| YouTube Channel

अङ्क्यम् (aGkyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“अकि लक्षणे”@} 2 लक्षणं = चिह्रम्।
‘इदितस्त्वङ्कते तत्र कुटिलायां गतावकेत्।’ 3 इति देवः।
4 ङ्ककः--ङ्किका, अङ्ककः-किका, 5 अञ्चिकिषकः--षिका
अङ्किता-त्री, अङ्कयिता-त्री, अञ्चिकिषिता-त्री
अङ्कयन्-न्ती, अङ्कयिष्यन्-न्ती-ती
अङ्कमानः, अङ्कयमानः, अञ्चिकिषमाणः
अङ्किष्यमाणः, अङ्कयिष्यमाणः, अञ्चिकिषिष्यमाणः
अन् 6 -अङ्कौ-अङ्कः
अङ्कितः- 7 तं, अङ्कितः-तम्-तवान्, अञ्चिकिषितः-तवान्
अङ्कः, अङ्कः, अञ्चिकिषुः, अञ्चिकयिषुः
अङ्कितव्यम्, अङ्कयितव्यम्, अञ्चिकिषितव्यम्
अङ्कनीयम्, अङ्कनीयम्, अञ्चिकिषणीयम्
अङ्क्यम्, अङ्क्यम्, अञ्चिकिष्यम्
ईषदङ्कः-दुरङ्कः-स्वङ्कः
8 अङ्क्यमानः, अङ्क्यमानः, अञ्चिकिष्यमाणः
9 अङ्कः, पर्यङ्कः- 10 पल्यङ्कः, अङ्कः, अञ्चिकिषः
अङ्कितुम्, अङ्कयितुम्, अञ्चिकिषितुम्
अङ्का 11, अङ्कना, अञ्चिकिषा, अञ्चिकयिषा
अङ्कनम्, 12 प्राङ्कनम् अङ्कनम्, अञ्चिकिषणम्
अङ्कित्वा, अङ्कयित्वा, अञ्चिकिषित्वा
समङ्क्य, समङ्क्य, समञ्चिकिष्य
अङ्कमङ्कम् अङ्कित्वा २, अङ्कम् २, अङ्कयित्वा २, अञ्चिकिषम्
अञ्चिकिषित्वा
अङ्कुरः 13
प्रासङ्गिक्यः
01
=>
(२)
02
=>
(भ्वादिः-१-८७। सक-सेट्-आत्मनेपदी।)
03
=>
(श्लो ४१)
04
=>
[[३। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[४। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः। ‘कुहोश्चुः’ (७-४-६२) इत्यभ्यासस्य चकारः।।]]
06
=>
[[५। ‘संयोगान्तस्य लोपः’ (८-२-२३)।]]
07
=>
[[B। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशान् उरुकाककोकिलान्’ धा-का। १-१३।]]
08
=>
[[६। इदित्त्वात् ‘अनिदितां’ (६-४-२४) इति नलोपो न।]]
09
=>
[पृष्ठम्०००५+ २९]
10
=>
[[१। ‘परेश्च घाङ्कयोः’ (८-२-२२) इति लत्वं वा। मञ्च इत्यर्थः।]]
11
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां अक्दमप्रत्ययः।]]
12
=>
[[३। ‘इजादेस्सनुमः’ (८-४-३२) इति नियमात् णत्वं न।]]
13
=>
[[४। औणादिक उरच्।]]
1 {@‘अङ्क पदे लक्षणे च’@} 2 अदन्तः।
‘अङ्क लक्षण इत्यस्य भवेदङ्कयतीति णौ’ 3 इति देवः।
^१ अङ्ककः-ङ्किका, अञ्चिकयिषकः-षिका
अङ्कयिता-त्री, अञ्चिकयिषिता-त्री
अङ्कयन्-न्ती, अञ्चिकयिषन्-न्ती
अङ्कयिष्यन्-न्ती-ती, अञ्चिकयिषिष्यन्-ती-न्ती
अङ्कयमानः, अञ्चिकयिषमाणः
अङ्कयिष्यमाणः, अञ्चिकयिषिष्यमाणः
अन्-अङ्कौ-अङ्कः
अङ्कितम्-तः-तवान्, अञ्चिकयिसितः-तवान्
अङ्कः, अञ्चिकयिषुः
अङ्कयितव्यम्, अञ्चिकयिषितव्यम्
अङ्कनीयम्, अञ्चिकयिषणीयम्
अङ्क्यम्, अञ्चिकयिष्यम्
ईषदङ्कः-दुरङ्कः-स्वङ्कः
अङ्क्यमानः, अञ्चिकयिष्यमाणः
अङ्कः, अञ्चिकयिषः
अङ्कयितुम्, अञ्चिकयिषितुम्
अङ्कना, अञ्चिकयिषा
4 अङ्कनम्, अञ्चिकयिषणम्
अङ्कयित्वा, अञ्चिकयिषित्वा
समङ्क्य, समञ्चिकयिष्य
अङ्कम् २, अङ्कयित्वा २, अञ्चिकयिषम् अञ्चिकयिषित्वा १। धातोर्नित्यणिजन्तत्वात् णिज्रहिताद्रूपाणि भवन्ति।
अनेकाच्- त्वाद् यङन्तरूपाण्यपि न।
प्रासङ्गिक्यः
01
=>
(७)
02
=>
(१०-१९२७-चुरादिः सक। सेट्-उभ-)
03
=>
(श्लो ४१)
04
=>
[पृष्ठम्०००८+ ३७]
1 {@“अन्चु गतिपूजनयोः”@} 2 ‘गतियाचनयोरञ्चत्यञ्चते, णौ विशेषणे।
अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि।।’ इति 3 देवः।
अञ्चकः-ञ्चिका, अञ्चकः-ञ्चिका, अञ्चिचिषकः-षिका
अञ्चिता-त्री, अञ्चयिता-त्री, अञ्चिचिषिता-त्री
अञ्चन्-न्ती, अञ्चयन्-न्ती, अञ्चिचिषन्-न्ती
अञ्चिष्यन्-ती-न्ती, अञ्चयिष्यन्-ती-न्ती, अञ्चिचिषिष्यन्-ती-न्ती
अञ्चयमानः, अञ्चयिष्यमाणः
4 5 प्राङ्, उदङ्, देवद्र्यङ्, तिर्यङ्, अध् 6 यङ्, न्यङ् 7, सध्य्रङ्, सध्री 8 ची
अञ्चितम् 9 -तः 10 -तवान्, अक्तम्-क्तः-क्तवान्, 11 समक्नः-समक्नवान्, अञ्चितम्-तः-तवान्, अञ्चिचिषितम्-तः-तवान्
अञ्चः, अञ्चः, अञ्चिचिषुः, अञ्चिचयिषुः
अञ्चितव्यम्, अञ्चयितव्यम्, अञ्चिचिषितव्यम्
अञ्चनीयम्, अञ्चनीयम्, अञ्चिचिषणीयम्
अङ्क्यम्, 12 अञ्च्यम्, अञ्च्यम्, अञ्चिचिष्यम्
ईषदञ्चः, दुरञ्चः, स्वञ्चः
अञ्च् 13 यमानः, अच्यमानः, अञ्च्यमानः, अञ्चिचिष्यमाणः
अञ्चः, 14 उदङ्कः, 15 अङ्कः, अञ्चः, अञ्चिचिषः
16 अञ्चितुम्, अक्तुम्, अञ्चयितुम्, अञ्चिचिषितुम्
अञ्चा, अञ्चना, अञ्चिचिषा, अञ्चिचयिषा
अञ्चनम्, उदकोदञ्चनः, अञ्चनम्, अञ्चिचिषणम्
अञ्चित्वा, अक्त्वा, अञ्चयित्वा, अञ्चिचिषित्वा
समञ्च्य, समच्य, प्राञ्च्य, समञ्चिचिष्य
अञ्चम् २, अञ्चित्वा २, अक्त्वा २, अञ्चम् २, अञ्चयित्वा २, अञ्चिचिषम्
अञ्चिचिषित्वा
प्रासङ्गिक्यः
01
=>
(२४)
02
=>
(१-भ्वादिः-१८८-स-पर। से।)
03
=>
(श्लो ५०)
04
=>
[पृष्ठम्००२३+ ३९]
05
=>
[[१। ‘ऋत्विगू--’ (३-२-५९) इत्यादिना क्विन्। ‘अनिदितां--’ (६-४-२४) इति नलोपे, ‘उगिदचां--’ (७-१-७०) इति नुम्। नुमो नकारस्य, ‘क्विन्प्रत्य- यस्य कुः’ (८-२-६२) इति कुत्वम्।]]
06
=>
[[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
07
=>
[[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
08
=>
[[B। ‘सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम्’ भ। ६-७।]]
09
=>
[[२। ‘अञ्चेः पूजायाम्’ (७-२-५३) इतीट्। गतौ तु नलोपः।]]
10
=>
[[C। ‘उच्चैरञ्चितलाङ्गूलः शिरोऽञ्चित्वेव संवहन्’ भ। ९-४०।]]
11
=>
[[३। ‘अञ्चोऽनपादाने’ (८-२-४८) इति निष्ठानत्वम्। अपादाने तु ‘उदक्त- मुदकं कूपात्’ इति भवति। ‘उदितो वा’ (७-२-५६) इति क्त्वायां इड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12
=>
[[४। गत्यर्थे निष्ठायामनिट्त्वात् कुत्वम्। पूजायां ‘अञ्चेः पूजायाम्’ (७-२-५३) इति सेट्त्वात् कुत्वाभावः। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
13
=>
[[५। ‘नाञ्चेः पूजायाम्’ (६-४-३०) इति पूजायां नलोपनिषेधः। गतौ तु ‘अनिदिताम्--’ (६-४-२४) इति नलोपः।]]
14
=>
[[६। ‘उदङ्कोऽनुदके’ (३-३-१२३) इति घञन्तो निपातितः।]]
15
=>
[[ड्। ‘हृदयोदङ्कसंस्थानं कृतान्ताऽऽनायसन्निभम्’ भ। ७-८३।]]
16
=>
[पृष्ठम्००२४+ २१]