| YouTube Channel

अच्छिन्नं (acchinnaM)

 
शब्दकल्पद्रुमः
Sanskrit
अच्छिन्नं, त्रि, (छिद + कर्म्मणि क्तः छिन्नं नञ्-समासः) छेदरहितं अकर्त्तितं यथा गर्गः, --“श्रुत्वा पुत्त्रस्य वै जन्म कृत्वा वेदोदिताः क्रियाः ।अच्छिन्ननालं पश्येत्तं दत्त्वा रुक्मं फलान्वितं”
इति शुद्धितत्त्वं
अपि शङ्खः ।“अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।हेतुनिष्ठश्च पञ्चैते तीर्थफलभागिनः”
अच्छिन्नसंशयः फलोपायेतिकर्त्तव्यतासु निश्चय-शून्यः इति प्रायश्चित्ततत्त्वं