| YouTube Channel

अङ्गं (aGgaM)

 
Hindi
Hindi
अंग (एस)
शब्दकल्पद्रुमः
Sanskrit
अङ्गं,
क्ली,
शरीरादेरेकदेशः आं इति हिन्दी-भाषा तत्पर्य्यायः अवयवः प्रतीकः अप-घनः इत्यमरः
गात्रं (श्टङ्गारतिलके, --“अङ्गानि चम्पकदलैः विधाय धाता” ।)अप्रधानं (साहित्यदर्पणे, --“एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।अङ्गमन्ये रसाः सर्व्वे कार्य्यनिर्वहणेऽद्भुतं”
उपायः इति मेदिनी
(अङ्ग्यते विषयो बुध्यतेअनेन अङ्ग + करणे घञ् इति व्युत्पत्त्या) मनः ।अङ्गं मनसि काये चेत्यमिधानान्तरदर्शनात् ।यथा “हिरण्यगर्भाङ्गभुवं मुनिं हरिरितिमाघः”
वेदाङ्गशास्त्राणि षट् यथा, --“शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु”
शिक्षा कल्पः व्याकरणं निरुक्तं ज्यो-तिषं छन्दः इत्यमरः
अङ्गस्य लक्षणंयथा तदीयप्रधानफलजनकव्यापारजनकत्वे सतितदीयप्रधानफलाजनकत्वं इति तिथ्यादितत्त्व-टीका