहस्रं षट्शता-धिकमीश्वरि! जपति प्रत्यहं प्राणी सान्द्रानन्दमयींपराम् विना जपेन देवेशि! जपो भवति मन्त्रिणः ।अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनीति” तन्त्रम्