| YouTube Channel

अङ्क्यः (aGkyaH)

 
Apte Hindi
Hindi
अङ्क्यः
पुं*
- अङ्क्+ण्यत्
एक प्रकार का ढोल या मृदंग
E Bharati Sampat
Sanskrit
(पुं) अङ्के उत्सङ्गे भवः। अङ्क+यत् ‘शरीरावयवाच्च’ ४.३.६२। क्रोडे स्थापनादिपूर्वकं वादनीयः मृदङ्गादिः। ‘भेदा: त्वङ्क्यालिङ्ग्योर्ध्वकादय:’ अमर:। ‘सार्धतालत्रयायामश्चतुर्दशाङ्गुलाननः। हरीतक्याकृतिर्य: स्यादङ्क्योऽङ्गे हि वाद्यते’ भरत:। (वि) अङ्कनीय: ‘नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम्’ मनुः ९.२४०।
शब्दकल्पद्रुमः
Sanskrit
अङ्क्यः,
पुं,
(अङ्क्यते वाद्यते हरीतक्याकृतिर्वाद्य-विशेषः यः अङ्क + ण्यत् ।) हरीतक्याकृतिमृदङ्गः ।पाखओयाज इति भाषा इत्यमरः
तदुक्तं, --“सार्द्धतालत्रयायामश्चतुर्द्दशाङ्गुलाननः ।हरीतक्याकृतिर्यः स्यादङ्क्योऽङ्के हि वाद्यते
इति भरतः
(अपराधिविशेषाणां ललाटादिषुराज्ञा अङ्कनीयः मनुः, --“प्रायश्चित्तन्तु कुर्व्वाणाः सर्व्वे वर्णा यथोदितं ।नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसं”
)