| YouTube Channel

अङ्गराट् (aGgarAT)

 
E Bharati Sampat
Sanskrit
(पुं) (अङ्गराज्)। अङ्गेषु तद्देशे राजते अङ्ग+राजृ(दीप्तौ)+क्विप् ‘सत्सूद्विष०’ ३.२.६१। १.अङ्गदेशस्य राजा २.कर्ण:। ‘कर्णश्चम्पाधिपोऽङ्गराट्’ हैमः। ३. दशरथसख: लोमपाद:
Wordnet
Sanskrit
Synonyms:
कर्णः, राधेयः, वसुषेणः, अर्कनन्दनः, घटोत्कचान्तकः, चाम्पेशः, चाम्पाधिपः, सूतपुत्रकः, अङ्गराट्, राधासुतः, अर्कतनयः, अङ्गाधिपः, अर्कनन्दनः
noun
कुन्तेः ज्येष्ठः पुत्रः यः दानवीरः आसीत्
"कर्णस्य दानवीरतायाः कथा जनाः अधुनापि शृण्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
अङ्गराट्,
पुं,
(अङ्गे तद्देशे राजते यः अङ्ग + राज् +क्विप् उपपदसमासः) अङ्गदेशाधिपतिः चकर्णः इति हेमचन्द्रः
(दशरथसखः लोम-पादश्च रामायणे, --“सख्यं तस्याङ्गराजेन भविष्यति महात्मनः ।कन्या चास्य महाभागा शान्ता नाम भविष्यति
अङ्गराजेऽनपत्यस्तु लोमपादो भविष्यति ।स राजानं दशरथं प्रार्थयिष्यति भूमिपः”