| YouTube Channel

अङ्गारतैलं (aGgAratailaM)

 
शब्दकल्पद्रुमः
Sanskrit
अङ्गारतैलं,
क्ली,
(अङ्गारेण पक्वं तैलं शाकपार्थि-वादित्वात् समासः मध्यपदलोपश्च) स्वनाम-ख्यातपक्वतैलं तस्य पाकप्रकारो गुणश्च ।यथा, --“मूर्व्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी ।वृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी
आरनालाढकेनैव तैलप्रस्थं विपाचयेत् ।तैलमङ्गारकं नाम सर्व्वज्वरविमोक्षणं”
इति सुखबोधः