| YouTube Channel

अघमर्षणः (aghamarSaNaH)

 
E Bharati Sampat
Sanskrit
(वि)अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेन कर्माक्षमत्वात् सह्यते अनेन १.पापनाशनः (न) २. अघस्य मर्षणः उत्पन्नसकलपापविनाशाय जप्यः मन्त्रः। ‘ऋतं सत्यं च’ इत्यादिः’ ‘सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्’ अमरः। (स्त्री) अघमर्षणी ऋक् टित्त्वात् अघमर्षण+ङीप् ‘टिड्ढाणञ्’ ४.१.१५। ‘ऋतं सत्यं चाद्यघमर्षणं त्रिरन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते’ बोधायनः।
Wordnet
Sanskrit
Synonyms:
अघमर्षणः
noun
पौराणिकः ऋषिविशेषः।
"अघमर्षणस्य वर्णनं ऋग्वेदे प्राप्यते।"