| YouTube Channel

अङ्गविद्या (aGgavidyA)

 
Capeller Eng
English
अङ्गविद्या
f.
knowledge of the (lucky and unlucky marks
of the) body.
Monier Williams Cologne
English
अङ्ग—विद्या
f.
knowledge of lucky or unlucky marks on the body, Chiromantia,
Mn.
vi, 50,
&c.
Goldstucker
English
अङ्गविद्या Tatpur. f. (-द्या) Knowledge of lucky and unlucky
marks on the body. E. अङ्ग and विद्या.
Benfey
English
अङ्गविद्या अङ्ग-विद्या,
f.
1. Such
learning as is comprehended under the
title अङ्ग, viz. pronunciation, grammar,
prosody, explanation of obscure terms,
description of religious rites, and as-
tronomy, Daśak. in Chr. 180, 6.
2.
Palmistry, Man. 6, 40.
Apte Hindi
Hindi
अङ्गविद्या
स्त्री*
अङ्ग-विद्या -
ज्ञान के साधनभूत व्याकरण आदि शास्त्र
अङ्गविद्या
स्त्री*
अङ्ग-विद्या -
अंगों की चेष्टा चिन्हों को देखकर शुभाशुभ कहने की विद्या
Shabdartha Kaustubha
Kannada
अङ्गविद्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವೇದಾಂಗಗಳು
विस्तारः - > [ವಿವರಕ್ಕೆ अङ्ग ಪದದಲ್ಲಿ ನೋಡಿ.]
L R Vaidya
English
aMga-vidyA {% f. %} 1. such learning as is comprehended under अंग
2. palmistry.
E Bharati Sampat
Sanskrit
(स्त्री) अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या ज्ञानसाधनम् १.ज्ञानसम्पादकं व्याकरणादिशास्त्रम् २.प्रश्नकाले अङ्गानां देहावयवानां चेष्टादिना शुभाशुभबोधकं ज्योतिषाङ्गं शास्त्रम् ‘वास्तुविद्याङ्गविद्या च’ गर्गः।
वाचस्पत्यम्
Sanskrit
अङ्गविद्या स्त्री अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्याज्ञानसाधनम् ज्ञानसम्पादके व्याकरणादिशास्त्रे ।प्रश्नकाले अङ्गानां देहावयवानां चेष्टादिना शुभाशुभबोधकेज्योतिरङ्गे शास्त्रे सा विद्या बृहत्संहितायां दर्शितायथा “अथाङ्गान्यूर्वोष्ठस्तनवृषणपादं दशना भुजौहस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत् सशङ्खं कक्षांस-श्रवणगुदसन्धीति पुरुषे, स्त्रियां भ्रूनासास्फिग्वलिकटिसु-लेखाङ्गुलिचयम्
जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मंजङ्घे नाभिः कर्णपाली कृकाटी वक्त्रं पृष्ठंजत्रुजान्वस्थिपार्श्वं हृत्ताल्वक्षी मेहनोरस्त्रिकं
नपुंसकाख्यं शिरो ललाटम् आश्वाद्यसंज्ञैर-परैश्चिरेण सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतै-र्भग्नकृतैश्च पूर्वैः
स्पष्टे वा चालिते वापि पादा-ङ्गुष्ठेऽक्षिरुग् भवेत् अङ्गुल्यां दुहितुः शोकं शिरो-धत्ते नृपाद्भयम्
विप्रयोगमुरसि स्वगात्रतः कर्पटाहृतिरनर्थदा भवेत् स्यात्प्रियाप्तिरभिगृह्य कर्पटंपृच्छतश्चरणपादयोजितुः
पादाङ्गुष्ठेन विलिखेद्भूमिंक्षेत्रोत्थचिन्तया हस्तेन पादौ कण्डूयेत्तस्य दासीमयाच सा
तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत्कचतुषास्थिभस्म-गम् व्याधिराश्रयति रज्जुजालकं वल्कलं समवेक्ष्यबन्धनम्
पिप्पलीमरिचशुण्ठिवारिदैर्लोध्रकुष्ठवसनाम्बुजीरकैः गन्धमांसिशतपुष्पया वदेत् पृच्छतस्तगरकेणचिन्तनम् स्त्रीपुरुषदोषपीडितसर्वाध्वसुतार्थधान्यतनया-नाम् द्विचतुःषट्पदक्षितीनां विनाशतः कीर्त्तितैर्दृष्टैः
न्यग्रोधमधूकतिन्दु कजम्बूप्लक्षाम्रबदरिजातिफलैः धनकन-कपुरुषलोहांशुकरूप्योदुम्बराप्तिरपि करगैः
धान्यपरि-पूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरौ गजगोशुनांपुरीषं धनयुवतिसुहृद्विनाशकरम्
पशुहस्तिमहिषपङ्कज-रजतव्याघ्रैर्लभेत सन्दृष्टैः अविधननिवसनमलयजकौशेयाभरणसङ्घातम्
पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिर्विहिता मित्रद्यूतार्थभवा गणिकानृपसूति-कार्थकृता
शाक्योपाध्यायार्हतनिर्ग्रन्थिनिमित्तनिगमकै-वर्तैः चौरचमूपतिबणिजां दासयोधापणस्थबध्यानाम्
तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम् हृद्गतंपृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता
इच्छामि प्रष्टुंभण पश्यत्वार्यः समादिशेत्युक्ते संयोगकुटुम्बोत्था लाभै-श्वर्योद्गता चिन्ता
निर्दिशेति गदिते जयाध्वगा, प्रत्यवेक्ष्य मम चिन्तितं वद आशु सर्वजनमध्यगं त्वयादृश्यतामिति बन्धुचौरजा
अन्तःस्थेऽङ्गे स्वजनउदितो वाह्यजे बाह्य एवं पादाङ्गुष्ठाङ्गलिकलनयादासदासीजनः स्यात् जङ्घे प्रेष्यो भवति भगिनीनाभितो हृत्स्वभार्या पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शनेपुत्रकन्ये
मातरं जठरे, मूर्द्ध्नि गुरुं, दक्षिणवामकौ ।बाहू भ्राताथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत्
अन्तरङ्ग-मवमुच्य वाह्यगस्पर्शनं यदि करोति पृच्छकः श्लेष्ममूत्र-शकृतस्त्यजन्नधः पातयेत्करतलस्थवस्तु चेत्
भृशमवना-मिताङ्गपरिमोटनतोऽप्यथवा, जनधृतरिक्तभाण्डमवलोक्य चचौरजनम् हृतपतितक्षतास्मृतविनष्टविभग्नगतोन्मुषित-मृताद्यनिष्टरवतो लभते हृतम्
निगदितमिदं यत्तत्सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समंरुदितक्षुतैः अवयवमपि स्पृष्टान्तःस्थं दृढं मरुदाहरेद्अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत्
ललाट-स्पर्शनाच्छूकदर्शनाच्छालिजौदनम् उरःस्पर्शात् षष्टि-कान्नं ग्रीवास्पर्शे यावकम्
कुक्षिकुचजठरजानुस्पर्शेमाषाः पयस्तिलयवाग्वः आस्वादयतश्चौष्ठौ लिहतोमधुरं रसं ज्ञेयम्
विस्पृक्के स्फोटयेज्जिह्वामम्ले वक्त्रंविकूणयेत् कटुतिक्तकषायोष्णैर्हिक्केत्, ष्ठीवेच्च सैन्धवे
श्लेष्मत्यागे शुष्कतिक्तं तदल्पं, श्रुत्वा क्रव्यादं प्रेक्ष्य वामांसमिश्रम् भ्रूगण्डौष्ठस्पर्शने शाकुनं तद् भुक्तं तेने-त्युक्तमेतन्निमित्तम्
मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिंच स्पृष्ट्वा गजमहिषमेषशूकरगोशशमृगमांससयुग्भुक्तम्
दृष्टे श्रुतेऽप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम् गर्भिण्या-गर्भस्य निपतनमेवं प्रकल्पयेत्प्रश्ने
पुंस्त्रीनपुंसकाख्येदृष्टेऽनुमिते पुरःस्थिते स्पृष्टे! तज्जन्म भवति पानान्न-पुष्पफलदर्शने शुभम्
अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वास्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात् मध्वाज्याद्यैर्हेमरत्न-प्रवालैरग्रस्थैर्वा मातृधात्न्यात्मजैश्च
गर्भयुता जठरे करगेस्याद् दुष्टनिमित्तवशात्तदुदासः कर्षति तज्जठरं यदिपीठो त्पीडनतः करगे करेऽपि घ्राणाया दक्षिणेद्वारेस्पृष्टे मासोत्तरं वदेत् वामे द्वौ कर्ण एवं मा द्विच-तुर्घ्नः श्रुतिस्तने
वेणीमूले त्रीन् सुतान् कन्यके द्वेकर्णे पुत्रान् पञ्च हस्ते त्रयं अङ्गुष्ठान्ते पञ्चकंचानुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्नेऽपि कन्याम्
सव्या-सव्योरुसंस्पर्शे सूते कन्यासुतद्वयम् स्पृष्टे ललाटमध्यान्तेचतुस्त्रितनयान् वदेत्
शिरोललाटभ्रूकर्णगण्डहनुरदागलम् सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम्
उरः कुचं दक्षिणमप्यसव्यं हृत् पार्श्वमेवं जठरं कटिश्च ।स्फिक् पायुसन्ध्यू रुयुगं जानू जङ्घे पदाविति कृत्ति-कादौ
इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म प्रकटमभि-मताप्त्यै वीक्ष्य शास्त्राणि सम्यक् विपुलमतिरुदारोवेत्ति यः सर्वमेतन्नरपतिजनताभिः पूज्यतेऽसौ सदैव
इति बृहत्संहितायामङ्गविद्या प्रकरणम् “वास्तुविद्या-ङ्गविद्या चेति” गर्गः अङ्गविद्याया व्याख्यानो ग्रन्थःऋगयना० अण् आङ्गविद्यस्तद्व्याख्यानग्रन्थे
कृदन्तरूपमाला
Sanskrit
1 {@“विद ज्ञाने”@} 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
‘-- मतौ’ इति वोपदेवः।
आवेदकः-दिका, वेदकः-दिका, 4 विविदिषकः-षिका, वेविदकः-दिका
वेदिता-त्री, वेदयिता-त्री, विविदिषिता-त्री, वेविदिता-त्री
5 विदन्-ती, 6 विद्वान्-विदुषी, निवेदयन् 7 -न्ती, वेदयः 8, विविदिषन्-न्ती
-- वेदिष्यन्-न्ती-ती, वेदयिष्यन्-न्ती-ती, विविदिषिष्यन्-न्ती-ती
-- 9 संविदानः, वेदयमानः, संविविदिषमाणः, वेविद्यमानः
10 मन्त्रवित्, ब्रह्मवित्, शास्त्रवित्, वेदवित्, 11 अनिर्विदा, लोकवित्-प्रवित्-विदौ-विदः
12 विदितम्-तः-तवान्, वेदितः, विविदिषितः, वेविदितः-तवान्
13 विदः, 14 विन्दुः, 15 विदुरः 16, सार्ववेद्यः, चतुर्वेदः, 17 विविदिवान्-विविद्वान्, चतुर्वेदी, 18 पराशयवेदी, धनुर्वेदी, वैदिकः, वेदः, 19 वैदनः 20 विविदिषुः, वेविदः
आवेदितव्यम्, वेदयितव्यम्, विविदिषितव्यम्, वेविदितव्यम्
आवेदनीयम्, वेदनीयम्, विविदिषणीयम्, वेविदनीयम्
वेद्यम्, त्रैविद्यः, वेद्यम्, विविदिष्यम्, वेविद्यम्
वेद्यमानः, वेदयमानः, विविदिषमाणः, वेविद्यमानः
21 वेदः, वेदः, विविदिषः, वेविदः
वेदितुम्, वेदयितुम्, विविदिषितुम्, वेविदितुम्
22 वित्तिः, विदा, 23 विद्या, अङ्गविद्या, त्रिविद्या, 24 वेदना, विविदिषा, वेविदा
25 वेदनम्, वेदनम्, विविदिषणम्, वेविदनम्
26 विदित्वा, 27 वेदयित्वा, विविदिषित्वा, वेविदित्वा
आवेद्य, प्रवेद्य, प्रविविदिष्य, प्रवेविद्य
28 ब्राह्मणवेदं 29 चोरवेदम् 30 31 जिघांसुवेदम्, 32 वेदम् २, विदित्वा २, वेदम् २, वेदयित्वा २, विविदिषम् २, विविदिषित्वा २, वेविदम्
वेविदित्वा
33 इति इन्प्रत्ययः।
वेत्ति विन्दति विद्यते वा वेदिः = त्रेताग्न्यधिष्ठानम्।]] वेदिः, 34 विदथः, 35 नवेदाः, 36 इति विश्वशब्द उपपदे असिप्रत्ययः।
विश्ववेदाः = हुताशनः।]] विश्ववेदाः।
प्रासङ्गिक्यः
01
=>
(१६०२ [[आ। ‘विद्वानुपानेष्ट तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]])
02
=>
(२-अदादिः-१०६४। सक। सेट्। पर।)
03
=>
(श्लो। १११)
04
=>
[[१। सनि, ‘रलो व्युपधात्--’ (१-२-२६) इत्यादिना क्रित्त्वविकल्पे प्राप्ते ‘रुदविद--’ (१-२-८) इति नित्यं कित्त्वं भवति। तेन सन्नन्ते सर्वत्र एकमेव रूपम्। क्षीरस्वामी तु ‘रुदविद--’ (१-२-८) इति सूत्रं कित्त्वविकल्पार्थमिति व्याचकार। भाष्यादिषु नित्यकित्त्वविधायकत्वेनैव प्रकृतसूत्रस्य व्याख्यानात् क्षीरस्वामिमतं चिन्त्यम्।]]
05
=>
[[२। शतरि, ‘विदेः शतुर्वसुः’ (७-१-३६) इति सूत्रात् शतुः वस्वादेशविकल्पः। वस्वादेशपक्षे विद्वान् इति
\n\n तदभावपक्षे विदन् इति रूपम्। नित्यं वसुरित्या- देश इति केषाञ्चिन्मतम्। काशिकादिषु तु वैकल्पिकमिति स्पष्टम्।]]
06
=>
[[आ। ‘विद्वानुपानेष्ट तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]]
07
=>
[[B। ‘स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तः…।’ शि। व। ५-९७]]
08
=>
[[३। ण्यन्तात् ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये शपि गुणायादेशौ। वेदयतीति वेदयः।]]
09
=>
[[४। ‘विदिप्रच्छिस्वरतीनाम्’ (वा। १-३-२९) इति संपूर्वकात् विदेः आत्मनेपदं भवति।]]
10
=>
[[५। ‘सत्सूद्विषद्रुहयुजविद--’ (३-२-६१) इति क्विप्प्रत्यये रूपमेवम्।]]
11
=>
[[C। ‘अनिर्विदा या विदधे विधाता पृथ्वी पृथिव्याः प्रतियातनेव।।’ शि। व। ३-३४।]]
12
=>
[[ड्। ‘विदितं वो यथा स्वार्था मे काश्चित्प्रवृत्तयः।’ कु। सं। ६-२६।]]
13
=>
[पृष्ठम्१२३४+ २८]
14
=>
[[१। ‘विन्दुरिच्छुः’ (३-२-१६९) इति तच्छीलादिषु कर्तृषु उप्रत्यये, निपातनात् नुमागमे रूपमेवम्। वेदनशीलो विन्दुः। पवर्गीयादिस्तु ‘बिदि अवयवे’ इति धातोः ‘मृगय्वादिभ्यः’ (द। उणादिः १-१२१) इति कौ बोध्यः, इति बृहच्छब्देन्दुशेखरे।]]
15
=>
[[२। ‘विदिभिदिच्छिदेः कुरच्’ (३-२-१६२) इति कुरच्प्रत्यये रूपमेवम्। ‘ज्ञाता तु विदुरो विन्दुः’ इत्यमरः। अत्र सूत्रे ज्ञानार्थ एव न्यासे गृहीतः।]]
16
=>
[[आ। ‘विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
17
=>
[[३। क्वसुप्रत्यये, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति विकल्पेन इडागमो भवति। विविदिवान्-विविद्वान् इति रूपद्वयम्। ‘ज्ञानार्थस्य तु नित्यं विविद्वान् इत्येकमेव, भवति’ इति काशिकायाम् (७-२-६८) उक्तम्। अन्यत्रार्थे रूपद्वयं बोध्यम्।]]
18
=>
[[B। ‘अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः।।’ नैषधे ४-११८।]]
19
=>
[[४। विदन्नेव वैदनः, ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण्प्रत्ययः। एतेनापि ‘विदेः शतुर्वसुः’ (७-१-३६) इति वसुविकल्पः सिद्धः। अन्यथा अणः प्रकृतिभूतस्य विदन् इति शत्रन्तस्यासिद्धेरित्यवधेयम्।]]
20
=>
[[C। ‘नाविविदिषुमभ्येति संपद्रुरुधिषुं नरम्।’ भ। का। ७-९९।]]
21
=>
[[५। वेत्ति अनेनेति ‘हलश्च’ (३-३-१२१) इति करणे घञ्।]]
22
=>
[[६। ‘मन्त्रे वृषेषपचमनविद--’ (३-३-९६) इति स्त्रियां भावे क्तिन्प्रत्ययः।]]
23
=>
[[७। विदन्त्यनया इति, ‘संज्ञायां समजनिषदनिपतमनविद--’ (३-३-९९) इति स्त्रियां भावे क्यप्प्रत्ययः।]]
24
=>
[[८। ‘घट्टिवन्दिविदिभ्यश्च’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्ययः।]]
25
=>
[पृष्ठम्१२३५+ २७]
26
=>
[[१। क्त्वायां, ‘रलो व्युपधात्--’ (१-२-२६) इति वैकल्पिककित्त्वे प्राप्ते ‘रुद- विद--’ (१-२-८) इत्यादिना नित्यं कित्त्वम्। तेन एकमेव रूपम् इति ज्ञेयम्।]]
27
=>
[[आ। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः।’ भ। का। ७-९८।]]
28
=>
[[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति कर्मण्युपपदे साकल्यविशिष्टेऽर्थे धातोः णमुल्प्रत्ययो भवति। ब्राह्मणवेदं भोजयति इत्यस्य यं यं ब्राह्मणं = ब्राह्मण- त्वेन जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः।]]
29
=>
[भोजयति]
30
=>
[[B। ‘यांश्चोरभूतान् लभते विचारयति वेत्ति वा। तान् सर्वानपि हन्तीति चोरवेदं निहन्त्यसौ।।’ इति प्रक्रियासर्वस्वे।]]
31
=>
[निहन्ति]
32
=>
[[C। ‘जिघांसुवेदं धृतभासुरास्त्रस्तां ताडकाख्यां निजघान रामः।।’ भ। का। २-२३।]]
33
=>
[[३। ‘हृपिशिरुहिवृतिविदि--’ [द। उ। १-४७]
34
=>
[[४। ‘रुदिविदिभ्यां कित्’ (द। उ। ६-४१) इति अथप्रत्यये रूपमेवम्। वेत्तीति विदथः = ज्ञानी।]]
35
=>
[[५। ‘नभ्राण्नपान्नवेदा--’ (६-३-७१) इति निपातनात् वेत्तीति नवेदाः इति असुन्प्रत्ययान्तोऽयम्।]]
36
=>
[[६। ‘विदिभुजिभ्यां विश्वे’ [द। उ। ९-९८]