| YouTube Channel

अग्रेदिधिषुः (agredidhiSuH)

 
Apte Hindi
Hindi
अग्रेदिधिषुः
पुं*
अग्रे-दिधिषुः -
पहले तीन वर्णों में से कोई एक पुरुष जो विवाहित स्त्री से विवाह करता है
E Bharati Sampat
Sanskrit
(पुं) अग्रे दिधिं धैर्यं स्यति त्यजति इन्द्रियदौर्बल्यात् अग्रे+षो(अन्तकर्मणि)+कूः। निपा०। ‘अन्दूदृम्भू०दिधिषूः’ उ०१.९३। वा हृस्वः। पृषो०। अग्रे प्रधानं दिधिषुः द्विरूढा यस्य १.मृतभर्तृकायाः प्रजावत्याः परिणेता ‘भ्रातुर्मृतस्य जायायां संसक्तो दिधिषूपतिः तु स्यादग्रदिधिषुर्योऽनुजो रमते तया स्यादग्रेदिधिषुश्चासौ स्यादग्रेदिधिषूरपि’ वैज०। (स्त्री) २. प्रागनूढज्येष्ठभगिन्याः प्रागूढकनिष्ठभगिनी ‘ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा सा चाग्रेदिधिषुर्ज्ञेया पूर्वा तु दिधिषुः स्मृता’ देवलः।
शब्दकल्पद्रुमः
Sanskrit
अग्रेदिधिषुः,
पुं,
(दिधिं धैर्य्यं स्यति इन्द्रियदौर्ब्ब-ल्यात् त्यजति दिधि + सो + अब्धुदृनकूजम्बु-कम्बुककेलूकर्कन्धूदिधिषु इत्युणादिसूत्रेण कु ष-त्वञ्च दिधिषुः पुनर्भूयोषित् अग्रे गणनीया दि-धिषुः द्विरूढा स्त्री यस्य सः बहु० हलदन्तात्सप्तम्याः संज्ञायामिति पाणिनिसूत्रेण अलुक्पुनर्भूविवाहकारिणि जने) द्विरूढैव यस्य कुटु-म्बिनी द्विजः द्विज इत्युपलक्षणं दिधिषुःपरपूर्व्वाग्रे दिधिषुस्तत्पुरन्ध्रिकः इति सामा-न्येन नाममालादर्शनात् द्वितीयवारविवाहित-पुत्त्रादिमती गृहिणीर स्वामी इति भाषा इत्य-मरः
अग्रेदिधिषुः,
स्त्री,
(प्रागनूढज्येष्ठभगिन्याः प्रागूढ-कनिष्ठभगिन्यां अग्रे प्रथमे ज्येष्ठायां भगिन्यांविद्यमानायां गणनीया दिधिषुः ज्येष्ठा विवाह-कालासहनरूपधैर्य्यलोपकारिणीति विग्रहे शा-कपार्थिवादित्वात् समासः मध्यपदलोपश्च ।)अविवाहितज्येष्ठभगिनीसत्त्वे अग्रे विवाहिताकनिष्ठा यथा, --“ज्येष्ठायां विद्यमानायां कन्यायामुह्यतेऽनुजा ।सा चाग्रे दिधिषुर्ज्ञेया पूर्व्वा दिधिषुः स्मृता”
इति देवलः दिधिषूर्दोर्घोकारान्तोऽपि