| YouTube Channel

अङ्गविधि (aGgavidhi)

 
Apte Hindi
Hindi
अङ्गविधिः
पुं*
अङ्ग-विधिः -
गौण या सहायक अधिनियम जो कि मुख्य नियम का सहकारी है
Shabdartha Kaustubha
Kannada
अङ्गविधि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಧಾನಕಾರ್ಯಕ್ಕೆ ಅಂಗಭೂತವಾದ ಕಾರ್ಯ
व्युत्पत्तिः - > अङ्गस्य प्रधानोपकारिणः विधिः विधानम्
Mahabharata
English
[Aṅgavidhi]
(“the arrangement of the moon's limbs”), i.e. XIII, 110.
वाचस्पत्यम्
Sanskrit
अङ्गविधि
पु०
अङ्गस्य प्रधानोपकारिणः विधिः विधानम् ।गुणविध्यपरपर्य्याये विधिभेदे तथाहि इष्टसाधनता-कार्य्यत्वादिबोधकवाक्यं विधिः प्रमाणान्तरैर-प्राप्तस्यैव बोधकतयोत्पत्तिविधिः “विधिरत्यन्तमप्राप्तौ”इत्युक्तेः तथा प्रमाणान्तराप्राप्तकर्म्मणि इष्टसाधनता-कार्य्यतादिबोधकं वाक्यं प्राथमिकप्रवृत्तिजनकप्रतीतिजन-कत्वात् उत्पत्तिविधिः यत्र तु प्राप्तस्यैव कर्म्मणो-ऽनुवादेन तस्य द्रव्यदेवतादौ इष्टसाधनतादिकं बोध्यतेसोऽयमङ्गविधिः सच स्वविषये प्राथमिकप्रवृत्तिजनकप्रतीति-जनकत्वात् विधिरेव किन्तु प्रधानविधिविधेयकर्म्मणो-ऽङ्गबोधकतया अङ्गविधिरित्येव विशेषः यथा, अग्निहोत्रंजृहोतीत्युत्पत्तिविधिवाक्येन प्राप्तस्याग्निहोत्रस्य गुण-विधानाय प्रवृत्तं दध्ना जुहोतीति वाक्यं प्राप्ताग्नि-होत्रानुवादेन दधिकरणत्वमात्रं बोधयत् दध्नि इष्टसाधनताबोधनेन तत्र प्रवर्त्तयतीति दध्ना जुहोतीति वाक्यंगुणविधिरङ्गविधिरिति उच्यते एवमन्यान्युदाहा-र्य्याणि तच्चाङ्गं क्वचित् कालः क्वचित् द्रव्यं क्वचित्देवतादि इति नानाविधम् अतएवोक्तं “कार्म्मासन्निहितंनैव बुद्धौ विपरिवर्त्तते शब्दात्तु तदुपस्थानमुपादेये गुणो-भवेदिति” भट्टैः विवृतञ्चैतत् रघुनन्दनेन प्रमाणान्तरा-सन्निहितं कर्म प्रथमं बुद्धौ विषयीभवति प्राथमिकीशब्दादेव तस्य कर्मण उपस्थितिरिति उपादेये विधेयेकर्म्मणि तिथ्यादिर्गुण इति”