| YouTube Channel

अच्छावाकीयम् (acchAvAkIyam)

 
E Bharati Sampat
Sanskrit
(न) अच्छावाकस्य ऋत्विग्भेदस्य भावः कर्म वा अच्छावाक+छः। ‘होत्राभ्यश्छः’ ५.१.१३५। १.शंसनपरम् अच्छावाककर्म (वि) अच्छावाकशब्दः अस्मिन् अस्ति मत्वर्थे छः। ‘मतौ छः सूक्तशास्त्रयोः’ ५.२.५९। २.अच्छावाकशब्दयुक्तं सूक्तम् ‘अच्छावाकं वदस्व०’ इत्यादि