| YouTube Channel

अङ्गुलिमोटनं (aGgulimoTanaM)

 
शब्दकल्पद्रुमः
Sanskrit
अङ्गुलिमोटनं,
क्ली,
(अङ्गुल्योर्म्मोटनं मर्द्दनं यस्मिन्तत् बहुव्रीहिः) अङ्गुलिद्वयमर्द्दनजातशब्दः आ-ङ्गुलमट्कान इति भाषा तत्पर्य्यायः पुच्छटी ।इति त्रिकाण्डशेषः
स्वच्छटी अङ्गुलिसन्देशः ।इति हारावली
मुचुटी इति जटाधरः
मुचुटीतु मुष्टिपर्य्याये हेमचन्द्रेण लिखिता