| YouTube Channel

अङ्गाधिप: (aGgAdhipa:)

 
शब्दसागरः
English
अङ्गाधिप
m.
(-पः) A name of KARNĀ, king of Anga. See कर्ण
E.
अङ्ग the
country, अधिप a ruler.
Yates
English
अङ्गा_धिप (पः) 1.
m.
Name of Karna.
Wilson
English
अङ्गाधिप
m.
(-पः) A name of KARṆA, king of Aṅga. See कर्ण.
E.
अङ्ग the country, अधिप a ruler.
Monier Williams Cologne
English
अङ्गाधिप
m.
Karṇa, the king of Aṅga.
Goldstucker
English
अङ्गाधिप Tatpur. m. (-पः) A name of Karṇa, king of Anga.
See कर्ण. E. अङ्ग (the country) and अधिप.
Shabdartha Kaustubha
Kannada
अङ्गाधिप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಂಗದೇಶದ ದೊರೆ / ಕರ್ಣ
अङ्गाधिप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಲಗ್ನಾಧಿಪತಿ
प्रयोगाः - > “अङ्गाधिपे बलिनि सर्वविभूतिसम्पत्”
L R Vaidya
English
aMga-aDipa {% m. %} See अंगराज.
E Bharati Sampat
Sanskrit
(पुं) अङ्गस्य अधिप:। १.अङ्गदेशाधिप:, कर्ण:। २.लग्नाधिपति:। ‘अङ्गाधिपे बलिनि सर्वविभूतिसम्पत्’ ज्योतिषम्
शब्दकल्पद्रुमः
Sanskrit
अङ्गाधिपः,
पुं,
(अङ्गस्य देशविशेषस्य अधिपः षष्ठी-तत्पुरुषः ।) अङ्गदेशाधिपतिः कर्णः इतिभूरिप्रयोगः
वाचस्पत्यम्
Sanskrit
अङ्गाधिप
पु०
अङ्गस्य देशभेदस्य अधिपः अङ्गदेशाधिपेप्रसिद्धतया कर्णे तस्य तद्राज्यप्राप्तिः भारते आ० ।“यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति तस्मादेषो-ऽङ्गविषये मया राज्येऽभिषिच्यते
वैशम्पायन उवाच ।ततस्तस्मिन् क्षणे कर्णः सलाजकुसुमैर्घटैः काञ्चनैःकाञ्चने पीठे मन्त्रविद्भिर्महारथः अभिषिक्तोऽङ्गराज्येस श्रिया युक्तो महाबल इति सच देशः मगधदेशस्थगिरि-व्रजात् सन्निकृष्टः पूर्व्वस्यां दिशि स्थितः सभापर्व्वणिमगधदेशवर्णने गिरिव्रजमुपवर्ण्य “अङ्गवङ्गादयश्चैव राजानश्चमहाबलाः गौतमाश्रममभ्येत्य रमन्तेस्म पुरार्जुनेति”अङ्गवङ्गनृपाणां सन्निकृष्टत्वमुक्तम् भीमप्राच्यदिग्विजये च“विजित्य युधि कौन्तेयो मागधानभ्ययाद्बली
दण्डञ्चदण्डधारञ्च विजित्य पृथिवीपतीन् तैरेव सहितः सर्व्वै-र्गिरिव्रजमुपाद्रवत् जारासन्धिं सान्त्वयित्वा करे चविनिवेश्य तैरेव सहितः सर्व्वैः कर्णमभ्यद्रवद्बली
कम्पयन्निव महीं बलेन चतुरङ्गिणा युयुधे पाण्डव-श्रेष्ठः कर्णेनामित्रघातिना
कर्णं युधि निर्ज्जित्य वशेकृत्वा भारत ततो विजिग्ये बलवान् राज्ञः पर्व्वत-वासिनः
अथ मोदागिरौ चैव राजानं बलवत्तरम् ।पाण्डवो बाहुवीर्य्येण निजघान महामृधे इति”
एवञ्चगिरिव्रजात् पूर्व्वं मोदागिरेः पश्चात् देशः बृहत्-संहितायान्तु तस्य भारतवर्षे आग्नेय्यां स्थितिरुक्ता यथा“अग्नेय्यां दिशि कोशल कलिङ्गवङ्गोपवङ्गजठराङ्गा” इति ।अङ्गस्य ज्योतिःशास्त्रोक्तलग्नस्य अधिपः लग्नाधिपे
पु०
।“अङ्गाधिपे बलनि सर्व्वविभूतिसम्पदिति” ज्योति०