| YouTube Channel

अङ्गाङ्गिभावः (aGgAGgibhAvaH)

 
E Bharati Sampat
Sanskrit
(पुं) अङ्गस्य अङ्गिनश्च भावः। १.गौणमुख्यभावः। २.उपकार्योपकारकभावः, प्रधानकार्यस्य अङ्गकार्यस्य सम्बन्धः। ‘अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यमन्वयः’ मी०।
वाचस्पत्यम्
Sanskrit
अङ्गाङ्गिभावः
पु०
अङ्गस्य अङ्गिनश्च भावः गौणमु-ख्यभावे उपकार्य्योपकारकभावे यथा दर्शादीन् प्रतिप्रयाजादीनामङ्गत्वं, प्रयाजदींश्च प्रति दर्शादीनामङ्गित्वम् ।“अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यमन्वय” इति मीमा०