| YouTube Channel

अङ्कः (aGkaH)

 
Apte
English
अङ्कः [aṅkḥ], [अङ्क् कर्तरि करणे वा अच्]
The lap (n. also)
अङ्काद्ययावङ्कमुदीरिताशीः
Ku.*
7.5. passed from lap to lap.
A mark, sign
अलक्तकाङ्कां पदवीं ततान
R.*
7.7
पदङ्क्तिरलक्ताङ्का Rām.
रतिवलयपदाङ्के कण्ठे
Ku.*
2.64. marked with the signs or traces
&c.
: मद्गोत्राङ्कं गेयम्
Me.*
86, a stain, spot, stigma, brand
इन्दोः किरणेष्विवाङ्कः
Ku.*
1.3
कट्यां कृताङ्को निर्वास्यः
Ms.*
8.281.
A numerical figure
a number
the number 9.
A side flank
proximity, reach (connected with 1 above)
समुत्सुकेवाङ्कमुपैति सिद्धिः
Ki.*
3. 4
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध
Śi.*
3.36
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपम्
Bh.*
2.3
Ki.*
17.64, See- ˚आगत below.
An act of a drama, for its nature
&c.
, See S. D.* 278.
A hook or curved instrument.
A species of dramatic composition, one of the ten varieties of रूपक, See S. D.* 519.
An ornament (भूषा).
A sham fight, military show (चित्रयुद्ध).
A coefficient.
A place
नानाङ्क- चिह्नैर्नवहेमभाण्डैः (तुरङ्गैः) Bu.ch.2.4.
A sin, misdeed.
A line, curved line
a curve or bend generally, the bend in the arm.
The body.
A mountain. अङ्कः स्थानान्तिकक्रोडभूषणोत्संगलक्ष्मसु मन्तो नाटकविच्छेदे चित्रयुद्धे रूपके Nm. [cf.
L.
uncus
Gr.
ogkos]
Comp.
-अङ्कमू [अङ्के मध्ये अङ्काः शतपत्रादिचिह्नानि यस्य Tv.] water. -अवतारः when an act, hinted by persons at the end of the preceding act, is brought in continuity with the latter, it is called अङ्कावतार (descent of an act), as the sixth act of Śākuntala or second of Mālavikāgnimitra (अङ्कान्ते सूचितः पात्रैस्तदङ्क- स्याविभागतः यत्राङकोवतरत्येषो$ङ्कावतार इति स्मृतः S. D.* 311). The Daśarūpa defines it differently
अङ्कावतारस्त्वङ्कान्ते पातो$ङ्कस्याविभागतः एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत् 3.56.-आगत, -गत
a.
[द्वि. त.] come within the grasp
सिंहत्वं ˚सत्त्ववृत्तिः
R.*
2.18
श्रियं युवाप्यङ्कगतामभोक्ता
R.*
13.67.-करणम् marking, branding
&c.
-तन्त्रम् the science of numbers (arithmetical or algebraical).
धारणम्णा bearing or having marks, such as those on the body of a Vaiṣṇava.
manner of holding the person. -परिवर्तः [स. त]
turning on the other side.
rolling or dallying in the lap or on the person
अपि कर्णजाहविनिवेशिताननः प्रियया तदङ्कपरिवर्तमाप्नुयाम्
Māl.
5.8. (an occasion for) embrace (अङ्के क्रोडे सर्वतो- भावेन वर्तनं हृदयालिङ्गनम् इत्यर्थः -Jagaddhara)
so ˚परिवर्तिन्
भर्तुः ˚नी भव
M.*
3. -पादव्रतम्
N.
of a Vrata
title of a chapter in the भविष्योत्तरपुराण. -पालिः -ली [पा-अलि ष. त. वा. ङीप्]
the extremity of region of the lap (क्रोडप्रान्त or प्रदेश)
a seat in the lap
hence, an embrace
तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद
Māl.
8.2. स्पृश हस्तेन मे हस्तमेहि देह्यङ्कपालिकाम् Śivabhārata 21.33.
[अङ्केन पालयति पाल्-इ. तृ. त.] a nurse.
(-ली) a variety of plant, Piring or Medicago Esculenta
(Mar. धोत्रा-निघण्टुरत्नाकर) [वेदिकाख्यगन्धद्रव्यम्] -पाशः [अङ्कः पाश इव बन्धनेनेव पातनहेतुर्यत्र Tv.] an operation in arithmetic by which a peculiar concatenation or chain of numbers is formed by making the figures 1, 2
&c.
exchange places (स्थानान्तमेकादिचयाङ्कघातः संख्याविभेदा नियतैः स्युरङ्कैः भक्तो$ङ्कमित्याङ्कसमासनिघ्नः स्थानेषु युक्तो मितिसंयुतिः स्यात् See Līlā.24)
(न गुणो हरो कृतिर्न घनः पृष्टस्तथापि दुष्टानाम् गर्वितगणकबहूनां स्यात् पातो$वश्यमङ्कपाशे$स्मिन्).-पूरणम् multiplication of number of figures. -बन्धः. forming the lap, bending the thighs into a curve and squatting down.
branding with a mark that resembles a headless trunk (अशिरःपुरुषाकरो$ङ्कः). भाज् [अङ्कं भजते उप. स.]
seated in the lap or carried on the hip, as an infant.
being within easy reach, drawing near, soon to be obtained
अविरहितमनेकेनाङ्कभाजा फलेन
Ki.*
5. 52.
premature, early ripe, forced fruit. -मुखम् (or आस्यम्) that part of an act, wherein the subject of all the acts is intimated, is called अङ्कमुख, which suggests the germ as well as the end
e. g. in
Māl.
1 कामन्दकी and अवलोकिता hint the parts to be played by भूरिवसु and others and give the arrangement of the plot in brief (यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला तदङ्क- मुखमित्याहुर्बीजार्थख्यापकं तत् S. D.* 322.) The Daśarūpa defines it thus: अङ्कान्तपौत्ररङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ।i. e. where a character at the end of an act cuts short the story and introduces the beginning of another act
as in the second of Mv. -लोड्यः [अङ्केन लोड्यते असौ] a kind of tree (Mar. चिंचोट), ginger. -लोपः subtraction of numbers. -विद्या the science of numbers, arithmetic.
Apte Hindi
Hindi
अङ्कः
पुं*
- अङ्क+अच्
गोद
अङ्कः
पुं*
- अङ्क+अच्
"चिह्न, संकेत, धब्बा, लांछन, कलङ्क, दाग"
अङ्कः
पुं*
- अङ्क+अच्
"अङ्क, संख्या, की संख्या"
अङ्कः
पुं*
- अङ्क+अच्
"पार्श्व, पक्ष, सान्निध्य, पहुँच"
अङ्कः
पुं*
- अङ्क+अच्
नाटक का एक खंड
अङ्कः
पुं*
- अङ्क+अच्
कँटिया या मुड़ा हुआ उपकरण
अङ्कः
पुं*
- अङ्क+अच्
"नाट्य-रचना का एक प्रकार, रूपक के दस भेदों में से एक "
अङ्कः
पुं*
- अङ्क+अच्
"पंक्ति, मुड़ी हुई पंक्ति, सामान्यतः एक मोड़, भुजा में मोड़"
अङ्कः
पुं*
- अङ्क् कर्तरि करणे वा अच्
"पानी, जल"
E Bharati Sampat
Sanskrit
(पुं) अङ्क्यते अनेन अकि(लक्षणे)+घञ् ‘हलश्च’ ३.३.१२१। १.लाञ्छनम्, चिह्नम् ‘रतिवलयपदाङ्के चापमासज्य कण्ठे’ कुमा०२.६४। २.कलङ्कः। ‘कलङ्काङ्कौ लाञ्छनं च’ अमरः। ‘एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः’ कुमा०१.३। (पुंन) ३. उत्सङ्गः। ‘अङ्काद्ययावङ्कमुदीरिताशीः’ कुमा०७.५। ४. रूप्कांशभेदः, दृश्यकाव्याङ्गभेदः। ‘प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः। अङ्को नानाप्रकारार्थसंविधानरसाश्रयः’ ‘अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः’ सा०द०६.१२, १९। ५.दृश्यकाव्यरूपकभेदः। ‘उत्सृष्टिकाङ्क एकाङ्को नेतारः प्राकृता नराः। रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम् ॥’ सा०द०६.२५०। ६. चित्रयुद्धम्, आजिः। ७. समीपम्, अन्तिकम् ‘समुत्सुकेवाङ्कमुपैति सिद्धिः’ किरा०३.४। ८.स्थानम् ९.पापम् १०.दुःखम् ११.मन्तुः, अपारधः। १२.रेखा १३.भूषणम् ‘अङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु नाटकादिपरिच्छेदे चित्रयुद्धे भूषणे ॥’ विश्वः। ‘अङ्को रूपकभेदागश्चिह्नरेखाजिभूषणे रूपकांशान्तिकोत्सङ्गे स्थानेऽङ्कं पापदुःखयोः’ मेदिनी १४. शरीरम् १५.पर्वतः। १६.सङ्ख्या, एकत्वादिसङ्ख्याबोधकरेखासन्निवेशः। ‘अङ्कयुतिः किल सङ्कलिताख्या’ लीला०। १७.मतिः, बुद्धिः। ‘अङ्को नाटकविच्छेदे सङ्ख्यायां युधि भूषणे समीपे रूपके स्थाने मतौ’ नानार्थर०। १८.नवसङ्या-ज्यो०।
(न) (अङ्कस्) अञ्चु(गतौ)+असुन्, कादेशश्च ‘अञ्च्यञ्जि०’ उ०४.२१५। १.चिह्नम् २.शरीरम् ‘अङ्कश्चिह्नशरीरयोः’ सि०कौ०।
Wordnet
Sanskrit
Synonyms:
अङ्कः
noun
तत् स्थानं यतः किमपि वस्तु वलति।
"तन्तोः अङ्के एका मुषलिका अस्ति।"
Synonyms:
अङ्कः, प्राप्ताङ्कः
noun
कस्याञ्चित् परीक्षायां प्रतियोगितायां वा परीक्षार्थिनः क्षमतायाः अनुसारेण तस्य तस्याः वा प्राप्ता सङ्ख्या।
"वार्षिकस्यां परीक्षायां तेन चतुर्शततः त्रिशतानि अङ्कानि अर्जितानि।"
Synonyms:
अङ्कः
noun
सङ्ख्यायाः चिह्नम्।
"०, १, २, ३, ४, ५, ६, ७, ८, एते अङ्काः।"
Synonyms:
अङ्कः
noun
शून्यतः नवपर्यन्तं सङ्ख्या।
"त्रयाणाम् अङ्कानाम् लघुतमा सङ्ख्या।"
Synonyms:
अङ्कः
noun
पत्रस्य पत्रिकायाः वा तद् प्रकाशनं यद् नियतसमये आगच्छति।
"अस्य पत्रिकायाः एषः द्वितीयः अङ्कः अस्ति।"
Synonyms:
अङ्कः
noun
प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः अन्तर्निष्क्रान्तनिखिलपात्रः अङ्कः।
"नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।"
Synonyms:
अध्यायः, पाठः, परिच्छेदः, सर्गः, वर्गः, उद्घातः, अङ्कः, संग्रहः, उच्छ्वासः, परिवर्तः, पटलः, पर्वः, आह्निकम्, प्रकरणम्
noun
ग्रन्थसन्धिः।
"उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।"
Synonyms:
अङ्कः, क्रोडम्, क्रोडा, उत्सङ्गः, ऊरूदेशः, सक्थिदेशः, जानुदेशः
noun
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
"बालकः मातायाः अङ्के खेलति।"
Synonyms:
चिह्नम्, अङ्कः, मुद्रा
noun
वस्तुनः व्यावर्तकः धर्मः।
"मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।"
Synonyms:
अध्यायः, परिच्छेदः, अध्ययः, सर्गः, पर्वः, विच्छेदः, स्कन्धः, प्रकरणम्, प्रस्तावः, अङ्कः, वर्गः, शाखा, उल्लासः, उच्छ्वासः, आश्वासः, उद्यतः
noun
एकविषयप्रतिपादनदृष्ट्या ग्रन्थस्थितप्रकरणस्य अवयवः।
"अस्मिन् अध्याये प्रभुरामचन्द्रस्य जन्मनः अद्भुतं वर्णनम् अस्ति।"
अमरकोशः
Sanskrit
Word: अङ्कः
Root: अङ्कः
Gender: undefined
Number: undefined
Meaning(s):
breast
correction
between the arms
Shloka(s):
2|6|77|2 चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्॥ (मनुष्यवर्गः)
3|3|198|1 शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु। (नानार्थवर्गः)
Synonym(s):
2|6|77|2 (क्रोड) (स्त्री)
2|6|77|2 क्रोडम् (क्रोड) (नपुं)
2|6|77|2 भुजान्तरम् (भुजान्तर) (नपुं)
3|3|198|1 पालिः (पालि) (स्त्री) lap, pot, row, dam, dike, spot, line, edge, mark, range, bosom, limit, louse, bridge, boiler, margin, boundary, outer ear, circumference, prescribed food, lobe of the ear, tip or lobe of the ear, particular measure of capacity, maintenance of a scholar during the period of his studies by his teacher
Related word(s):
अवयव_अवयवीसंबन्धः देहः
परा_अपरासंबन्धः देहावयवः
उपाधि अवयवः
शब्दकल्पद्रुमः
Sanskrit
अङ्कः,
पुं,
(अङ्कयति चिह्नयति, अङ्क + अच्)चिह्नं (स्वनामकाङ्कां निचखान शायकं इतिरघुवंशे ।) क्रोडं (सपत्नीतनयं दृष्ट्वा तमङ्कारोह-णोत्सुकं इति विष्णुपुराणे
) रूपकविशेषः ।अपराधः रेखा विभूषणं समोपं स्थानं ।नाटकांशः इति मेदिनी
(प्रत्यक्षनेतृचरितोरसभावससुज्ज्वलः भवेदगूढशब्दार्थः क्षुद्र-चूर्णकसंयुतः
अन्तर्निष्क्रान्तनिखिलपात्रोऽङ्कइति कीर्त्तितः इति साहित्यदर्पणे) चित्र-युद्धं इति विश्वः
शरीरं इत्युणादिकोषः
नवसङ्ख्या इति ज्योतिषं
(कुचभूषायां ।प्रकरणे अगे कटिप्रदेशे कलङ्के एको हिदोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्वि-वाङ्कः इति कुमारसम्भवे ।)
कृदन्तरूपमाला
Sanskrit
1 {@“अकि लक्षणे”@} 2 लक्षणं = चिह्रम्।
‘इदितस्त्वङ्कते तत्र कुटिलायां गतावकेत्।’ 3 इति देवः।
4 ङ्ककः--ङ्किका, अङ्ककः-किका, 5 अञ्चिकिषकः--षिका
अङ्किता-त्री, अङ्कयिता-त्री, अञ्चिकिषिता-त्री
अङ्कयन्-न्ती, अङ्कयिष्यन्-न्ती-ती
अङ्कमानः, अङ्कयमानः, अञ्चिकिषमाणः
अङ्किष्यमाणः, अङ्कयिष्यमाणः, अञ्चिकिषिष्यमाणः
अन् 6 -अङ्कौ-अङ्कः
अङ्कितः- 7 तं, अङ्कितः-तम्-तवान्, अञ्चिकिषितः-तवान्
अङ्कः, अङ्कः, अञ्चिकिषुः, अञ्चिकयिषुः
अङ्कितव्यम्, अङ्कयितव्यम्, अञ्चिकिषितव्यम्
अङ्कनीयम्, अङ्कनीयम्, अञ्चिकिषणीयम्
अङ्क्यम्, अङ्क्यम्, अञ्चिकिष्यम्
ईषदङ्कः-दुरङ्कः-स्वङ्कः
8 अङ्क्यमानः, अङ्क्यमानः, अञ्चिकिष्यमाणः
9 अङ्कः, पर्यङ्कः- 10 पल्यङ्कः, अङ्कः, अञ्चिकिषः
अङ्कितुम्, अङ्कयितुम्, अञ्चिकिषितुम्
अङ्का 11, अङ्कना, अञ्चिकिषा, अञ्चिकयिषा
अङ्कनम्, 12 प्राङ्कनम् अङ्कनम्, अञ्चिकिषणम्
अङ्कित्वा, अङ्कयित्वा, अञ्चिकिषित्वा
समङ्क्य, समङ्क्य, समञ्चिकिष्य
अङ्कमङ्कम् अङ्कित्वा २, अङ्कम् २, अङ्कयित्वा २, अञ्चिकिषम्
अञ्चिकिषित्वा
अङ्कुरः 13
प्रासङ्गिक्यः
01
=>
(२)
02
=>
(भ्वादिः-१-८७। सक-सेट्-आत्मनेपदी।)
03
=>
(श्लो ४१)
04
=>
[[३। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[४। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः। ‘कुहोश्चुः’ (७-४-६२) इत्यभ्यासस्य चकारः।।]]
06
=>
[[५। ‘संयोगान्तस्य लोपः’ (८-२-२३)।]]
07
=>
[[B। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशान् उरुकाककोकिलान्’ धा-का। १-१३।]]
08
=>
[[६। इदित्त्वात् ‘अनिदितां’ (६-४-२४) इति नलोपो न।]]
09
=>
[पृष्ठम्०००५+ २९]
10
=>
[[१। ‘परेश्च घाङ्कयोः’ (८-२-२२) इति लत्वं वा। मञ्च इत्यर्थः।]]
11
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां अक्दमप्रत्ययः।]]
12
=>
[[३। ‘इजादेस्सनुमः’ (८-४-३२) इति नियमात् णत्वं न।]]
13
=>
[[४। औणादिक उरच्।]]
1 {@‘अङ्क पदे लक्षणे च’@} 2 अदन्तः।
‘अङ्क लक्षण इत्यस्य भवेदङ्कयतीति णौ’ 3 इति देवः।
^१ अङ्ककः-ङ्किका, अञ्चिकयिषकः-षिका
अङ्कयिता-त्री, अञ्चिकयिषिता-त्री
अङ्कयन्-न्ती, अञ्चिकयिषन्-न्ती
अङ्कयिष्यन्-न्ती-ती, अञ्चिकयिषिष्यन्-ती-न्ती
अङ्कयमानः, अञ्चिकयिषमाणः
अङ्कयिष्यमाणः, अञ्चिकयिषिष्यमाणः
अन्-अङ्कौ-अङ्कः
अङ्कितम्-तः-तवान्, अञ्चिकयिसितः-तवान्
अङ्कः, अञ्चिकयिषुः
अङ्कयितव्यम्, अञ्चिकयिषितव्यम्
अङ्कनीयम्, अञ्चिकयिषणीयम्
अङ्क्यम्, अञ्चिकयिष्यम्
ईषदङ्कः-दुरङ्कः-स्वङ्कः
अङ्क्यमानः, अञ्चिकयिष्यमाणः
अङ्कः, अञ्चिकयिषः
अङ्कयितुम्, अञ्चिकयिषितुम्
अङ्कना, अञ्चिकयिषा
4 अङ्कनम्, अञ्चिकयिषणम्
अङ्कयित्वा, अञ्चिकयिषित्वा
समङ्क्य, समञ्चिकयिष्य
अङ्कम् २, अङ्कयित्वा २, अञ्चिकयिषम् अञ्चिकयिषित्वा १। धातोर्नित्यणिजन्तत्वात् णिज्रहिताद्रूपाणि भवन्ति।
अनेकाच्- त्वाद् यङन्तरूपाण्यपि न।
प्रासङ्गिक्यः
01
=>
(७)
02
=>
(१०-१९२७-चुरादिः सक। सेट्-उभ-)
03
=>
(श्लो ४१)
04
=>
[पृष्ठम्०००८+ ३७]
1 {@“अन्चु गतिपूजनयोः”@} 2 ‘गतियाचनयोरञ्चत्यञ्चते, णौ विशेषणे।
अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि।।’ इति 3 देवः।
अञ्चकः-ञ्चिका, अञ्चकः-ञ्चिका, अञ्चिचिषकः-षिका
अञ्चिता-त्री, अञ्चयिता-त्री, अञ्चिचिषिता-त्री
अञ्चन्-न्ती, अञ्चयन्-न्ती, अञ्चिचिषन्-न्ती
अञ्चिष्यन्-ती-न्ती, अञ्चयिष्यन्-ती-न्ती, अञ्चिचिषिष्यन्-ती-न्ती
अञ्चयमानः, अञ्चयिष्यमाणः
4 5 प्राङ्, उदङ्, देवद्र्यङ्, तिर्यङ्, अध् 6 यङ्, न्यङ् 7, सध्य्रङ्, सध्री 8 ची
अञ्चितम् 9 -तः 10 -तवान्, अक्तम्-क्तः-क्तवान्, 11 समक्नः-समक्नवान्, अञ्चितम्-तः-तवान्, अञ्चिचिषितम्-तः-तवान्
अञ्चः, अञ्चः, अञ्चिचिषुः, अञ्चिचयिषुः
अञ्चितव्यम्, अञ्चयितव्यम्, अञ्चिचिषितव्यम्
अञ्चनीयम्, अञ्चनीयम्, अञ्चिचिषणीयम्
अङ्क्यम्, 12 अञ्च्यम्, अञ्च्यम्, अञ्चिचिष्यम्
ईषदञ्चः, दुरञ्चः, स्वञ्चः
अञ्च् 13 यमानः, अच्यमानः, अञ्च्यमानः, अञ्चिचिष्यमाणः
अञ्चः, 14 उदङ्कः, 15 अङ्कः, अञ्चः, अञ्चिचिषः
16 अञ्चितुम्, अक्तुम्, अञ्चयितुम्, अञ्चिचिषितुम्
अञ्चा, अञ्चना, अञ्चिचिषा, अञ्चिचयिषा
अञ्चनम्, उदकोदञ्चनः, अञ्चनम्, अञ्चिचिषणम्
अञ्चित्वा, अक्त्वा, अञ्चयित्वा, अञ्चिचिषित्वा
समञ्च्य, समच्य, प्राञ्च्य, समञ्चिचिष्य
अञ्चम् २, अञ्चित्वा २, अक्त्वा २, अञ्चम् २, अञ्चयित्वा २, अञ्चिचिषम्
अञ्चिचिषित्वा
प्रासङ्गिक्यः
01
=>
(२४)
02
=>
(१-भ्वादिः-१८८-स-पर। से।)
03
=>
(श्लो ५०)
04
=>
[पृष्ठम्००२३+ ३९]
05
=>
[[१। ‘ऋत्विगू--’ (३-२-५९) इत्यादिना क्विन्। ‘अनिदितां--’ (६-४-२४) इति नलोपे, ‘उगिदचां--’ (७-१-७०) इति नुम्। नुमो नकारस्य, ‘क्विन्प्रत्य- यस्य कुः’ (८-२-६२) इति कुत्वम्।]]
06
=>
[[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
07
=>
[[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
08
=>
[[B। ‘सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम्’ भ। ६-७।]]
09
=>
[[२। ‘अञ्चेः पूजायाम्’ (७-२-५३) इतीट्। गतौ तु नलोपः।]]
10
=>
[[C। ‘उच्चैरञ्चितलाङ्गूलः शिरोऽञ्चित्वेव संवहन्’ भ। ९-४०।]]
11
=>
[[३। ‘अञ्चोऽनपादाने’ (८-२-४८) इति निष्ठानत्वम्। अपादाने तु ‘उदक्त- मुदकं कूपात्’ इति भवति। ‘उदितो वा’ (७-२-५६) इति क्त्वायां इड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12
=>
[[४। गत्यर्थे निष्ठायामनिट्त्वात् कुत्वम्। पूजायां ‘अञ्चेः पूजायाम्’ (७-२-५३) इति सेट्त्वात् कुत्वाभावः। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
13
=>
[[५। ‘नाञ्चेः पूजायाम्’ (६-४-३०) इति पूजायां नलोपनिषेधः। गतौ तु ‘अनिदिताम्--’ (६-४-२४) इति नलोपः।]]
14
=>
[[६। ‘उदङ्कोऽनुदके’ (३-३-१२३) इति घञन्तो निपातितः।]]
15
=>
[[ड्। ‘हृदयोदङ्कसंस्थानं कृतान्ताऽऽनायसन्निभम्’ भ। ७-८३।]]
16
=>
[पृष्ठम्००२४+ २१]