| YouTube Channel

अच्छावाकसामन् (acchAvAkasAman)

 
वाचस्पत्यम्
Sanskrit
अच्छावाकसामन्
न०
अच्छावाकेन गेयं साम “य एक इद्वि-दयत इति तृचे गेये सामभेदे एतस्यैव नामान्तरमुद्वंशीयमिति” “त्रैककुभं चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये इति”ताण्ड्य० ब्रा० “त्रैककुभं ब्रह्मसाम भवति, उद्वंशीय-मच्छावाकसामेति, “य एक इद्विदयते इति” तृचे गेयंसाम उद्वंशीयमेते सामनी इति” तद्भाष्यम्