| YouTube Channel

अच (aca)

 
शब्दसागरः
English
अच r. 1st. cl. (उ) or (ञै) (अचति) (अञ्चति) (अञ्चते) 1. To go. to, go to or
towards.
2. To worship.
3. To speak indistinctly. See अञ्च.
Wilson
English
अच r. 1st cl. (उ) or (ञ-इ) (अचति) (अंचति अंचते)
1 To go, to go to or towards.
2 To worship.
3 To speak indistinctly. See अञ्च.
शब्दकल्पद्रुमः
Sanskrit
अच पूजायां इति कविकल्पद्रुमः
अ-ञ्चते अञ्चु गतिपूजनयोरिति पूजार्थो यः सएवायं इदित् पाठः पूजायां नलोपाभावात् ।उदनुबन्धाभावश्च क्षुधवसपजार्थाञ्चेत्यादिना क्त्वा-प्रत्ययस्य निष्ठायाश्च नित्येम्बिधानात् इति दुर्गा-दासः
अच गतौ म्लिष्टोक्तौ इति कविकल्प-द्रुमः
अञ्च्यते अञ्चति अञ्चते इतिदुर्गादासः
अच गतौ म्लिष्टोक्तौ इति कविकल्प-द्रुमः
अचति अचते अचित्वा (उदितोवा इतीडभावपक्षे) अक्त्वा म्लिष्टोक्तिरव्यक्त-शब्दः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
अच अविस्पष्टकथने गतौ उभय० भ्वादि०
सक०
सेट् क्त्वावेट् अचति ते आचीत् आचिष्ट क्त अक्तः क्त्वाअचित्वा--अक्त्वा “स्वाहायज्ञमित्यङ्गुली अचते” इतिकात्या० “अचतेसङ्कोचयति” इति वेददीपः
अच(अन्चु) गतौ पूजायाञ्च प०
सक०
सेट् तत्र अचइदित् ञीदिच्च (अन्चु) अव्यक्तशब्दे अञ्चति आञ्चीत्अन्चु--गतौ अच्यात् पूजायामञ्च्यात् क्त अक्तःपूजायामुभयोः अञ्चितः अचि--वर्त्तमाने क्त अञ्चितः ।अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा “अयमञ्चतिपञ्चशरानुचर” इति सा० टी० प्र + प्रकर्षे पूर्व्वदिक्-कालवृत्तौ प्राञ्चति प्राङ्(पूर्व्वकालः) प्राची (पूर्व्वा दिक्)परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, बहिर्भावे चपराञ्चति (परागच्छति) पराङ् (बाह्यः) अप +अपसरणे अपाञ्चति सम् + सुन्दरगमने, यथोचित-गमने समञ्चति सम्यङ् अनु + पश्चाद्गतौ अन्व-ञ्चति अन्वङ् उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ चउदञ्चति (उद्गच्छति) “उदञ्चद्रोमाञ्चमिति” उदङ् देशःउदीची (उत्तरा दिक्) परि + समन्ताद्गतौ पर्य्यञ्चति ।प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे प्रत्यञ्चति(प्रतीपं गच्छति) प्रत्यङ्, प्रतीची (पश्चिमा दिक्) आत्मनिव्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषय-व्यापकत्वात् प्रत्यक्त्वम् नि + न्यूनीभावे न्यञ्चति न्यङ्न्यग्भावः न्यक्कारः अव + अधोगतौ, दक्षिणदिग्वृत्तौच अवाञ्चति अवाङ् (अधोमुखः) अवाची (दक्षिणा दिक्)यथा उत्तरदक्षिणयोः ऊर्द्धाधोभावस्तया अवाक्शब्देवक्ष्यते
अच गतौ पूजायाम् इदित्
उभ०
सक०
सेट् क्त्वा वेट् ।अञ्चति ते आञ्चीत् आञ्चिष्ट क्त्वा अङ्क्त्वा--अञ्चित्वा ।उपसर्गात् अन्चुवत् “न्यञ्चते प्रत्यहं मोहो यस्मान्न्यञ्चन्तिचारय” इति कविर०