| YouTube Channel

अच्छिद्रावधारणं (acchidrAvadhAraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
अच्छिद्रावधारणं,
क्ली,
(अच्छिद्रस्य दोषरहित-कर्म्मणः अवधारणं निश्चयः) दोषरहितकर्म्म-निश्चयः तज्ज्ञापकवाक्यं यथा, --ततः कर्म्ममात्रप्राप्ताच्छिद्रावधारणं कुर्य्यात् ।तथाच शातातपपराशरौ --“अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समं”
इति श्राद्धतत्त्वं
अपि वशिष्ठः ।“ततः शान्तिं प्रकुर्व्वीत अवधारणवाचनं” ।अवधारणं अच्छिद्रावधारणं इति तिथ्यादि-तत्त्वं
तद्वाक्यं यथा, -- अद्यामुके मासि अमुक-पक्षे अमुकतिथौ मत्कृतैतदमुककर्म्माच्छिद्रमस्तु