| YouTube Channel

अघि (aghi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अङ्घ्
मूलधातुः:
अघि
धात्वर्थः:
गत्याक्षेपे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
अङ्घते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
अघिँ अघि
मानकरूपान्तरम् - वघिँ
वघि
मानकरूपान्तरम् - मघिँ
मघि गत्याक्षेपे
- अङ्घते अनङ्गे वङ्घते ववङ्घे विवङ्घिषते मङ्घते ।।
क्षीरतरङ्गिणी
Sanskrit
अघिँ अघि
मानकरूपान्तरम् - वघिँ
वघि
मानकरूपान्तरम् - मघिँ
मघि गत्याक्षेपे
(अर्थविवरणम्) गत्याक्षेपो वेगगतिर्गमनारम्भो वा
अङ्घते उणादावघम्, वङ्क्र्यादौ (द्र0उ0466) अङ्घ्रिरित्येके 105-107
धातुवृत्तिः
Sanskrit
अघिँ अघि
मानकरूपान्तरम् - वघिँ
वघि
मानकरूपान्तरम् - मघिँ
मघि (अर्थः) गत्याक्षेपे
(अर्थविवरणम्) आक्षेपो निन्दा
, गतौ गमनारम्भे चेति स्वामी ( अङ्कते आनङ्के अङ्कितेत्यादि अञ्जिघिषते ) "नन्द्राः'' इति नवर्जं द्विरुच्यते अभ्यासस्य चुत्वेन झकारे जश् वे जकारः ( अङ्घयति आञ्जिघत् वक्ङते मङ्घते ) इत्यादि प्राङ्घनमित्यादौ "इजादेः सनुम'' इति नियमादणत्वम् मघि कैतवे 109
कृदन्तरूपमाला
Sanskrit
1 {@‘अघि गत्याक्षेपे’@} 2 गत्याक्षेपो = निन्दा 3।
अङ्घकः-ङ्घिका, अञ्जिघिषकः-षिका, इत्यादिरूपाणि ‘अकि लक्षणे’ 4 इति धातुवद् बोध्यानि।
अङ्घितम् = भावे क्तः ‘अरङ्कि कोलैर्लघु तद्रथस्वनात् प्रबुद्ध्य सिंहैः पुनरङ्घितं सदा’ धा।
का-१-१५।
प्रासङ्गिक्यः
01
=>
(६)
02
=>
(भ्वादिः-१-१०९-सक। सेट्-आ।)
03
=>
(गतौ-गत्यारम्भे च)
04
=>
(२।)